"नृसिंहजयन्ती" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
[[चित्रम्:Vishnu narasimha.JPG|thumb|150px|right|कर्णाटके हळेबीडुमन्दिरे विद्यमानः हिरण्यकशिपोः संहारं कुर्वन् उग्रनरसिंहः]]
 
:'''“वैशाखेवैशाखे शुक्लपक्षे तु चतुर्दश्यां निशामुखे ।'''
:'''मज्जन्मसम्भवं पुण्यं व्रतं पापप्रणाशनम् ॥“'''
 
:'''“अवतारोअवतारो नृसिंहस्य प्रदोषसमये द्विजाः ।“'''
 
:'''“महाप्रदोषसमयोमहाप्रदोषसमयो नृहरेः समुपागतः ।“'''
 
[[नरसिंहावतारः]] सन्ध्यासमये एव जातः । अतः तस्य व्रतस्य आचरणम् अपि सन्ध्यासमये एव । शरीरदौर्बल्यकारणेन सन्ध्यापर्यन्तं ये उपवासं कर्तुं न शक्नुवन्ति ते मध्याह्ने एव एतत् व्रतम् आचरन्ति । अस्य पूजावसरे आचारशुद्धिः महती स्यात् । अयं नृसिंहः किञ्चिदपि अनाचारं न सहते । व्रतम् आचर्यमाणाः चतुर्दश्यां प्रातःकाले स्नानादिकार्यं समाप्य सङ्कल्पसहितं पूजाम् आचरन्ति । सायङ्काले विशेषपूजां कुर्वन्ति । उपवासं कर्तुम् अशक्ताः शास्त्रीयम् आहारं सेवन्ते । न्यूनातिन्यूनं पूजासमयपर्यन्तं वा उपवासम् आचरन्ति । नृसिंहस्य पूजां [[सालिग्रामशिला|सालिग्राम]]-[[यन्त्रम्|यन्त्र]]-विग्रह-[[अग्निः|अग्नि]]द्वारा वा कुर्वन्ति । श्रीनारसिंहमन्त्रेण [[उपनिषत्|उपनिषदा]] [[श्रुतिः|श्रुत्या]] वा विशेषाराधनं कुर्वन्ति । नृसिंहाय विशेषरूपेण [[गुडः|गुडापूपं]] नैवेद्यरूपेण समर्पयन्ति । '''“गुडापूपं नृसिंहाय”''' इति उक्तम् अस्ति । तेन सह [[मुद्गः|मुद्गदालं]], [[चणकः|चणकदालं]], [[निम्बूकम्|निम्बूपानकं]] च समर्पयन्ति । नरसिंहाय [[तुलसी|तुलसीं]], [[पद्म]], [[बिल्वम्|बिल्वं]], [[जपाकुसुमम्|जपाकुसुमं]] च रोचते इति तानि एव समर्पयन्ति पूजावसरे । सन्ध्यासमये विशेषाराधनं कृत्वा अनन्तरं पारणं कुर्वन्ति कुत्रचित् । कुत्रचित् तद्दिने पूर्णतया उपवासं कृत्वा अनन्तरदिने प्रातःकाले पारणं कुर्वन्ति । रात्रिं [[कथा]]श्रवणेन [[सङ्गीतम्|सङ्गीत]][[नृत्यम्|नर्तनादिना]] वा यापयन्ति । अनन्तरदिने अग्नौ नृसिंहम् आवाह्य षोडशोपचारपूजां कृत्वा हवनं कृत्वा [[घृतम्|घृतं]] हविश्यान्नं च समर्पयन्ति । विग्रहद्वारा ये पूजयन्ति ते पूजानन्तरं तं विग्रहं सत्पात्राय [[ब्राह्मणः|ब्राह्मणाय]] दानं कुर्वन्ति । सन्ध्यासमये उग्रनरसिंहस्य आराधनं कुर्वन्ति । उत्तराराधनावसरे वामाङ्के [[लक्ष्मीः|लक्ष्मीसहितं]] लक्ष्मीनृसिंहम् आराधयन्ति ।
पङ्क्तिः १६:
भगवतः महा[[विष्णुः|विष्णोः]] पञ्चमः अवतारः एव नृसिंहावतारः । एषः अवतारः [[महाभारतम्|महाभारते]], [[हरिवंशम्|हरिवंशे]], [[विष्णुपुराणम्|विष्णुपुराणे]], [[भागवतम्|श्रीमद्भागवते]], [[शिवपुराणम्|शिवपुराणे]], अध्यात्मशास्त्रेषु [[इतिहासः|इतिहासे]] च वर्णितः अस्ति । सः नृसिंहः त्रिमूर्तिः पर[[ब्रह्मा|ब्रह्मस्वरूपी]] च । नाभिपर्यन्तं ब्रह्मरूपः, कण्ठपर्यन्तं विष्णुरूपः, शिरपर्यन्तं रुद्ररूपः इति उच्यते ।
 
:'''“अनाभिअनाभि ब्रह्मणो रूपं आगलाद्वैष्णवं वपुः ।'''
:'''आशीर्षं रुद्रमीशानं तदूर्ध्वं सर्वतः शिवः ॥“'''
 
