"भारतीयपर्वाणि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
उत्सवाचरणं जगति सर्वत्र अस्ति एव । जगतः सर्वेषु अपि देशेषु विभिन्नान् उत्सवान् आचरन्ति । अतः एव कविकुलगुरुः [[कालिदासः|कालिदासः]] '''“उत्सवप्रियाः खलु मनुष्याः”''' (शाकुन्तलम् – ६ अङ्के) इति उक्तवान् । भारतीयानां तु '''’पर्व’''' इत्येतत् जीवनस्य अविभाज्यम् अङ्गम् एव । वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे । एतत् भारतस्य एव वैशिष्ट्यम् । जगति अन्यस्मिन् कस्मिन् अपि देशे एतावन्ति पर्वाणि न आचर्यन्ते । एतेषां सर्वेषाम् अपि पर्वणां सामाजिकी, पौराणिकी, अध्यात्मिकी वा पृष्ठभूमिका भवत्येव । पर्व इत्येतस्मिन् एव अर्थे उत्सवः, महः, उद्धवः, क्षणः, जन्ममहः इत्यादयः बहवः शब्दाः प्रयोगे सन्ति ।
:'''असतो मा सद्गमय ।
पङ्क्तिः ९:
 
एतानि पर्वाणि चतुर्धा विभक्तुं शक्यन्ते –
:'''धार्मिकपर्वाणि'''
:'''राष्ट्रियपर्वाणि'''
:'''जयन्त्युत्सवाः'''
:'''प्रादेशिकपर्वाणि''' इति ।
:अत्र धार्मिकपर्वाणि प्रादेशिकपर्वाणि च तत्सम्बद्धाः केवलम् आचरन्ति । जयन्तुत्सवान् राष्ट्रियपर्वाणि च धर्म-प्रदेशादि भेदं विना भारतवासिनः सर्वेपि आचरन्ति । उदाहरणार्थं – गान्धीजयन्ती, नेहरूजयन्ती (बालदिनाचरणम्) इत्यादयः जयन्त्युत्सवाः, [[स्वातन्त्र्यदिनम्|स्वातन्त्र्यदिनाचरणं]], [[गणतन्त्रदिनम्|गणतन्त्रदिनम्]] इत्यादीनि राष्ट्रियपर्वाणि च ।
 
 
हिन्दुधर्मः प्रत्येकमपि जनं कर्मत्रयं बोधयति । '''नित्यकर्म, नैमित्तिककर्म, काम्यकर्म''' चेति । नित्यकर्म नाम प्रतिदिनं करणीयं कर्म – उदाहरणार्थं पूजा, प्रार्थना, ध्यानं, सन्ध्यावन्दनम् इत्यादीनि । नैमित्तिककर्म नाम निमित्ते सति करणीयं कर्म – उदाहरणार्थं पर्व, जयन्त्युत्सवादयः च । काम्यकर्म नाम मनसः इच्छापूर्त्यर्थं करणीयं कर्म – उदाहरणार्थं व्रतं, यज्ञयागादिकं च । प्रत्येकम् अपि जनं निरन्तरं सुसंस्कृतं कर्तुं ये वैज्ञानिकाः विचाराः मनःशास्त्रस्य अनुगुणं सन्ति तेषाम् एव आधारेण एते कर्मविचाराः विधिनियमाः अपि रचिताः सन्ति । '''कारणं विना मधुरं न भुञ्जीत''' इत्येतं धर्मसूक्ष्मविषयं वाल्मीकिमुनिः[[वाल्मीकिः|वाल्मीकि]]मुनिः [[रामायणम्|रामायणस्य]] [[अयोध्याकाण्डम्|अयोध्याकाण्डे]] उल्लिखति । [[महाभारतम्|महाभारतस्य]] [[विधुरनीतिः|विधुरनीतिः]] अपि एतत् एव वदति । यथा –
 
:'''एको स्वादु न भुञ्जीत, एकश्चार्थान्न भुञ्जयेत् ।
पङ्क्तिः २४:
 
