"रामेश्वरम्" इत्यस्य संस्करणे भेदः

(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः २:
 
रामेश्वरमन्दिरम् अत्यन्तं भव्यं मन्दिरम् । [[श्रीलङ्का|श्रीलङ्कायाः]] राज्ञः परराजशेखरस्य साहाय्येन रामनाडुराजा उदयनसेतुपतिः अस्य मन्दिरस्य निर्माणकार्यं क्रि श १४१४तमे वर्षे आरब्धवान् । सार्धत्रिशतवर्षाभ्यन्तरे निर्मितम् अभवत् एतत् मन्दिरम् । अस्य बृहदाकारकाः स्तम्भाः, महाशिलायुक्तछदिः द्रष्टृषु आश्चर्यं जनयन्ति । मन्दिरस्य पूर्वदिशि पश्चिमदिशि च अत्युन्नतं भव्यं गोपुरम् अस्ति । गर्भगृहं परितः विद्यमानेषु प्रदक्षिणपथेषु प्रत्येकः अपि प्रदक्षिणपथः १,०००पादमितं दीर्घः, ६०० पादमितं विशालः, १५ पादमितम् उन्नतः च अस्ति । अत्रत्येषु स्तम्भेषु सुन्दराणि चित्राणि उत्कीर्णानि सन्ति । एतत् मन्दिरं दृष्टवान् प्रसिद्धः शिल्पकलातज्ञः [[फर्ग्युसन्]] "सर्वाङ्गसुन्दरस्य द्राविडशिल्पकलायुक्तस्य किमपि उदाहरणं दातव्यं चेत् अस्य मन्दिरस्य अपेक्षया उत्तमम् अन्यत् किमपि नास्ति इति उच्चस्वरेण वक्तुं शक्यते" इति अवदत् । प्रायः [[भारतम्|भारते]] एव अत्यन्तं बृहत् मन्दिरम् ।
 
[[चित्रम्:Ramanathar-temple.jpg|thumb|300px|left|तमिळुनाडुराज्यस्य रामेश्वरे विद्यमानं रामनाथेश्वरमन्दिरम्]]
 
रामेश्वरमन्दिरस्य पुरतः स्वर्णस्तम्भः अस्ति । तत्समिपे रामेण संस्थापितः १३ पादमितोन्नतः, ८ पादमितं दीर्घः, ९ पादमितं विशालः धवलवर्णस्य महानन्दिविग्रहः अस्ति । तस्य विग्रहस्य वामभागे हनुमतः विग्रहः, दक्षिणभागे "शिवतीर्थ"नामिका पुष्करणी च अस्ति । अस्य मन्दिरस्य परिसरे सर्वतीर्थाणि अपि सन्ति इति विश्वासः अस्माकम् । रामेश्वरमन्दिरस्य प्रदक्षिणपथस्य उत्तरभागे [[हनुमान्|हनुमता]] [[कैलासः|कैलासतः]] आनीतं शिवलिङ्गम् अस्ति । रामेश्वरलिङ्गं शेषस्य महाफणाकारकम् अस्ति । पार्श्वयोः [[सीता]][[लक्षमणः|लक्ष्मणयोः]] स्वर्णविग्रहौ स्तः । [[अगस्त्यः|अगस्त्येन]] पूजितम् अगस्त्येश्वरलिङ्गम् अपि अस्ति अत्र । [[पार्वती|पर्वत्याः]], [[षण्मुखः|षण्मुखस्य]], [[गणेशः|गणेशस्य]], नन्दिकेश्वरस्य, [[विशालाक्षी|विशालाक्ष्याः]] एवं बहूनां देवानां मन्दिराणि सन्ति अत्र ।
"https://sa.wikipedia.org/wiki/रामेश्वरम्" इत्यस्माद् प्रतिप्राप्तम्