"विदुरः" इत्यस्य संस्करणे भेदः

महात्मा विदुर: तु साक्षात् धर्मस्य अवतार: आसीत... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
 
महात्मा विदुर: तु साक्षात् धर्मस्य अवतार: आसीत् । [[माण्डव्यः।माण्डव्यऋषेमाण्डव्यः|माण्डव्यऋषे:]] शापेन एष: शूद्र: भूत्वा जन्म प्राप्तवान् । एष: महाराजस्य [[विचित्रवीर्यः।विचित्रवीर्यस्यविचित्रवीर्यः|विचित्रवीर्यस्य]] दास्या: पुत्र: । एकरीत्या एष: धृतराष्ट्रस्य, पाण्डो: च भ्राता एव । एष: बहुबुद्धिमान्, नितिज्ञ:, धर्मज्ञ:, विद्वान्, सदाचारी, भगवद्भक्त: च आसीत् । एतस्य गुणानां कारणेन जना: एतं बहुगौरवेण पश्यन्ति स्म । निर्भीत: सत्यवादी च एष: धृतराष्ट्रस्य मन्त्री भूत्वा तस्मै सर्वदा श्रेष्ठां सूचनां ददाति स्म ।
 
[[दुर्योधन:]] जन्मन: अनुक्षणमेव शृगाल: इव चीत्कारं कर्तुम् आरब्धवान् आसीत् । तस्य जननसमये अनेका: अमङ्गलसूचना: अपि अभवन् । एतद् सर्वं दृष्ट्वा विदुर: ब्राह्मणै: सह मिलित्वा राजानं धृतराष्ट्रं वदति यत् ‘भवत: एष: पुत्र: निश्चयेन कुलनाशक: भविष्यति । अत: एतस्य त्यागः वरम् । एष: जीवति चेत् भवद्भि: दु:खम् अनुभोक्तव्यं भवति । कुलस्य निमित्तम् एकां व्यक्तिं, ग्रामस्य निमित्तम् एकं कुलं, देशस्य निमित्तम् एकं ग्रामम्, आत्मन: निमित्तं सम्पूर्णपृथिव्या: परित्यागः करणीयः चेत् दोषः नास्ति इति शास्त्रेषु उक्तम् अस्ति’ इति । किन्तु मोहवशात् [[धृतराष्ट्र:]] विदुरस्य वचनं न अङ्गीकरोति । तेन जीवनपूर्णं दु:खम् अनुभूतवान् । स्वस्य जीवनकाले एव कुलस्य नाशमपि द्रष्टव्यम् अभवत् । महात्मनः हितवचने ध्यानम् अदत्त्वा दु:खम् आहूतवान् ।
 
यदा [[दुर्योधन:]] पाण्डवानाम् उपरि अत्याचारान् कर्तुम् आरब्धवान् तदा विदुर: सहजतया पाण्डवेभ्य: सहानुभूतिं दर्शयन् आसीत् । यत: प्रथमं तु ते पितृहीना: आसन् । द्वितीयं ते धर्मात्मनः आसन् । विदुर: प्रत्यक्षपरोक्षरूपेण पाण्डवानां रक्षणं साहाय्यं च करोति स्म । पाण्डवानां यावत् वा विपदा: आगच्छन्तु नाम अन्तिमः विजयः तु तेषामेव इति विदुर: ज्ञातवान् आसीत् । दीर्घायुष्मतः पाण्डवान् केऽपि मारयितुं न शक्नुवन्ति इति एष: जानाति स्म । कदाचित् क्रीडासमये दुर्योधन: [[भीमः।भीमसेनायभीमः|भीमसेनाय]] विषं खादयित्वा तं गङ्गानद्यां नुत्तवान् आसीत् । भीम: समये न प्रत्यागतवान् इति मातु: [[कुन्ती।कुन्त्याकुन्ती|कुन्त्या:]] चिन्ता, दुर्योधनस्य विषये संशय: अपि आरब्धः । तदा विदुर: तस्या: समाधाननं कारयित्वा वदति – ‘एतस्मिन् अवसरे मौनेन लक्ष्यं साधयन्तु । दुर्योधनस्य विषये सन्देहस्य प्रकटनम् अपायकारि अस्ति । कुपित: स: भवत्या: अन्यबालान् अपि पीडयेत् । भीमसेन: मृत: नास्ति । सः शीघ्रं प्रत्यागच्छति’ इति । कुन्ती विदुरस्य वचनम् अङ्गीकृतवती । तस्य वचनं सत्यमभवत् । कतिपय दिनानन्तरं सशक्त: भीम: प्रत्यागतवान् ।
 