 
अद्य गृहेषु अस्माकं सम्प्रदायान्, सांस्कृतिकानि मौल्यानि, धर्मसूक्ष्माणि च बोधयितारः वृद्धाः न सन्ति । विद्यमानाः गृहिणिगृहस्थाः आर्थिकसम्पादने निरताः । बालाः दूरदर्शन-सङ्गणकादिषु सम्पर्कमाध्यमेषु लीनाः । एवं सति पर्वादीनां पृष्ठभूमिका वा महत्त्वं वा कथं ज्ञायेत बालैः ? अतः अद्यतनजगति पर्वाचरणं स्वादुभक्ष्याणां भोजनेन नूतनवस्त्राणां धरणेन च समाप्यते एव । भक्ष्यवस्त्रादीनि धनं दत्तं चेत् सर्वदा प्राप्यतेप्राप्यन्ते एव । तर्हि पर्वणः वैशिष्ट्यं किम् ? इति पृष्ठे सति एवम् उत्तरं भवेत् - कृतज्ञतासमर्पणम्, ऋतुकालानुगुणम् आहारक्रमः, बान्धव्यवर्धनं, धार्मिकाचरणं, स्वच्छतारक्षणं चेति बहूनि वैशिष्ट्यानि सन्ति पर्वाचरणस्य । यतः अद्यतनजगति सर्वेपि अत्यन्तं कार्यव्यग्राः भवन्ति । “समयाभावः” इत्येषः शब्दः सदा सर्वेषां मुखात् निस्सरति । अतः पर्वव्याजेन परस्परं बान्धवानां मेलनं भवेत्, गृहस्य तथा पूजावस्तूनां स्वच्छता भवेत्, वर्षे कतिपयवारं वा धार्मिकविधीनाम् आचरणं भवेत्, अस्माकं सुखमयजीवनार्थम् अपेक्षितस्य सर्वस्यापि व्यवस्थां कृतवद्भ्यः पूर्वजेभ्यः, प्रकृतेः, देवेभ्यः च कृतज्ञतासमर्पणं भवेत् च । अनेन क्रमेण विस्म्रियमाणा अस्माकं [[भारतीयसंस्कृतिः|भारतीयसंस्कृतिः]] पुनः स्मर्येत ।
 
