"मकरसङ्क्रमणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Tilgul kha god god bola.jpg|thumb|'''मकरसङ्क्रमणपर्वणः विशिष्ठं तिलगुडभक्ष्यम्''']]एतत् पर्वत: आरभ्य परमपवित्रस्य उत्तरायणकालस्य आरम्भ: । सामान्याः जना: एतत् [[तिलः|तिलपर्व]] इति वदन्ति । [[तमिऴ्‌नाडु|तमिळुनाडुराज्ये]] पोङ्ग्ल इति वदन्ति । एतत् [[सूर्यः|सूर्यस्य]] चलनसम्बद्धं पर्व । सूर्यस्य एकराशित: अन्यराशिं प्रतिप्रवेशदिनं सङ्क्रमणम् इति उच्यते । सौरमानानुसारं सूर्यस्य मेषादिद्वादशराशिं प्रति प्रवेशदिनम् एव सङ्क्रमणदिनम् ।[[चित्रम्:Earth-lighting-winter-solstice EN.png|thumb|'''कर्कतः मकरं सूर्यसङ्क्रमणम्'''| 200px|left]]
 
:'''”रवेरवे: सङ्क्रमणं राशौ सङ्क्रान्तिरिति कथ्यते ।'''
[[चित्रम्:Earth-lighting-winter-solstice EN.png|thumb|200px|right]]
:'''”रवे: सङ्क्रमणं राशौ सङ्क्रान्तिरिति कथ्यते ।'''
:'''स्नानदानतप:श्राद्धहोमादिषु महाफला ॥'''
:'''मेषादिषु द्वादशराशिषु क्रमेण संसरत: सूर्यस्य ।'''
:'''पूर्वस्माद्राशे: उत्तरराशौ सङ्क्रमणं प्रवेश: सङ्क्रान्ति: ॥“'''
 
एवंक्रमेण वर्षे १२ सङ्क्रमणानि भवन्ति । तत्र प्रमुखं सङ्क्रमणद्वयम् । कर्काटकसङ्क्रमणं (दक्षिणायनस्य आरम्भ:) मकरसङ्क्रमणं (उत्तरायनस्य आरम्भ:) चेति । कर्काटकमकरसङ्क्रमणे अयनसङ्क्रमणे, मेषतुलासङ्क्रमणे विषुवसङ्क्रमणे, कन्या-मिथुन-धनु-मीनसङ्क्रमणानि षडशीतिमुखसङ्क्रमणानि, वृषभ-सिंह-वृश्चिक-कुम्भसङ्क्रमणानि विष्णुपदसङ्क्रमणानि इति विभाग: कृत: अस्ति । मकरसङ्क्रमणदिनत: आरभ्य रात्रिकालस्य अवधि: न्यून: भवति । एतद्दिने एव स्वर्गः|स्वर्गस्य]] द्वारोद्घाटनं क्रियते इति । परमपवित्रे अस्मिन् सङ्क्रमणदिने क्रियमाणं स्नान-दान-जप-तप-हवन-पूजा-तर्पण-श्राद्धादिकम् अधिकं फलप्रदम् इति वदन्ति शास्त्रपुराणानि । तद्दिने य: पापाचरणं करोति, य: पवित्रकर्माणि न आचरति स: पापभाक् भवति इत्यपि वदन्ति ज्ञानिन: । अन्यानि सङ्क्रमणानि आचरितुम् अशक्त: एतदेकं सङ्क्रमणं वा आचरेत् इति वदति शास्त्रम् ।
:'''”सङ्कान्त्यांसङ्कान्त्यां पक्षयोरन्ते ग्रहणे [[चन्द्रः|चन्द्र]]सूर्ययो: ।'''
:'''[[गङ्गा]]स्नानं नर: कामात् ब्रह्मा|ब्रह्मण:]] सदनं व्रजेत् ॥“''' ([[भविष्यपुराणम्]])
 
:'''”रविसङ्क्रमणेरविसङ्क्रमणे पुण्ये न स्नायाद्यस्तु मानव: ।'''
:'''सप्तजन्मन्यसौ रोगी निर्धनोपजायते ॥'''
:'''सङ्क्रान्तौ यानि दत्तानि हव्यकव्यानि मनवै: ।'''
:'''तानि नित्यं ददात्यर्क: पुनर्जन्मनि जन्मनि ॥“''' ([[देवीपुराणम्]])
 
