"रामेश्वरम्" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
द्वादश ज्योतिर्लिङ्गेषु अन्यतमं रामेश्वरक्षेत्रं [[तमिळुनाडु|तमिळुनाडुराज्यस्य]] [[रामनाडुमण्डलम्|रामनाडुमण्डले]] अस्ति । रामनाडुतः रामेश्वरं प्रति सेतुः अस्ति । सः सेतुः "पाम्बन्" नाम्ना निर्दिश्यते इदानीम् । अयमेकः सुन्दरः द्वीपः अस्ति । [[चतुर्धाम्|चतुर्धामेषु]] एतत् दक्षिणधाम इति उच्यते । [[पुराणम्|पुराणेषु]] एतत् क्षेत्रं "गन्धमादन" नाम्ना निर्दिष्टम् अस्ति । "यात्रा" इति शब्दस्य श्रवणमात्रेण "[[काशी|काशी]]-रामेश्वर-यात्रा" एव स्मर्यते सर्वेण अपि हिन्दुजनेन । तावत्प्रसिद्धम् एतत्क्षेत्रम् । काशीतः गङ्गाजलम् आनीय रामेश्वरस्य अभिषेकं कारयामः चेत् यात्रा सम्पूर्णा इति चिन्तयति सर्वः अपि हिन्दुः ।
 
रामेश्वरमन्दिरम् अत्यन्तं भव्यं मन्दिरम् । [[श्रीलङ्का|श्रीलङ्कायाः]] राज्ञः परराजशेखरस्य साहाय्येन रामनाडुराजा उदयनसेतुपतिः अस्य मन्दिरस्य निर्माणकार्यं क्रि श १४१४तमे वर्षे आरब्धवान् । सार्धत्रिशतवर्षाभ्यन्तरे निर्मितम् अभवत् एतत् मन्दिरम् । अस्य बृहदाकारकाः स्तम्भाः, महाशिलायुक्तछदिः द्रष्टृषु आश्चर्यं जनयन्ति । मन्दिरस्य पूर्वदिशि पश्चिमदिशि च अत्युन्नतं भव्यं गोपुरम् अस्ति । गर्भगृहं परितः विद्यमान्विद्यमानेषु प्रत्येकमपिप्रदक्षिणपथेषु ॥॥॥।प्रत्येकः अपि प्रदक्षिणपथः १,०००पादमितं दीर्घंदीर्घः, ६०० पादमितं विशालंविशालः, १५ पादमितम् उन्नतंउन्नतः च अस्ति । अत्रत्येषु स्तम्भेषु सुन्दराणि चित्राणि उत्कीर्णानि सन्ति । एतत् मन्दिरं दृष्टवान् प्रसिद्धः शिल्पकलातज्ञः [[फर्ग्युसन्|फर्ग्युसन्]] "सर्वाङ्गसुन्दरस्य द्राविडशिल्पकलायुक्तस्य किमपि उदाहरणं दातव्यं चेत् अस्य मन्दिरस्य अपेक्षया उत्तमम् अन्यत् किमपि नास्ति इति उच्चस्वरेण वक्तुं शक्यते" इति अवदत् । प्रायः [[भारतम्|भारते]] एव अत्यन्तं बृहत् मन्दिरम् ।
 
रामेश्वरमन्दिरस्य पुरतः स्वर्णस्तम्भः अस्ति । तत्समिपे रामेण संस्थापितः १३ पादमितोन्नतः, ८ पादमितं दीर्घः, ९ पादमितं विशालः धवलवर्णस्य महानन्दिविग्रहः अस्ति । तस्य विग्रहस्य वामभागे हनुमतः विग्रहः, दक्षिणभागे "शिवतीर्थ"नामिका पुष्करणी च अस्ति । अस्य मन्दिरस्य परिसरे सर्वतीर्थाणि अपि सन्ति इति विश्वासः अस्माकम् । रामेश्वरमन्दिरस्य ॥॥।प्रदक्षिणपथस्य उत्तरभागे [[हनुमान्|हनुमता]] [[कैलासः|कैलासतः]] आनीतं शिवलिङ्गम् अस्ति । रामेश्वरलिङ्गं शेषस्य महाफणाकारकम् अस्ति । पार्श्वयोः सीतालक्ष्मणयोः[[सीता|सीता]][[लक्षमणः|लक्ष्मणयोः]] स्वर्णविग्रहौ स्तः । [[अगस्त्यः|अगस्त्येन]] पूजितम् अगस्त्येश्वरलिङ्गम् अपि अस्ति अत्र । [[पार्वती|पर्वत्याः]], [[षण्मुखः|षण्मुखस्य]], [[गणेशः|गणेशस्य]], नन्दिकेश्वरस्य, [[विशालाक्षी|विशालाक्ष्याः]] एवं बहूनां देवानां मन्दिराणि सन्ति अत्र ।
 
