"वैद्यनाथः" इत्यस्य संस्करणे भेदः

द्वादश ज्योतिर्लिङ्गानाम् आवल्याम् वैद्यनाथः ... नवीन पृष्ठं निर्मीत अस्ती
 
(लघु) gen fixes using AWB
पङ्क्तिः १:
द्वादश ज्योतिर्लिङ्गानाम् आवल्याम् '''वैद्यनाथः''' नवमं ज्योतिर्लिङ्गम् अस्ति । [[शिवपुराणम्|शिवपुराणे]] द्वादश ज्योतिर्लिङ्गस्तोत्रे यत् “परल्यां वैद्यनाथम्” इति उक्तं तत् क्षेत्रम् अस्ति इदानीन्तन[[महाराष्ट्रम्|महाराष्ट्रस्य]] [[बीडमण्डलम्|“बीड”मण्डले]] । [[परलिपर्वतः|परलिपर्वते]] [[वनस्पतिः|वनस्पतयः]] महता प्रमाणेन उपलभ्यन्ते । तस्मात् कारणात् अत्र [[वैद्यः|वैद्याः]] एव अधिकतया आगच्छन्ति स्म । अतः अत्रत्यः आराध्यदेवः “वैद्यनाथः” इति निर्दिष्टः । [[समुद्रमथनम्|समुद्रमथनावसरे]] अमृतम् आनीतवान् [[धन्वन्तरी|धन्वन्तरी]] [[विष्णुः|विष्णोः]] सूचनानुसारम् अत्रत्ये शिवलिङ्गे आत्मानं गोपितवान् आसीत् । दैत्यनां संहारानन्तरम् अमृतं देवेभ्यः वितीर्णवान् । तस्मात् कारणात् अत्रत्यं वैद्यनाथम् अमृतेश्वरः, धन्वन्तरी इत्यपि निर्दिशन्ति । अस्मिन् क्षेत्रे विष्णोः, [[अम्बाभवानी|अम्बाभवान्याः]], [[मुरलीधरः|मुरलीधरस्य]], गोरारामस्य एवम् अनेकेषां देवानां मन्दिराणि सन्ति । वनवासम् आगतः [[रामः|रामः]] परलिक्षेत्रम् अपि आगतवान् इति [[लीलाचरित्रम्|लीलाचरित्रे]], [[आनन्दरामायणम्|आनन्दरामायणे]] च उल्लेखः अस्ति ।
 
“परल्यां वैद्यनाथं च” इत्यस्मिन् स्थाने “वैद्यनाथं चिताभूमौ” इति पाठान्त्तरम् अपि अस्ति । तत्र निर्दिष्टा चिताभूमिः अस्ति [[बङ्गालम्|बङ्गालस्य]] सन्थालपरगणे । एतत् क्षेत्रं वैद्यनाथधाम इत्यपि वदन्ति । एतत् [[पार्वती|पार्वत्याः]] अपि प्रियं क्षेत्रम् । अतः एतत् किञ्चित् [[शक्तिपीठम्|शक्तिपीठम्]] अपि । अत्र [[शिवः|शिवः]] [[सतीदेवी|सतीदेव्याः]] हृदयभागस्य दहनसंस्कारम् अकरोत् इति । तस्मादेव कारणात् एतत् क्षेत्रं “चिताभूमिः” इति उच्यते । एतत्क्षेत्रसम्बद्धा काचित् पौराणिकी कथा स्वारस्यकरी अस्ति – राक्षसेन्द्रः [[रावणः|रावणः]] कदाचित् शिवम् उद्दिश्य तपः आचरत् । शिवात् एकं ज्योतिर्लिङ्गं प्राप्य [[लङ्का|लङ्कायां]] तस्य प्रतिष्ठापनं करणीयम् इति तस्य इच्छा आसीत् । शिवः प्रत्यक्षः नाभवत् । शिवदर्शनेच्छया रावणः एकस्यानन्तरम् एकं [[शिरः|शिरः]] कर्तयित्वा शिवाय अर्पितवान् । दशमं शिरः यदा कर्तयितुम् उद्युक्तः तदा तत्पुरतः शिवः प्रत्यक्षः सन् तस्य इच्छाम् अपूरयत् । शस्त्रवैद्यः इव रावण्स्य कर्तितानि नव शिरांसि अपि पुनः योजितवान् । तस्मात् एव कारणत् सः वैद्यनाथः सञ्जातः ।
 
माघ-फाल्गुणमासयोः अत्र असंख्याः भक्ताः गङ्गोदकम् आनीय वैद्यनाथाय अर्पयन्ति । एतत् क्षेत्रं देवघर् (देवगृहम्), हरितकीवनं, केतकीवनं, हरदपीठम् इत्यपि वदन्ति ।
अन्येषु अपि क्षेत्रेषु वैद्यनाथमन्दिराणि सन्ति । [[उत्तरप्रदेशः|उत्तरप्रदेशे]] [[हिमालयः|हिमालयस्य]] उपत्यकायां “कुमाउ”विभागे अपि “वैजनाथ”इत्यत्र किञ्चन शिवमन्दिरम् अस्ति । [[पञ्जाबम्|पञ्जाबराज्यस्य]] [[काङ्गडमण्डलम्|काङ्गडमण्डले]] ४००० पादमितोन्नतस्य पर्वतस्य उपरि अपि किञ्चित् शिवमन्दिरम् अस्ति । एतत्सर्वम् अपि वैद्यनाथज्योतिर्लिङ्गम् इत्येव उच्यते ।
 
[[वर्गः : भारतस्य तीर्थक्षेत्राणि|वैद्यनाथः]]
[[वर्गः : हिन्दुधर्मः|वैद्यनाथः]]
 
[[वर्गः : भारतस्य तीर्थक्षेत्राणि]]
[[वर्गः : हिन्दुधर्मः]]
 
 
[[en:Jyotirlinga]]
[[bn:জ্যোতির্লিঙ্গ]]
[[de:Jyotirlinga]]
[[en:Jyotirlinga]]
[[es:Jyotirlinga]]
[[hi:द्वादश ज्योतिर्लिंग]]
"https://sa.wikipedia.org/wiki/वैद्यनाथः" इत्यस्माद् प्रतिप्राप्तम्