"मुण्डकोपनिषत्" इत्यस्य संस्करणे भेदः

(लघु) removed Category:उपनिषत् using HotCat
(लघु) clean up, replaced: ऎ → ऐ using AWB
पङ्क्तिः ३:
[[अथर्ववेदः|अथर्ववेदीया]] इयमुपनिषत् मन्त्रस्थानीया विद्यते । अत्र आदौ ऋषिपरम्परया ब्रह्मविद्यायाः प्राप्तिः कथं जाता इति दर्श्यते । तत्र तावत् सर्वेषां देवानां समुदाये प्रथमत्वेन परमात्मनः सकाशात् ब्रह्मा सम्बभूव । असौ सम्पूर्णविश्वस्य ब्रह्माण्डस्य कर्ता भुवनस्य च् पालकः आसीत् । सः स्वस्य ज्येष्ठपुत्राय अथर्वमहर्षये ब्रह्मविद्याम् उपदिष्ठवान् । तेन क्रमेण तदनन्तरम् अङ्गिमुनिः, सत्यवाहः, अङ्गिरो नाम महर्षिः च ब्रह्मविद्यां प्राप्तवन्तः । अनन्तरं शौनकः यथाशास्त्रम् अङ्गिरमुपसद्य कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति जिज्ञासां प्रदर्शितवान् । तदा गुरुः परापरविद्यायाः उपदेशं कृतवान् । ऋग्वेदादयः अपरविद्यायाम् अन्तर्भवन्ति, अथ परा यया तदक्षरमधिगम्यते इत्यनेन ब्रह्मविद्यैव परात्वेन उपन्यस्ता ।
 
तां वक्तुकामः यत्तदद्रेश्यमग्राह्यम् इत्यादिनञ्घटितपदैः उपक्रमते । तस्मिन् मन्त्रे भूतयोनिः इति पदं विद्यते । कीदृशं तत् इति दर्शयितुं यथोर्णनाभिः सृजते गृह्णते च, तपसा चीयते ब्रह्म इत्यादिमन्त्रद्वारा जगतः सृष्टिस्थितिलयकारणीभूतस्य ब्रह्मणः निरुपणम् विद्यते । अग्रे द्वितीयखण्डे तावत् अग्निहोत्रस्य महात्म्यं प्रदर्शितम् । यज्ञो वै श्रेष्ठतमं कर्म इत्युक्तत्वात् ऋग्यजुस्सामसु विहितानां यज्ञानां यथाविधि अनुष्ठानमेव श्रेष्ठम् इत्यतः अग्निहोत्रस्य अर्थवादः श्रूयते, “यस्याग्निहोत्रमदर्शमपौणमासम् – तस्य लोकान् हिनस्ति” इति । एतदेव कर्म यदि ईश्वरार्पणबुध्या अनुतिष्ठन्ति तर्हि न लिप्तो भवति जीवः कर्मणा । ये खलु परप्राप्तये निष्कामं मनोभावं नैव दर्शयन्ति, केवलम् इष्टापूर्तम् आचरन्तः ऎहिकंऐहिकं पारलौकिकं वा भोगं कामयमानाः सकामं कर्माचरन्तः सन्ति, ते मूढाः वारं वारं जन्मजरामरणरुपं दुःखं प्राप्नुवन्ति । अत एव उक्तम्, “इष्टापूर्तं मन्यमानाः—लोकं हीनतरं वा विशन्ति” इति ।
 
अङिरा महर्षिः वदति –हे शौनक ! यथा वह्नेः सहस्रशः विस्फुलिङ्गाः प्रभवन्ति । अविनाशिनः परब्रह्मणः सकाशात् सृष्टिकाले मूर्तामूर्ताः विविधाः भावा उत्पद्यन्ते । किन्तु निर्गुणोऽयम् अजः अद्वैतः परमात्मा ब्रह्माण्डस्य बहिरन्तः श्च व्याप्ताः विशुध्दः एव तिष्ठति । एकोऽहं बहुस्यामिति सङ्कल्पमात्रेणैव जगत् सृजत । तथा च क्रमेण अग्नितत्वं प्रथमं सम्भूतम् । अस्मिन् अग्नितत्त्वे हि सूर्यस्य ज्योतिः विराजते । तस्मादेव वह्नेः चन्द्रमाः उत्पद्यते । चन्द्रमसः पर्जन्यः । ततोऽन्नम्, अन्नाद्भूतानि, दिशः, वेदाः, प्राणाः, चराचरं जगत् च उत्पद्यन्ते । विराट्-पुरुषस्य चराचरं जगदेव हृदयं, पृथिवी एव पादौ, परब्रह्म एव अन्तर्यामी आत्मा ।
पङ्क्तिः ११:
 
द्वा सुपर्णा इत्यादिमन्त्रभागे तावत् जीवेश्वरयोः एकस्मिन् देहे सहभावित्वमुक्तम् । जीवः (जीवात्मा) यदा शरीरासक्तः सन् देहेन्द्रियैः उपार्जितं पापपुण्यरुपं कर्मफलं भुञ्जानः सुखं दुःखं च अनुभवति तदा एव ईश्वरः (परमात्मा ) शरीरतुल्ये वृक्षे वर्तमानः निर्लिप्तः साक्षीव केवलं सर्वं पश्यन् आस्ते । किन्तु पापपुण्यरुपं कर्मफलं नैव भुड्ले, तदुक्तम् –तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति इति ।
 
 
[[वर्गः:उपनिषदः]]
 
 
==External links==
Line २३ ⟶ १९:
* [http://www.kavitakosh.org/kk/index.php?title=%E0%A4%AE%E0%A5%81%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%95%E0%A5%8B%E0%A4%AA%E0%A4%A8%E0%A4%BF%E0%A4%B7%E0%A4%A6_/_%E0%A4%AE%E0%A5%83%E0%A4%A6%E0%A5%81%E0%A4%B2_%E0%A4%95%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%A4%E0%A4%BF Mundaka Upanishad by Dr. Mridul Kirti]
 
[[वर्गः:उपनिषदः]]
 
[[en:Mundaka Upanishad]]
Line ३२ ⟶ २९:
[[ne:मुण्डकोपनिषद्]]
[[ru:Мундака-упанишада]]
[[sa:मुण्डकोपनिषत्]]
[[te:ముండకోపనిషత్తు]]
[[uk:Мундака-упанішада]]
"https://sa.wikipedia.org/wiki/मुण्डकोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्