"मकरसङ्क्रमणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
एतत् पर्वत: आरभ्य परमपवित्रस्य उत्तरायणकालस्य आरम्भ: । सामान्याः जना: एतत् [[तिलः|तिलपर्व]] इति वदन्ति । [[तमिळुनाडुराज्यम्तमिऴ्‌नाडु|तमिळुनाडुराज्ये]] पोङ्ग्ल इति वदन्ति । एतत् [[सूर्यः|सूर्यस्य]] चलनसम्बद्धं पर्व । सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते । सौरमानानुसारं सूर्यस्य मेषादिद्वादशराशिं प्रति प्रवेशदिनम् एव सङ्क्रमणदिनम् ।
 
[[चित्रम्:Earth-lighting-winter-solstice EN.png|thumb|200px|right]]
पङ्क्तिः ३४:
[[चित्रम्:Kite lko.jpg|thumb|150px|left|उत्तरप्रदेशस्य लखनऊनगरस्य कस्मिंश्चित् आपणे विक्रियमाणाः विभिन्नवर्णानां वाताटाः]]
एतद्दिने एव [[वाताटः|वाताटानाम्]] उड्डयनम् अपि कुर्वन्ति महता प्रमाणेन [[भारतम्|भारतस्य]] केषुचित् राज्येषु । एतद्दिने गोपूजामपि कुर्वन्ति । ता: स्नापयित्वा श्रृङ्गे विविधवर्णै: अलङ्कुर्वन्ति । तासां प्रियं [[तृणम्|तृणं]], [[धान्यम्|धान्यं]], गुडं, नारिकेलं च ताभ्य: यच्छन्ति । पीडापरिहारार्थं ता: ज्वलत: [[अग्निः|अग्ने:]] उपरिष्टात् गमयन्ति । गोमाता अष्टमङ्गलेषु एका इति परिगण्यते । तस्या: दर्शनं, नमस्कार:, पूजा, प्रदक्षिणं च अनिष्टपरिहारकम् इति मन्यते । तस्या: अवयवेषु १४ लोका: सन्ति । समस्तदेवता: तस्या: अङ्गेषु निवसन्ति इति वदन्ति शास्त्राणि ।
 
:'''”गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।'''
पङ्क्तिः ५८:
तद्दिने मध्याह्नभोजनानन्तरं नारिकेल-गुड-कलायमिश्रितं तिलम्, [[इक्षुः|इक्षुदण्डं]], [[शर्करा]]निर्मितं विग्रहं च प्रतिगृहं गत्वा वितरन्ति । रात्रौ देवतापूजाया: अनन्तरं ज्योतिष्कान् सगौरवम् आह्वयन्ति । ज्योतिष्का: सङ्कान्तिमूर्ते: स्वरूपं, तस्य वर्षस्य सङ्क्रमणफलं प्ञ्चाङ्घानुसारं वदन्ति ।
 
[[तमिळिनाडुराज्यम्तमिऴ्‌नाडु|तमिळुनाडुराज्ये]], [[आन्ध्रप्रदेशः|आन्ध्रपदेशे]], [[उत्तरप्रदेशःउत्तरप्रदेश:|उत्तरप्रदेशे]], [[कर्णाटकम्|कर्णटके]] एवं कुत्रचित् सङ्क्रमणस्य आचरणे प्रादेशिकानि वैशिष्ट्यानि सन्ति ।
 
==='''वैद्यकीयमहत्त्वम् :'''===
 
:शैत्यकाले अस्माकं शरीरे विद्यमान: तैलांश: शाखार्थं व्ययित: भवति । तेन शरीरे तैलांशस्य अभाव: भवति । तस्मात् शीतसम्बद्धा: रोगा: जायन्ते । नारिकेल-गुड-कलायमिश्रितस्य तिलस्य, इक्षुदण्डस्य, शर्कराभक्ष्यस्य च भक्षणेन अभाव: निवार्यते ।
"https://sa.wikipedia.org/wiki/मकरसङ्क्रमणम्" इत्यस्माद् प्रतिप्राप्तम्