लाक्षागृहत: बहि: गन्तुं मार्गं युक्तिं च विदुर: एव पाण्डवेभ्य: सूचितवान् आसीत् । एष: केवलं नीतिज्ञ: नासीत् । एतस्य बहुभाषाणां ज्ञानमपि आसीत् । पाण्डवानां वारणावतं प्रति गमनसमये एष: म्लेच्छभाषया तेषां विपत्ते: सूचनां, मुक्तिं प्राप्तुं क: उपाय: अनुसरणीय: ? इत्यपि सूचितवान् आसीत् । तावदेव न, लाक्षागृहत: बहि: गन्तुं कञ्चित् मार्गं कर्तुम् एष: पूर्वमेव सेवकमपि योजितवान् आसीत् । स: भूमे: अन्त: लाक्षागृहत: वनं गन्तुं मार्गं सज्जीकृतवान् आसीत् । लाक्षागृहाय अग्निं प्रज्वाल्य पाण्डवा: मात्रा कुन्त्या सह तेन मार्गेण एव बहि: आगतवन्त: । गङ्गातटे नद्याः पारगमनाय विदुर: नाविकेन सह नौकामपि योजितवान् आसीत् । एवं सर्वे पाण्डवा: गङ्गां पारयित्वा गतवन्त: । बुद्धिमान्, नीतिज्ञ: विदुर: एवं पाण्डवानां प्राणान् रक्षितवान् । दुर्योधनादयः यथा न जानीयुः तथा अवधानं दत्तवान् । पाण्डवा: लाक्षागृहे मात्रा सह दग्धा: अभवन् इत्येव जना: चिन्तितवन्त: । सर्वत्र शारीरकस्य बलस्य, अस्त्रबलस्य च उपयोग: न भवति । आत्मरक्षणाय नीतिबलस्य आवश्यकता अपि भवति । महात्मा विदुर: धर्मशास्त्रज्ञानेन सह नीतिभाण्डार: अपि आसीत् ।
पङ्क्तिः १४:
धृतराष्ट्र: विदुरस्य अभिप्रायं प्रशंसितवान् । दुर्योधनाय बहुबुद्धिवचनम् उक्तवान् । किन्तु स: एतस्य वचनं न अङ्गीकृतवान् । द्यूते पाण्डवानाम् अपमान: भवेदेव इति स: सज्ज: आसीत् । पाण्डवानां वैभवं द्रष्टु न शक्नोति स्म । अन्ते धृतराष्ट्र: पुत्रस्य दुर्मार्गमेव अनुसृत्य विदुरस्य द्वारा पाण्डवेभ्य: इन्द्रप्रस्थत: हस्तिनापुरम् आगन्तुम् आह्वानं प्रेषितवान् । अनिच्छया एव विदुर: अग्रजस्य आज्ञां पालितवान् ।
 
