"रामेश्वरम्" इत्यस्य संस्करणे भेदः

द्वादश ज्योतिर्लिङ्गेषु अन्यतमं रामेश्वरक्षे... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:३१, २६ आगस्ट् २०११ इत्यस्य संस्करणं

द्वादश ज्योतिर्लिङ्गेषु अन्यतमं रामेश्वरक्षेत्रं तमिळुनाडुराज्यस्य रामनाडुमण्डले अस्ति । रामनाडुतः रामेश्वरं प्रति सेतुः अस्ति । सः सेतुः "पाम्बन्" नाम्ना निर्दिश्यते इदानीम् । अयमेकः सुन्दरः द्वीपः अस्ति । चतुर्धामेषु एतत् दक्षिणधाम इति उच्यते । पुराणेषु एतत् क्षेत्रं "गन्धमादन" नाम्ना निर्दिष्टम् अस्ति । "यात्रा" इति शब्दस्य श्रवणमात्रेण "काशी-रामेश्वर-यात्रा" एव स्मर्यते सर्वेण अपि हिन्दुजनेन । तावत्प्रसिद्धम् एतत्क्षेत्रम् । काशीतः गङ्गाजलम् आनीय रामेश्वरस्य अभिषेकं कारयामः चेत् यात्रा सम्पूर्णा इति चिन्तयति सर्वः अपि हिन्दुः ।

रामेश्वरमन्दिरम् अत्यन्तं भव्यं मन्दिरम् । श्रीलङ्कायाः राज्ञः परराजशेखरस्य साहाय्येन रामनाडुराजा उदयनसेतुपतिः अस्य मन्दिरस्य निर्माणकार्यं क्रि श १४१४तमे वर्षे आरब्धवान् । सार्धत्रिशतवर्षाभ्यन्तरे निर्मितम् अभवत् एतत् मन्दिरम् । अस्य बृहदाकारकाः स्तम्भाः, महाशिलायुक्तछदिः द्रष्टृषु आश्चर्यं जनयन्ति । मन्दिरस्य पूर्वदिशि पश्चिमदिशि च अत्युन्नतं भव्यं गोपुरम् अस्ति । गर्भगृहं परितः विद्यमान् प्रत्येकमपि ॥॥॥। १,०००पादमितं दीर्घं, ६०० पादमितं विशालं, १५ पादमितम् उन्नतं च अस्ति । अत्रत्येषु स्तम्भेषु सुन्दराणि चित्राणि उत्कीर्णानि सन्ति । एतत् मन्दिरं दृष्टवान् प्रसिद्धः शिल्पकलातज्ञः फर्ग्युसन् "सर्वाङ्गसुन्दरस्य द्राविडशिल्पकलायुक्तस्य किमपि उदाहरणं दातव्यं चेत् अस्य मन्दिरस्य अपेक्षया उत्तमम् अन्यत् किमपि नास्ति इति उच्चस्वरेण वक्तुं शक्यते" इति अवदत् । प्रायः भारते एव अत्यन्तं बृहत् मन्दिरम् ।

"https://sa.wikipedia.org/w/index.php?title=रामेश्वरम्&oldid=125455" इत्यस्माद् प्रतिप्राप्तम्