अयं द्वीपः [[कृष्णः|कृष्णस्य]] शङ्खस्य "पाञ्चजन्य"स्य आकारकः अस्ति । अस्मिन् एव द्वीपे [[रामः|रामः]] अखण्डं दिनत्रयम् आदिजगन्नाथम् उद्दिश्य तपः आचर्य दिव्यचापं प्राप्तवान् । एतत्स्थानं "दर्भशयनम्" इति उच्यते । रामेश्वरतः सार्धैकमैल् दूरे पर्वतस्य उपरि सुन्दरं किञ्चित् मन्दिरम् अस्ति, तत्र रामस्य पादचिह्नम् अस्ति । रामेश्वरस्य दक्षिणभागे "धनुष्कोटि"नामकं स्थानम् अस्ति । रामः तस्मिन् स्थाने एव धनुषः अग्रभागेण लङ्कां प्रति निर्मितं सेतुम् अनाशयत् इति । रावणसंहारानन्तरं[[रावणः|रावण]]संहारानन्तरं [[विभीषणः|विभीषणः]] लङ्कायाः राजा अभवत् । [[वानरः|वानरैः]] निर्मितसेतुद्वारा अन्ये लङ्कायाः उपरि आक्रमणं कुर्युः इति विभीषणस्य भयम् अभवत् । लङ्काम् आक्रमणेभ्यः रक्षितुं, मित्रस्य विभीषणस्य भयं दूरीकर्तुं च रामः तं सेतुम् एव अनाशयत् इति । तस्मिन् स्थाने एव कोदण्डराममन्दिरम् अस्ति । १९६४तमे वर्षे सञ्जातात् झञ्झावातकारणात् एतदेकं मन्दिरं विहाय अन्यत्सर्वम् अपि नष्टम् अभवत् ।
 
वर्षपूर्णं यात्रिकाः आगच्छन्ति रामेश्वरमन्दिरं प्रति । १९४७तमे वर्षे, १९५७तमे वर्षे च सञ्जाते कुम्भाभिषेके देशस्य सर्वकोणेभ्यः अपि जनाः अत्र सम्मिलिताः आसन् । शारदा माता अपि अत्र आगतवती आसीत् । तदा मन्दिरस्य सर्वाणि आभराणि तस्याः पुरतः संस्थाप्य यत्किमपि एकं स्वीकर्तुम् उक्तवन्तः मन्दिरस्य अधिकारिणः । शारदमातुः कदापि आभरणानां विषये मोहः नासीदेव । तया सह तस्याः अग्रजस्य पुत्री अपि तत्र गतवती असीत् । तां शारदामाता अवदत् "भवती इच्छति चेत् स्वीकरोतु" इति । किन्तु मनसि एव "तस्याः पुत्र्याः तादृशी इच्छा न भवतु" इति परमहंसं प्रार्थयन्ती आसीत् । सा अपि बालिका किमपि आभरणं न स्वीकृतवती एव । अनन्तरं [[माता शारदादेवी|माता शारदादेवी]] रामेश्वरं स्पृशन्ती आनन्दाश्रु स्रावयन्ती "इदानीमपि पूर्ववदेव अस्ति" इति यदा अवदत् तदा तत्रत्यैः सर्वैः सा महाशक्तेः एव अंशभूता इति ज्ञातम् । [[स्वामी विवेकानन्दः|स्वामी विवेकानन्दः]] अपि विदेशयात्रां समाप्य भारतम् आगतवान् रामेश्वरे एव अवतीर्णवान् नौकातः । तदा रामेश्वरस्य समुद्रतीरस्य सिकताः चुम्बनं कृत्वा शिरसि स्थापितवान् आसीत् । वास्तवरूपेण शिवपूजा नाम का ? इति विषये स्वामिविवेकानन्देन कृतं भाषणं शिलायाम् उत्कीर्य मन्दिरस्य गोपुरद्वारसमीपे स्थापितम् अस्ति । अस्य शिलालेखस्य अनावरणं १९६३तमे वर्षे सप्तेम्बरमासे २८तमे दिनाङ्के तदातनराष्ट्रपतिः दिवङ्गतः डा एस् राधाकृष्णन् अकरोत् ।
वर्षपूर्णं यात्रिकाः आगच्छन्ति रामेश्वरमन्दिरं प्रति । १९४७तमे वर्षे, १९५७तमे वर्षे च सञ्जाते कुम्भाभिषेके देशस्य सर्वकोणेभ्यः अपि जनाः अत्र सम्मिलिताः आसन् । शारदा माता अपि अत्र आगतवती आसीत् ।
 