 
पाश्चात्त्यसंस्कृतेः प्रभावयुतस्य जीवनस्य कारणात् वयम् अस्माकम् आचरणेषु बहूनाम् आचरणानां विशिष्टानि पदानि वा तेषां पदानाम् अर्थं वा न जानीमः एव । यथा –
:१. '''“प्रदक्षिणम्”''' – मनसि देवमेव स्मरन्तः दक्षिणभागतः वामभागं भ्रमणम् ।
:२. '''“साष्टाङ्गनमस्कारः”''' – शरीरस्य अष्टौ अपि अवयवाः यथा भूमिं स्पृशेयुः तथा नमस्करणम् ।
:३. '''“नैवेद्यम्”''' – देवाय समर्पणयोग्यं किञ्चित् वस्तु [[पुष्पम्|पुष्पम्]], [[फलम्|फलम्]], खाद्यम् यत्किञ्चित् ।
:४. '''“प्रसादः”''' – देवाय समर्पणानन्तरम् अवशिष्टम् ।
:५. '''“तीर्थम्”''' – पवित्रं [[जलम्|जलम्]] ।
:६. '''“पञ्चामृतम्”''' – [[दुग्धम्|दुग्धं]], [[दधि|दधि]], [[घृतम्|घृतं]], [[मधु|मधु]], [[शर्करा|शर्करा]] चेति पञ्चानाम् अमृतसदृशाणां पदार्थानां सम्मिश्रणम् ।
:७. '''“पञ्चगव्यम्”''' – गोक्षीर-दधि-घृत-[[गोमूत्रम्|गोमूत्र]]-[[गोमयः|गोमयानां]] मिश्रणम् ।
:८. '''“अभिषेकः”''' - देवस्य मङ्गलस्नानम् ।
:९. '''“अभिघारम्”''' – [[अन्नम्|अन्नस्य]], नैवेद्यस्य, होमद्रव्याणां वा उपरि प्रथमं परिवेष्टव्यं घृतम् ।
:१०. '''“आपोशनम्”''' – भोजनात् पूर्वं प्राक् च मन्त्रपूर्वकं सेव्यमानं जलम् ।
:११. '''“अर्घ्यम्”''' – हस्तप्रक्षालनार्थं दीयमानं जलम् ।
:१२. '''“पाद्यम्”''' – पादप्रक्षालनार्थं दीयमानं जलम् ।
:१३. '''“हस्तोदकम्”''' – भोजनात् पूर्वं यजमानेन हस्ते स्थापनजलम् ।
:१४. '''“अन्नशुद्धिः”''' – ओदनस्य उपरि परिवेष्यमाणं घृतम् ।
:१५. '''“पञ्चाङ्गम्”''' – तिथि-नक्षत्र-वार-योग-करणानि च ।
:१६. '''“मङ्गलकलशः”''' – व्रत-विवाह-यज्ञ-यागादिषु शुभावसरेषु स्थाप्यमानः जलपूरितकलशः ।
:([[सुवर्णम्|स्वर्ण]]-[[रजतम्|रजत]]-[[ताम्रम्|ताम्र]]-[[कांस्यम्|कांस्य]]-[[पित्तलम्|पित्तल]]-[[मृत्तिका|मृत्तिकायाः]] वा स्यात् कलशः)
:१७.''' “उपवासः”''' – समीपे वासः (देवस्य समीपे इत्यर्थः) ।
 
 
पर्वाचरणावसरे गृहे विद्यमानाः सर्वेपि सक्रियाः सन्तः भागं वहेयुः । बालाः भक्ष्यनिर्माणसदृशेषु कार्येषु भागवहनं नार्हन्ति । तदर्थं पूजादिषु भागवहनाय तत्तत्पर्वान्तर्गतदेवतासम्बद्धानि भजनानि, श्लोकाः, [[स्तोत्राणि|स्तोत्राणि]] वा बालाः पूर्वमेव पाठनीयाः यथा बालाः पर्वदिने मिलित्वा वक्तुं शक्नुगुः तथा । तेन पर्वविषये बालानां ज्ञानमपि वर्धते उत्साहोपि । एकैकस्याम् अपि तिथौ प्रसिद्धानां पर्वणां कण्ठपाठः कारणीयः यथा – '''युगादिप्रतिपत्, भानुद्वितीया, अक्षयतृतीया, विनायकचतुर्थी, नागपञ्चमी, सुब्रह्मण्यषष्ठी, रथसप्तमी, गोकुलाष्टमी, महानवमी, विजयदशमी, प्रथम-एकादशी, उत्थानद्वादशी, अनन्तत्रयोदशीअनन्तचतुर्दशी, श्रावणपूर्णिमा, महालय-अमवास्या''' च । एवमेव तिथि-नक्षत्र-पक्ष-मास-राशीणाम् अपि कण्ठपाठः कारणीयः । तेन किं पर्व कदा भवति इति बालाः एव ज्ञातुं शक्नुवन्ति । अद्यतनबालाः एव अग्रिमराष्ट्रनिर्मातारः । अतः ते एव अस्माकं संस्कृतेः प्रवर्धकाः । पर्वणां विषये ते अवश्यं बोधनीयाः येन अस्माकं संस्कृतिः रक्षिता भवेत् । पर्वणां सुलभज्ञानाय एवं वयम् एकाम् आवलिं सज्जीकर्तुं शक्नुमः ।
 
:१. चान्द्रमान[[युगादिः|युगादिः]] – चैत्रशुक्लप्रतिपत् ।
"https://sa.wikipedia.org/wiki/भारतीयपर्वाणि" इत्यस्माद् प्रतिप्राप्तम्