"दीपावलिः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ६:
दीप: ज्ञानस्वरूप:, सर्वविद्यानां कलानां च मूलरूप: । '''
:'''”पूजनीया तथा लक्ष्मीर्विज्ञेया सुखसुप्तिका ।'''
पङ्क्तिः १२:
एतत् केवलं धनसम्बद्धं पर्व न । अत्र महालक्ष्मी: केवलं धनदेवता न । श्रेयस: सर्वाणि अपि रूपाणि लक्ष्मीस्वरूपाणि एव । सा धर्मलक्ष्मी: मोक्षलक्ष्मी: अपि । वैश्या: तद्दिने लक्ष्मीपूजां कृत्वा नूतनगणनाया: आरम्भं कुर्वन्ति । [[तमिळुनाडुराज्यम्|तमिळुनाडुराज्ये]] चतुर्दशीदिनं दीपावली इति, [[कर्णाटके|कर्णातके]] चतुर्दशी-प्रतिपत् च दिनद्वयं दीपावली इति वदन्ति ।
पङ्क्तिः २५:
चतुर्दश्यां प्रात:काले सर्वेपि अभ्यङ्गस्नानं कुर्वन्ति । एतद्दिने एव श्री[[कृष्णः|कृष्ण:]] [[नरकासुरः|नरकासुरं]] संहृत्य प्रात: अभ्यङ्गं कृतवान् आसीत् । अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । नरकभीति: निवार्यते । तद्दिने प्रात:काले [[तैलम्|तैले]] लक्ष्मी:, [[जलम्|जले]] च [[गङ्गा|गङ्गा]] निवसत: इति । तैलजलयो: उपयोगं कृत्वा य: स्नाति स: यमलोकं न गच्छति, तस्य अलक्ष्मीपरिहार: अपि भवति इति विश्वसन्ति ।
पङ्क्तिः ३२:
:'''”अलक्ष्मीपरिहारार्थम् अभ्यङ्गस्नानमाचरेत् ।”''' (नारदसंहिता)
तद्दिने विभिन्नानां चतुर्दशशाकानां भक्षणपद्धति: अपि कुत्रचित् अस्ति ।
पङ्क्तिः ४४:
:'''वृकोदराय चित्राय चित्रगुप्ताय वै नम: ॥“'''
इति यमधर्मराजस्य चतुर्दशनामानि वदन्त: तस्मै [[तिलः|तिल]]तर्पणं समर्पयन्ति । तद्दिने रात्रौ नरकपरिहाराय देवालयेषु, मठेषु, वृन्दावनेषु, गृहेषु, गृहात् बहि: प्राङ्गणे, आयुधशालासु, नदीतीरे, दुर्गेषु, कूपसमीपे, [[अश्वः|अश्व]]शालासु, [[गजः|गज]]शालासु मुख्यमार्गेषु च दीपान् ज्वालयन्ति । नरकासुरस्य स्मरणार्थं वर्त्तिकाचतुष्टययुक्तम् एकं दीपम् अपि ज्वालयन्ति । महाविष्णुं, [[शिवः|शिवं]], महारात्रिदेवता: च पूजयित्वा रात्रौ केवलं भोजनं कुर्वन्ति । मधुरभक्ष्याणां वितरणम् अपि कुर्वन्ति ।
अमावास्यायाम् अपि प्रात:काले अभ्यङ्गस्नानं कृत्वा लक्ष्मीपूजां कुर्वन्ति । ल्क्ष्म्या: पूजनेन दारिद्य्रं दौर्भाग्यं च नश्यति इति । अभ्यङ्गस्नानस्य जले [[उदुम्बरः|उदुम्बर]]-[[अश्वत्थः|अश्वत्थ]]-[[आम्रः|आम्र]]-[[वटः|वट]]-[[प्लक्षः|प्लक्ष]]वृक्षाणां त्वगपि योजयन्ति । स्नानानन्तरं महिला: पुरुषाणाम् आरतिं कुर्वन्ति । नरकासुरेण बन्धने स्थापिता: १६ सहस्रं कन्या: बन्धमुक्ता: सन्त्य: कृतज्ञतासमर्पणरूपेण कृष्णस्य आरतिं कृतवत्य: आसन् एतद्दिने । देवपूजया सह पितृपूजाम् अपि कुर्वन्ति । तद्दिने गृहे सर्वत्र दीपान् ज्वालयन्ति । नृत्य-गीत-वाद्यै: सन्तोषम् अनुभवन्ति । नूतनानि वस्त्राभरणानि धरन्ति । रात्रौ जागरणं कुर्वन्ति । तद्दिने अलक्ष्मी: निद्रारूपेण आगच्छति इति
कार्त्तीकशुद्धप्रतिपत् एव [[बलिः|बलि]]पूजादिनम् । दीपावलीपर्वणि एतत् प्रमुखं दिनम् । तद्दिने स्वातिनक्षत्रम् अस्ति
पङ्क्तिः ८३:
:'''रामायणमिव सुभगं दीपदिनं हरतु वो दुरितम् ॥“''' (भविष्योत्तरपुराणम् - १४० - ७१)
[[रामायणम्|रामायणे]] [[मेघनादः|मेघनाद:]] (इन्द्रजित्) यथा शान्त: तद्वत् एतत् पर्वावसरे मेघ: शान्त: जात: भवति । रामायणे दशमुख[[रावणः|रावण:]] यथा दग्ध: भवति तथा अस्मिन् पर्वणि दशामुखं (वर्त्तिका) दहति । रामायणे [[रामः|राम:]] यथा रमते तद्वत् अस्मिन् पर्वणि सर्वे जना: रमन्ते । एवं रामायणमिव रमणीयं दीपावलीपर्व अस्माकं पापानि नाशयतु इति वदति अयं श्लोकः ।
|