श्रीमद्भागवते नरसिंहावतारः एवं वर्णितः अस्ति –
पङ्क्तिः २३:
[[वैकुण्ठम्|वैकुण्ठस्य]] द्वारपालकौ [[जयविजयौ]] सनकादिमुनीनां शापकरणतः असुरजन्म प्राप्नुवन्ति । तेषु त्रिषु असुरजन्मसु प्रथमं जन्म एव [[हिरण्याक्षः|हिरण्याक्ष]]-[[हिरण्यकशिपुः|हिरण्यकशिपोः]] । महाविष्णुः [[वराहावतारः|वराहावतारेण]] हिरण्याक्षं संहरति । तेन कुपितः हिरण्यकशिपुः भगवद्भक्तान् सज्जनान् देवान् च बहुधा पीडयितुम् आरब्धवान् । तीक्ष्णं तपः आचर्य '''“नरैः वा मृगैः वा, सुरासुर-उरगैः वा, ब्रह्मणा सृष्टेन येनकेनापि प्राणिना वा, दिवा वा रात्रौ वा, भूमौ वा आकाशे वा, गृहस्य अन्तः वा बहिः वा, येन केनापि आयुधेन वा मम मृत्युः न सम्भवेत् । सर्वत्रापि मम एकाधिपत्यं च भवेत् ।“''' इति ब्रह्मसकाशात् वरं प्राप्नोत् । तस्य वरस्य बलेन लोककण्टकः सञ्जातः । हिरण्यकशिपोः पुत्रः [[प्रल्हादः|प्रह्लादः]] । राज्ञः आज्ञानुगुणं [[शुक्राचार्यः|शुक्राचार्यस्य]] शिष्याः तम् असुरसिद्धान्तं बोधितवन्तः । पित्रा यदा प्रश्नः कृतः तदा सः '''“विष्णुभक्तिरेव श्रेष्ठा”''' इत्यवदत् । पुनः पुनः पृष्टे सति तदेव उत्तरं प्राप्य कुपितः हिरण्यकशिपुः पुत्रं प्रह्लादं संहर्तुम् आदिष्टवान् । तदनुगुणं दैत्यभटाः तं शूलादि आयुधैः, विषसर्पैः, दिग्गजैः, अभिचारक्रियाभिः इत्यादिभिः बहुविधोपायैः मारयितुं प्रयत्नम् अकुर्वन् । किन्तु ते तस्मिन् कर्मणि सफलाः नाभवन् । तदा क्रुद्धः हिरण्यकशिपुः सन्ध्यासमये प्रह्लादं सभाम् आहूय सर्वेषां पुरतः खड्गपाणिः सन् '''“कुत्र अस्ति भवतः विष्णुः ? भवता सर्वव्यापी इति उच्यमानः सः अस्मिन् स्तम्भे अपि अस्ति वा ? यदि अत्र सः न दृश्यते तर्हि भवन्तम् अत्रैव मारयामि”''' इति वदन् [[स्तम्भः|स्तम्भं]] मुष्ट्या अताडयत् । तदा तस्मात् स्तम्भात् भीकरं गर्जनं श्रुतम् । ततः कण्ठपर्यन्तं नररूपः तदुपरि [[सिंहः|सिंहरूपः]] च उग्रमूर्तिः नृसिंहः आविर्भूतः ।
 
:'''“सत्यंसत्यं विधातुं निजभृत्यभाषितम् ।'''
:'''व्याप्तिं च भूतेष्वखिलेषु चात्मनः ॥'''
:'''अदृश्यतात्यद्भुतरूपमुद्वहन् ।'''
:'''स्तम्भे सभायां न मृगं न मानुषम् ॥“'''
 
तत्रैव तं हिरण्यकशिपुं सभायाः देहल्याम् उपविश्य (गृहस्य अन्तः अपि न बहिः अपि न) नखैः तस्य [[उदरम्|उदरं]] विदार्य (केनापि आयुधेन न) समहरत् । सन्ध्याकालः दिनम् अपि न रात्रिः अपि न । नृसिंहः मनुष्यः अपि न पाणिरपि न, ब्रह्मसृष्टिरपि न ।
 
सृष्टेः आरम्भे ब्रह्मा एतत् व्रतम् आचर्य एव सृष्टिकार्यम् आरब्धवान् इति । रुद्रदेवः अपि एतत् व्रतम् आचर्य [[त्रिपुरासुरः|त्रिपुरासुर]]संहारस्य सामर्थ्यं प्राप्नोत् इति । अस्य व्रतस्य महत्त्वं ब्रह्म-शिवादिभिः स्वयं नृसिंहेन अपि वर्णयितुं न शक्यते इति वदन्ति शास्त्राणि ।[[File:Lord Narasimha at the ISKCON, Bangalore.jpg|thumb|'''इस्कान् देवालये नृसिंहस्वाम्यभिषेकः''']]
 
[[वर्गः:संस्कृतिः|नृसिंहजयन्ती]]
"https://sa.wikipedia.org/wiki/नृसिंहजयन्ती" इत्यस्माद् प्रतिप्राप्तम्