सीतायाः आनयनाय प्रस्थितः रामः लङ्कां प्रति गमनात् पूर्वं रामेश्वरे शिवलिङ्गं प्रतिष्ठाप्य पूजितवान् । अतः एव एतत् क्षेत्रं "रामेश्वरम्" इति निर्दिष्टम् अभवत् । रामः धनुषा भूमिं विदार्य जलाशयं निर्मितवान् । तस्य एव जलाशयस्य जलेन शिवस्य अभिषेकं कृतवान् । सः एव जलाशयः "कोटितीर्थ"नामकः । गन्धमादनक्षेत्रं सेतुबन्धरामेश्वक्षेत्रं जातं यत् तस्य पृष्ठभूमिकायां विद्यमाना कथा अपि रसपूर्णा अस्ति - रामः रावणेन अपहृतां सीतां प्रत्यानेतुं सुग्रीवस्य सैन्येन सह प्रस्थितः दक्षिणदिशि आगच्छन् गन्धमादनप्रदेशं प्राप्तवान् । लङ्कां प्रति गमनाय शतयोजनानां सागरस्य तरणं करणीयम् । तदर्थं दिनत्रयं यावत् उपवासम् आचर्य साहाय्यं करोतु इति समुद्रराजं प्रार्थितवान् रामः । तथापि समुद्रराजः नागतः एव । कुपितः रामः अस्त्रेण समुद्रं निर्जलं कर्तुम् उद्युक्तः । भीतः समुद्रराजः प्रत्यक्षः जातः । सः रामं "प्रकृतिनियमानां विरुद्धं भवतः कृते मार्गं कल्पयितुं न अर्हामि अहम् । कृपया तथा करणे मां मा प्रेरयतु । सेतुनिर्माणं कृत्वा सागरतरणं क्रियताम्" इति प्रार्थितवान् । तदनुसारं रामः प्रख्यातस्य वास्तुशिल्पिनः [[विश्वकर्मा|विश्वकर्मणः]] पुत्रस्य [[नलः|नलस्य]] साहाय्येन सेतुनिर्मणम् अकारयत् । दशयोजनविशालः शतयोजनदीर्घः सः दोलासेतुः वृक्षकाण्डैः शिलाभिः सिकताभिः च निर्मितः । तस्य सेतोः अवशेषाः अभिज्ञाताः [[अमेरिका|अमेरिकादेशस्य]] उपग्रहेण ।
 