इन्द्रप्रस्थं गत्वा विदुर: पाण्डवेभ्य: सर्वान् विषयान् ज्ञापितवान् । महाराज: [[युधिष्ठिर:]] द्यूतक्रीडा अनुत्तमा इति ज्ञात्वा अपि पितु: आज्ञा इति मत्वा दुर्योधनस्य अह्वानम् अङ्गीकृतवान् । द्यूतस्य समयेऽपि विदुर: तस्य दुष्परिणामान् धृतराष्ट्राय वदति – ‘इदानीं वा जागरितः भवतु । भवान् दुर्योधनस्य वचनस्य पालनं न करोतु । कुलं रक्षतु । पाण्डवै: सह विरोधं कृत्वा तान् भवत: शत्रव: इव न करोतु । तेन भवत: सर्वनाश: भविष्यति’ इति । किन्तु क्रीडा आरब्धा । [[शकुनिः।शकुनेशकुनिः|शकुने:]] कुतन्त्रेण पाण्डवानां पराजय: अभवत् । नियमानुसारं ते वनवासार्थं प्रस्थितवन्त: । तेषां गमनानन्तरं धृतराष्ट्रस्य मनसि बहुचिन्ता व्यथा च आरब्धा । स: विदुरम् आहूय स्वस्य मन: उद्घाट्य पृच्छति – ‘इदानीं प्रजा: अस्माकं विषये सन्तुष्टाः भवेयुः । कुपितै: पाण्डवै: अस्माकं कोऽपि हानि: न भवेत् । एतादृशः व्यवहारः कथं करणीयः ?’ इति । तदा विदुर: तस्य समाधानं कारयित्वा वदति – ‘राजन् ! धर्म:, अर्थ:, काम: च एते त्रय: अपि धर्मेण एव प्राप्यन्ते । राज्यस्य मूलं धर्म: एव । अत: स्थिरतया धर्मम् अनुसृत्य पाण्डवानां, भवत: पुत्राणां च रक्षणं करोतु । भवत: पुत्र: शकुने: सूचनानुसारं पूर्णसभायां धर्मस्य तिरस्कारं कृतवान् अस्ति । यत: कपटद्यूतक्रीडायां सत्यसन्धस्य युधिष्ठिरस्य पराजयं कारयित्वा तस्य सर्वस्वमपि स्वीकृतवान् अस्ति । एष: महापराध:, अधर्म: च । एतस्य दोषस्य निवारणार्थम् एक: एव उपाय: इत्युक्ते पाण्डवै: स्वीकृतं सर्वं पुन: तेभ्य: यच्छन्तु । स्वस्य यावान् अधिकार: अस्ति तेन एव सन्तुष्ट: भवतु अन्येषाम् अधिकाराणाम् आक्रमणं न करोतु । एषः एव राज्ञ: परमधर्म: । एवम् आचरन्ति चेदेव भवत: पुत्र: कलङ्करहित: भूत्वा गौरवं प्राप्नोति । सोदरै: सह कलह: अपि न भवति । पुत्राणां सौभाग्यं किञ्चित् वा आवश्यकं चेत् एतत् कार्यं शीघ्रमेव करोतु । मोहवशात् भवान् एवं न करोति चेत् कुरुवंशस्य नाश: भविष्यति । यदि भवत: पुत्र: वचनं न शृणोति तर्हि तस्य दुरात्मनः बन्धनं कृत्वा युधिष्ठिरं राज्यसिंहासने उपवेशयतु । युधिष्ठिर: तु रागद्वेषातीत: । अत: स: एव शासनं करोतु । [[दु:शासनः]] पूर्णसभायां भीमसेनस्य, द्रौपद्या: च क्षमां प्रार्थयतु । एतावत् पर्याप्तम् । तेन भवन्त: कृतकृत्या: भवन्ति’ इति ।
 
विदुरस्य वचनं सत्ययुक्तं, धर्मयुक्तं, हितपूर्णं, निर्भितं च आसीत् । किन्तु य: मरणोन्मुख: अस्ति तस्मै निष्प्रयोजकम् औषधमिव धृतराष्ट्र: विदुरस्य वचनं न इष्टवान् । स: कोपेन वदति – ‘विदुर ! इदानीं भवते मम आवश्यकता नास्ति । इच्छति चेत् अत्र तिष्ठतु । अन्यथा गच्छतु । भवान् वारं वारं पाण्डवानां पक्षमेव गृह्णाति इति अहं जानामि । तेषां निमित्तम् अहं मम पुत्रान् कथं त्यजामि’ इति ? कौरवाणां कुलस्य नाश: जायमानः अस्ति इति ज्ञात्वा विदुर: तूष्णीम् उपविष्टवान् । अनन्तरं प्रस्थाय स: काम्यकवने स्थितानां पाण्डवानां समीपं गतवान् । तेभ्य: स्वस्य आगमनस्य कारणम् उक्तवान् । तावता विदुर: पाण्डवानां समीपं गतवान् इति ज्ञात्वा धृतराष्ट्रस्य बहुपश्चात्ताप: अभवत् ।
"https://sa.wikipedia.org/wiki/विदुरः" इत्यस्माद् प्रतिप्राप्तम्