(लघु) clean up, replaced: ॆ → े (2), ॊ → ो (2) using AWB
पङ्क्तिः ३:
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश" । इत्यनेन चतुर्दशसु विद्यासु वेदाङ्गानां स्थानं प्रथमम् अस्ति ॥
" शिक्षा कल्पो व्याकरणं निरुक्तं छन्द्सां चयः ।
ज्योतिषामयनञ्चैव वॆदाङ्गानिवेदाङ्गानि षडेव तु"॥ इत्यनेन शिक्षा, कल्पः, व्याकरणं, निरुक्तं छन्दः, ज्योतिषं च वॆदाङ्गानिवेदाङ्गानि इति ज्ञायते । एतानि षट् शास्त्राणि इत्यपि प्रसिद्धानि स्न्ति। एतेषां वेदाङ्गानाम् उल्लेखः गोपथब्राह्मणे बौधायनधर्मसूत्रे गौतमधर्मसूत्रे रामायणसदृशप्राचीनग्रन्थेषु च उपलभ्यते । एतेन तेषां पुरातनत्वं सिदध्यति ॥
अङ्गमित्यस्य पदस्य व्युत्पत्तिः "अङ्ग्यते ज्ञायते अनेन इत्यङ्गम्" इत्यस्ति । वेदानां भाषा भावश्च दुरुहौ इत्यतः वेदार्थावबोधाय वेदाङ्गानाम् अपेक्षा भवति । अत एव-" षडङ्गो वेदोध्येतव्यः, साङ्गं वेदमधीत्यैव" इत्यादयः उक्तयः जाताः । अतः एकैकं परिशीलयामः ॥
==शिक्षा==
यथा वैदिकविधीनां सम्पादनार्थं ब्राह्मणग्रन्थाः उपयुज्यन्ते तथैव उच्चारणप्रयोजनायैव शिक्षायाः उपयोगो भवति । वेदानां वैदिकसाहित्यानां व अध्ययन - अध्यापन-विषयविधीनां निर्देशः शिक्षाशास्त्रे कृतः । शिक्षा स्वर-वर्णाद्युच्चारणानि केन प्रकारेण् कर्तव्यानि इत्येतस्मिन् विषये उपदिशति । सायणस्य् ऋग्वेदभाष्यभूमिकायाम् उक्तम्-"स्वरवर्णाद्युच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षा" इति । वेदभाषाप्रयॊगावसरेवेदभाषाप्रयोगावसरे शुद्धमुच्चारणं स्वरप्रक्रिया च युक्ता काम्यते । अशुद्धोच्चारणयुक्तो भ्रष्टस्वरवेदपाठो महत् दुष्फलं जनयति । यज्ञयागोपासनादिकसदृशं यत् कार्यं इष्टलाभाय क्रियते, तस्मात् इष्टलाभो न कदापि अशुद्धेन उच्चारणेन सञ्जायते । श्रूयते यत्पुरा "इन्द्रशत्रुर्वर्धस्व" इत्येतन्मन्त्रस्य अशुद्धोच्चारणं कृतम् अभूत् । तेन च यजमानं प्रति तदनिष्टकारकं असिद्ध्यत । पाणिनीयशिक्षायाम् उक्तञ्च-
" मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयक्तो न तमर्थमाह । स वागवज्रो यजमानं हिनस्ति यथेन्द्र्शत्रुः स्वरतोपराधात्"॥ इति वेदोच्चारणस्य युक्ततायै स्वरज्ञानम् अपेक्ष्यते । स्वरः उदात्त-अनुदात्त-स्वरितभेदेन त्रिधा ॥
वेदेषु शुद्धोच्चारणं वाञ्छितं भवति । शिक्षा शुद्धोच्चारणं समुपदिशति । एतस्मादेव षट्सु वेदाङ्गेषु शिक्षाङ्गस्य मूर्धन्यत्वम् आम्नातम् । शिक्षायाः अभिमतो विषयः प्रातिशाख्येषु दृश्यते । शिक्षाशास्त्रस्य इतिहासः पुरातनतरः । शिक्षासङ्ग्रहनामके ग्रन्थे द्वात्रिंशत्-शिक्षापुस्तकानां सङ्ग्रहः अवाप्यते । शिक्षा इमाश्चतुर्णामपि वेदानां भिन्नभिन्नशाखासु आत्मानं सम्बध्नन्ति । साम्प्रतं सम्प्राप्ता पाणिनीयशिक्षा सीत्राणां साहाय्येन प्रणीता अभूदिति बुधानां विचारः । शुक्लयजुर्वेदे याज्ञवल्क्यशिक्षा, सामवेदे नारदशिक्षा, अथर्ववेदे माण्डूकीयशिक्षा, ऋग्वेदे पाणिनीयशिक्षा च प्राप्यन्ते ॥
पङ्क्तिः ३५:
:शैब्यकोऽष्टादशश्चैते ज्योतिश्शास्त्रप्रवर्तकाः"॥
आर्यभटस्य आर्यभटीयम्, वराहमिहिरस्य पञ्चसिद्धान्तिका-होरा-लघुजातकञ्च ब्रह्मगुप्तस्य ब्रह्मस्फुटसिद्धान्तः, भोजदेवस्य राजमृगाङ्गकरणम् । भास्कराचार्यस्य सिद्धान्तशिरोमणिः करणकुतूहलश्च अत्रत्याः केचिद् ग्रन्थाः॥
एतदतिरिक्ताः अपि लघुपाराशरी, बृहत्पाराशरी, जैमिनिसूत्रं, भृगुसंहिता, प्रश्नमार्गः, कृष्णीयम्, सारावलिः, हॊरारत्नम्होरारत्नम् इत्यादि-ग्रन्थाः उपलभ्यन्ते । केरलमतप्रतिपादकाः ग्रन्थाः प्रश्नग्रन्थान्तराणि ताजिकग्रन्थाश्च अस्य शास्त्रस्य पोषकाः एव ॥
वेदोपि कश्चित्पुरुषकल्पः । अतः तस्य वेदपुरुषस्य किमङ्गं किमु शास्त्रमिति उच्यते यथा-
:"छन्दः पादौ शब्दशास्त्रं च वक्त्रं कल्पः पाणी ज्योतिषं चक्षुषी च ।
"https://sa.wikipedia.org/wiki/वेदाङ्गम्" इत्यस्माद् प्रतिप्राप्तम्