"युधिष्ठिरः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ४:
महाराज: युधिष्ठिर: अपि भीष्म: इव अत्यन्तम् उच्चस्तरीय: महापुरुष: आसीत् । एष: साक्षात् धर्मस्य अंशत: जन्म प्राप्य मूर्तिमान् धर्मः इव आसीत् । अत: एव जना: एतं ‘धर्मराजः ’ इति आह्वयन्ति । एतस्मिन् धैर्यं, स्थिरता, सहिष्णुता, नम्रता, दयापरता अचलप्रीति: इत्यादय: अनेके अलौकिकगुणा: आसन् । एष: स्वस्य शीलस्य, सदाचारस्य, विचारशीलताया: च कारणत: बाल्ये एव अतीवलोकप्रिय: अभवत् । यदा एष: इतोऽपि लघुबाल: आसीत् तदा एव एतस्य पिता [[पाण्डु:]] स्वर्गस्थ: अभवत् । तदारभ्य एव एष: स्वस्य ज्येष्ठपितृव्यं धृतराष्ट्रं पिता इव बहु गौरवेण पश्यति स्म । तस्य कस्यापि आज्ञामपि न उल्लङ्घयति स्म ।
==लाक्षागृहप्रसङ्गः==
==वनवासहः==
किन्तु कौरवा: अत्रापि एतान् आनन्देन स्थातुं न त्यक्तवन्त: । एतेषां वैभवं दृष्ट्वा दुर्योधन: असूयया ग्रस्तः अभवत् । स: एकं विशालं सभाभवनं निर्माय पाण्डवान् द्यूतक्रीडार्थम् आहूतवान् । द्यूतक्रीडा अनुत्तमा इति ज्ञात्वा अपि ’धृतराष्ट्रस्य आज्ञा’ इति निमन्त्रणं स्वीकृतवान् । क्रीडायां दुर्योधनस्य मातुल: [[शकुनिः|शकुने:]] कुतन्त्रकारणतः युधिष्ठिर: पूर्णं पराजयं प्राप्तवान् । पूर्णसभायां राज्ञ्याः द्रौपद्या: अपमाननं कृतवन्त:। तथापि धृतराष्ट्रस्य विषये एतस्य मनसि गौरवभावः एव आसीत् । धृतराष्ट्र: अपि तेभ्य: ऐश्वर्यं, सर्वं राज्यं च दत्त्वा पुन: इन्द्रप्रस्थय प्रेषितवान् । किन्तु एतत् दुर्योधन: न सोढवान् । स: कथञ्चित् धृतराष्ट्रम् अङ्गीकार्य दूतं प्रेषयित्वा पुन: पाण्डवान् आहूतवान् । वनवासस्य निबन्धनं स्थापयित्वा पुन: द्यूतं क्रीडितवन्त: । एतस्य दुष्परिणामः पुनरेकवारम् अनुभूत: । युधिष्ठिर: कौरवाणां नीतिं ज्ञात्वा अपि ज्येष्टपितृव्यस्य आज्ञां न तिरस्कृतवान् । अस्मिन् समयेऽपि पराजयः एव प्राप्तः । तेन कारणेन स्वस्य सर्वस्वमपि त्यक्त्वा सहोदरैः, राज्ञ्या द्रौपद्या सह द्वादशवर्षाणां वनवासम् , एकवर्षस्य अज्ञातवासं च करणीयम् आपतितम् । पितृव्यस्य आज्ञापालक: धर्मस्य आचरणाय सर्वं तूष्णीं सोढवान् । धन्या तस्य पितृभक्ति: ।
|