रामः रावणस्य संहारानन्तरं पुनः गन्धमादनक्षेत्रम् आगतः । तत्र सीता अग्निपरीक्षाद्वारा पावित्र्यं प्राकटयत् । तथापि रामस्य मुखे काचित् चिन्ता दृष्टा अगस्त्यादिमुनिभिः । यद्यपि रामः रावणेन सह जाते युद्धे जयं प्राप्तवान् तथापि रावणसंहारेण ब्रह्महत्यादोषपूर्णः जातः आसीत् । तदेव दुःखं रामं बाधते स्म । मुनयः रामस्य दुःखम् अवगतवन्तः । तदा ते रामं सागरतीरे शिवस्य ज्योतिर्लिङ्गं संस्थाप्य पूजयितुं सूचितवन्तः । रामः कैलासतः [[शिवः|शिवस्य]] दिव्यलिङ्गम् आनेतुं हनुमन्तम् असूचयत् । हनुमान् कैलासं प्राप्तवान् चेदपि तत्र शिवस्य दर्शनं न प्राप्तवान् । शिवस्य दर्शनं प्राप्य दिव्यलिङ्गस्य आनयनसमये कालः अतीतः । रामस्य सङ्कल्पपरिवर्तनं तु न भवेदेव । तदा सीता मनोबलेन एव रामस्य पुरतः सिकतानिर्मितं शिवलिङ्गम् अकरोत् । मुनीनाम् आदेशानुगुणं रामः सिकतालिङ्गम् एव प्रतिष्ठाप्य पूजितवान् । ज्येष्ठशुद्धदशम्यां बुधवासरे हस्तानक्षत्रे स्थिते चन्द्रे, वृषभराशौ स्थिते सूर्ये च शिवलिङ्गस्य प्रतिष्ठापनं कृतम् । तदेव रामेश्वरलिङ्गम् । स्वस्य प्रयत्नः विफलः जातः इति हनुमान् कुपितः । वृष्टि-वायुबाधां सोढुम् अशक्तेन तेन सिकतानिर्मितेन शिवलिङ्गेन किं प्रयोजनम् ? कैलासतः आनीतं स्फटिकलिङ्गं किं करणीयम् ? इति कोपेन रामम् अपृच्छत् हनुमान् । तदा रामः "तर्हि एतत् सिकतानिर्मितं शिवलिङ्गं ततः निष्कास्य स्फटिकलिङ्गं भवान् एव प्रतिष्ठापयतु" इति हनुमन्तम् असूचयत् । महता प्रयत्नेन अपि सिकतानिर्मितं शिवलिङ्गं कम्पयितुम् अपि न शक्तः हनुमान् । तस्मात् दुःखितं हनुमन्तं समाश्वसन् रामः सिकतालिङ्गस्य पार्श्वे एव स्फटिकलिङ्गम् अपि प्रतिष्ठापितवान् । "हनुमदीश्वरः" इति प्रसिद्धस्य तस्य लिङ्गस्य दर्शनानन्तरम् एव रामेश्वरस्य दर्शनं करणीयम् । तदा एव यात्रा फलति इति हनुमते आश्वासनम् अपि दत्तवान् रामः । तदा एव तत्र प्रत्यक्षः सन् शिवः रामं "भवता स्थापितस्य रमेश्वरलिङ्गस्य दर्शनेन भक्ताः मुक्तिं प्राप्नुवन्ति" इति अवदत् ।
 
रामः रामेश्वरस्य पूजनेन रावणसंहारदोषात् मुक्तः जातः । ब्रह्मणः पञ्चमं शिरः कर्तितवान् शिवः अपि अत्रत्ये शिवतीर्थे स्नात्वा तपः आचर्य पापमुक्तः जातः । कंससंहारं कृतवान् कृष्णः अपि प्रायश्चित्तार्थम् अत्रत्ये कोटितीर्थे स्नानं कृतवान् । सूर्यः यदा मकराशौ भवति तदा, ग्रहणकाले च धनुष्कोटितीर्थे स्नानकरणेन पुण्यं प्राप्यते इति वदति रामेश्वरमाहात्म्यम् । नारिकेलवृक्षाणां पङ्क्तयः, जलात् उपरि आगताः महाशिलाः, फेनयुक्ताः पौनःपुन्येन आगच्छन्तः तरङ्गाः च अत्रत्यं सौन्दर्यं वर्धयन्ति । "आसेतुहिमाचल" इति शब्दः अपि अत्रत्यरामनिर्मितसेतुकारणतः एव प्रयोगपथम् आगतः ।
 
 
[[वर्गः : भारतस्य तीर्थक्षेत्राणि]]
[[वर्गः : हिन्दुधर्मः]]
 
[[en:Jyotirlinga]]
[[bn:জ্যোতির্লিঙ্গ]]
[[de:Jyotirlinga]]
[[es:Jyotirlinga]]
[[hi:द्वादश ज्योतिर्लिंग]]
[[kn:ದ್ವಾದಶ ಜ್ಯೋತಿರ್ಲಿಂಗಗಳು]]
[[ml:ജ്യോതിർലിംഗങ്ങൾ]]
[[mr:ज्योतिर्लिंग]]
[[ne:ज्योतिर्लिंग]]
[[pl:Dźjotirlinga]]
[[ru:Джьотирлингам]]
[[ta:ஜோதிர்லிங்கம்]]
[[te:ద్వాదశ జ్యోతిర్లింగాలు]]
१,७०३

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/125540" इत्यस्माद् प्रतिप्राप्तम्