:'''”राहुदर्शनंराहुदर्शनं सङ्क्रान्तिविवाहात्ययवृद्धिषु ।'''
:'''स्नानदानादिकं कुर्युर्निशि काम्यव्रतेषु च ॥“''' (गोभिलम्)
 
:'''”धेनुंधेनुं तिलमयीं राजन्दद्याद्योत्तरायणे ।'''
:'''सर्वान्कमानवाप्नोति विन्दते परमं सुखम् ॥'''
:'''उत्तरे त्वयने विप्रा वस्तुदानं महाफलम् ।'''
Line २८ ⟶ २६:
:'''देवतानां पितॄणां च सोदकैस्तर्पणं तिलै: ॥'''
:'''पुरा मकरसङ्क्रान्तौ शङ्करो गोसवे कृते ।'''
:'''तिलानुत्पदयामास तृप्तये सर्वदेहिनाम् ॥“''' (विष्णुधर्मोत्तरं, शिवरहस्यं च)
 
सूर्य: अस्मिन् दिने दक्षिणत: उत्तरदिशि सञ्चारस्य आरम्भं करोति । अत: एव उत्तरायणस्य आरम्भ: अस्मात् दिनात् इति उच्यते । सूर्यस्य एकस्मात् राशित: अन्यराशिं प्रति प्रवेशकाल: अत्यन्तं सूक्ष्म: । सामान्यै: स: काल: क: इति न ज्ञायते । तदर्थं तत्पूर्वं परं चेति कश्चन काल: पुण्यकाल: इति निर्णीत: अस्ति । मेषतुलासङ्क्रान्तौ राशिप्रवेशात् पूर्वं प्रवेशानन्तरं च १५ घटिका: यावत् पुण्यकाल: । वृषभ-सिंह-वृश्चिक-कुम्भसङ्क्रान्तिषु प्रवेशपूर्वं १६ घटिका: यावत्, मिथुन-कन्या-धनु-मीनसङ्क्रान्तिषु प्रवेशात् परं १६ घटिका: यावत्, कर्काटकसङ्क्रमणे प्रवेशपूर्वं ३० घटिका: यावत्, मकरसङ्क्रमणे च प्रवेशानन्तरं ४० घटिका: यावत् पुण्यकाल: इति उच्यते । अस्मिन् पुण्यकाले स्नान-जप-तप-ध्यान-श्राद्ध-तर्पणादिकं कुर्वन्ति । तद्दिने पुण्यतीर्थस्नानेन पुण्यपुरुषार्था: सिध्यन्ति इति । गङ्गास्नानेन ब्रह्मलोक: प्राप्यते । विशेषतया मकरसङ्क्रमणदिने शीतल[[जलम्|जलेन]] एव स्नानं कुर्वन्ति । अशक्ता: केवलम् उष्णजलेन स्नानं कुर्वन्ति । तिलपर्व इत्येव प्रसिद्धे अस्मिन् पर्वणि विभिन्नै: प्रकारकै: तिलस्य उपयोगं कुर्वन्ति । तिल[[तैलम्|तैलं]] लेपयित्वा स्नानं कुर्वन्ति । तिलेन तर्पणं यच्छन्ति । तिलनिर्मैत[[धेनुः|धेनो:]] दानं कुर्वन्ति । तिलस्य, [[गुडः|गुड]]-[[नारिकेलम्|नारिकेल]]-[[कलायः|कलाय]]मिश्रितस्य तिलस्य दानं कुर्वन्ति । पीडापरिहरार्थं बालानां तिलाभिषेकं कुर्वन्ति । देवानां पूजां कृत्वा विशेषतया [[मुद्गः|मुद्ग]]मिश्रितस्य अन्नस्य (पोङ्ग्ल) नैवेद्यं कुर्वन्ति ।
"https://sa.wikipedia.org/wiki/मकरसङ्क्रमणम्" इत्यस्माद् प्रतिप्राप्तम्