"नृसिंहजयन्ती" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
वैशाखमासे शुक्लपक्षे चतुर्दश्यां तिथौ आचर्यते एतत् व्रतम् । चतुर्दश्यां स्वातिनक्षत्रं, सोमवासरशनिवासरौ वा सिद्धयोगः वणिजकरणं च भवति चेत् तद्दिनं प्रशस्तम् इति उच्यते ।
 
[[चित्रम्:Vishnu narasimha.JPG|thumb|150px|right|कर्णाटके हळेबीडुमन्दिरे विद्यमानः हिरण्यकशिपोः संहारं कुर्वन् उग्रनरसिंहः]]
 
:'''“वैशाखे शुक्लपक्षे तु चतुर्दश्यां निशामुखे ।'''
Line ९ ⟶ ११:
 
[[नरसिंहावतारः]] सन्ध्यासमये एव जातः । अतः तस्य व्रतस्य आचरणम् अपि सन्ध्यासमये एव । शरीरदौर्बल्यकारणेन सन्ध्यापर्यन्तं ये उपवासं कर्तुं न शक्नुवन्ति ते मध्याह्ने एव एतत् व्रतम् आचरन्ति । अस्य पूजावसरे आचारशुद्धिः महती स्यात् । अयं नृसिंहः किञ्चिदपि अनाचारं न सहते । व्रतम् आचर्यमाणाः चतुर्दश्यां प्रातःकाले स्नानादिकार्यं समाप्य सङ्कल्पसहितं पूजाम् आचरन्ति । सायङ्काले विशेषपूजां कुर्वन्ति । उपवासं कर्तुम् अशक्ताः शास्त्रीयम् आहारं सेवन्ते । न्यूनातिन्यूनं पूजासमयपर्यन्तं वा उपवासम् आचरन्ति । नृसिंहस्य पूजां [[सालिग्रामशिला|सालिग्राम]]-[[यन्त्रम्|यन्त्र]]-विग्रह-[[अग्निः|अग्नि]]द्वारा वा कुर्वन्ति । श्रीनारसिंहमन्त्रेण [[उपनिषत्|उपनिषदा]] [[श्रुतिः|श्रुत्या]] वा विशेषाराधनं कुर्वन्ति । नृसिंहाय विशेषरूपेण [[गुडः|गुडापूपं]] नैवेद्यरूपेण समर्पयन्ति । '''“गुडापूपं नृसिंहाय”''' इति उक्तम् अस्ति । तेन सह [[मुद्गः|मुद्गदालं]], [[चणकः|चणकदालं]], [[निम्बूकम्|निम्बूपानकं]] च समर्पयन्ति । नरसिंहाय [[तुलसी|तुलसीं]], [[पद्म]], [[बिल्वम्|बिल्वं]], [[जपाकुसुमम्|जपाकुसुमं]] च रोचते इति तानि एव समर्पयन्ति पूजावसरे । सन्ध्यासमये विशेषाराधनं कृत्वा अनन्तरं पारणं कुर्वन्ति कुत्रचित् । कुत्रचित् तद्दिने पूर्णतया उपवासं कृत्वा अनन्तरदिने प्रातःकाले पारणं कुर्वन्ति । रात्रिं [[कथा]]श्रवणेन [[सङ्गीतम्|सङ्गीत]][[नृत्यम्|नर्तनादिना]] वा यापयन्ति । अनन्तरदिने अग्नौ नृसिंहम् आवाह्य षोडशोपचारपूजां कृत्वा हवनं कृत्वा [[घृतम्|घृतं]] हविश्यान्नं च समर्पयन्ति । विग्रहद्वारा ये पूजयन्ति ते पूजानन्तरं तं विग्रहं सत्पात्राय [[ब्राह्मणः|ब्राह्मणाय]] दानं कुर्वन्ति । सन्ध्यासमये उग्रनरसिंहस्य आराधनं कुर्वन्ति । उत्तराराधनावसरे वामाङ्के [[लक्ष्मीः|लक्ष्मीसहितं]] लक्ष्मीनृसिंहम् आराधयन्ति ।
 
[[चित्रम्:Narasimha oil colour.jpg|thumb|200px|right|हिरण्यकशिपुं अङ्के संस्थाप्य संहरन् नरसिहः । प्रह्लादः पार्श्वे स्थित्वा पश्यति]]
 
भगवतः महा[[विष्णुः|विष्णोः]] पञ्चमः अवतारः एव नृसिंहावतारः । एषः अवतारः [[महाभारतम्|महाभारते]], [[हरिवंशम्|हरिवंशे]], [[विष्णुपुराणम्|विष्णुपुराणे]], [[भागवतम्|श्रीमद्भागवते]], [[शिवपुराणम्|शिवपुराणे]], अध्यात्मशास्त्रेषु [[इतिहासः|इतिहासे]] च वर्णितः अस्ति । सः नृसिंहः त्रिमूर्तिः पर[[ब्रह्मा|ब्रह्मस्वरूपी]] च । नाभिपर्यन्तं ब्रह्मरूपः, कण्ठपर्यन्तं विष्णुरूपः, शिरपर्यन्तं रुद्ररूपः इति उच्यते ।
"https://sa.wikipedia.org/wiki/नृसिंहजयन्ती" इत्यस्माद् प्रतिप्राप्तम्