"रतन टाटा" इत्यस्य संस्करणे भेदः

भारते सुप्रसिद्धस्य टाटा उद्यमक्षेत्रस्य संस्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः २८:
Servants of India काचित् सामाजिकी संस्था। १९०५ तमवर्षस्य जून् मासस्य १२ दिनाङ्के गोपालकृष्णगोखले नेतृत्वे एतस्याः स्थापना अभवत्। स्वतन्त्रभारतस्य स्वप्नं पश्यतः भारतीयानां देशभक्तानां सङ्घटनं कुर्वन् गोखलेमहोदयः मित्रात् रतनात् धनसाहाय्यं स्वीकृतवान्। संस्थाद्वारा दरिद्राणाम् असहायकजनानां साहाय्यं कृतवान्। तावत् पर्यन्तं कोऽपि भारतीयः उद्यमपतिः एवं स्वप्रेरणया धर्मकार्ये भागं न स्वीकृतवान् आसीत्।
सर् रतनटाटान्यासस्य स्थापना
१९१९ तमे वर्षे सप्टम्बर् मासस्य पञ्चमदिनाङ्के रतनटाटा मरणं प्राप्तवान्। अनन्तरं तस्य पत्नी नवाजबायी पत्युः इच्छानुसारं कुटुम्बजनैः सह समालोच्य सर् रतनटाटान्यासम् आरब्धवती।८ मिलियन् रूप्यकाणां सम्पत् दरिद्राणां जीवने आशाकिरणानि उदपातयन्। ६० वर्षाणि यावत् तस्य निर्देशिका सती नवाजबायी अनुपमां सेवां कृतवती। हर्मुस्जीटाटावर्यस्य पुत्रः नावल् हर्मुस्जी। नवाजबायी तं दत्तकपुत्ररूपेण स्वीकृतवती। नावल् हर्मुस्जी एव इदानीं टाटा सन्स् संस्थायाः निर्देशकः अस्ति।
"https://sa.wikipedia.org/wiki/रतन_टाटा" इत्यस्माद् प्रतिप्राप्तम्