"वेदान्तः" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ऎ → ऐ (3) using AWB
पङ्क्तिः ४६:
विशिष्टाद्वैतस्य सम्प्रदायाचार्याणां मतानुसारेण प्रमाणानि त्रीणि आसन्-प्रत्यक्षप्रमाणम्, अनुमानप्रमाणम्, श्रुतिप्रमाणं चेति । जीवस्य प्रमेय ईश्वरः साध्योऽथवा लक्ष्यभूतोऽस्ति ईश्वर एव अन्तन्तः सर्वशक्तिमान् चास्ति । जीवः चेतनोवर्तते । अचेतनस्तु जडो भवति । आरम्भत एव त्रयाणां भेदः । अत्रापि मायायाः अथवा अविद्यायाः कारणता क्वापि नास्ति । अविद्या सर्वशक्तिमन्तं
ब्रह्माणं कथं आवृणोतुं क्षमते । सा कथं सृष्टिञ्चापि कर्त्तुं क्षमते । सृष्टौ यत्किञ्चिदपि दृश्यमाणं भवति तद् ब्रह्म जीवजगतोर्मध्ये विद्यमानं स्वगतं स्वजातीयं विजातीयं च भेदमात्रं वर्तते । ब्रह्मण इच्छाशक्त्या सक्रियं सृष्टिचक्रं अविद्या कथमात्मनोऽनुकूलं ब्रह्मणः प्रतिकूलं च कर्तुं शक्नोति । प्रलये एकमात्रं ब्रह्मैव अवशिष्यते । प्रकृतिः तस्मिन्नेव अव्यक्तभावेन सुप्ता भवति । एवं चेत् ब्रह्म जीव-प्रकृतीनां पार्थक्यं नैव आभासते । इयमेव तस्य ब्रह्मणः कारणावस्था । कल्पान्ते सृष्टिरचनाकाले तस्य कार्यावस्था भवति । कार्यावस्थायां तद् ब्रह्म नानाभावेन नामरुपात्मकं भवति ।
विशिष्टाद्वैरमते ब्रह्म ईश्वरात् पृथक् न मन्यते । अत्र ब्रह्म चैतन्यमात्रमपि नास्ति । अस्मिन् ज्ञानं शक्तिः बलम् ऎश्वर्यंऐश्वर्यं वीर्यं वात्सल्यं माधुर्यं च वर्तन्ते । ब्रह्मैव निमित्तं उपादानं च कारणमस्ति । जीवः स्वयं ब्रह्मरुपो भवति, किन्तु स आत्मनो ब्रह्मत्वज्ञानरहितो भवति । अयमेव विशिष्टाद्वैतमतस्य सारः ।
[[File:Mandukya.jpg|thumb|left|220px]]
द्वैताद्वैतवादः-रामानुजमतमिव निम्बार्कमतेऽपि त्रीणि परमतत्त्वानि स्वीकृतानि-चित्तत्वम्, अचित तत्त्वम्, ईश्वर तत्त्वं च । चित्तस्य तात्पर्यं जीवेनैवास्ति । तत् च ज्ञानस्वरुपं । ज्ञानमयत्वाज्जीवो भोक्ताऽपि वर्तते । ज्ञानमस्य आश्रयो ज्ञाता चेति उभयरुपतामपि स आदत्ते । तस्य स्वरुपं ज्ञातव्यम् अस्ति । इन्द्रियाणां साहाय्यं विना जीवो विषयस्य ज्ञानं प्राप्तुम् अक्षयो भवति । जीवस्य एककाले ज्ञानरुपता ज्ञानाश्रयता च तथैव सिद्धा यथा सूर्यः स्वयं प्रकाशरुपोऽपि प्रकाशस्याश्रयो भवति । जीवस्य ज्ञानमपि द्विधा भवति-स्वरुपगतम् गुणगतं चेति । यद्यपि अभयोः प्रकारयोः ज्ञानाकारत्वेन अभिन्नता अस्ति तथापि धर्मधर्मिभाववशात् भिन्नताऽपि भासते ।
जीवः केवलं भोक्ता नास्ति सः स्वयं कर्त्तापि वर्तते । यतोहि कर्त्तव्यं विना भोक्तृत्वस्य सिद्धिर्न भवति । निम्बार्कमतानुसारेणा जीवः प्रत्येकदशायां कर्त्ता भवति । संसारिणि जीवे कर्त्तृत्वम् अनुभवसिद्धं भवति किन्तु मुक्तजीवे कर्त्तृत्वं संस्कारवशात् संभवति । “मुमुक्षर्ब्रह्मोपासीत्”। “शान्त उपासीत्” इत्यादि श्रुतिवचनानुसारेण जीवस्य मुक्तावस्थायामपि उपासनायाः क्रियारुपता सिद्यति । अचित जडं जगत् चास्ति, तस्य सृष्टिकर्त्री प्रकृतिरस्ति । कर्त्तृत्वाभिमानी आत्मा प्रकृतिगुणैः विमूढो भूत्वा जीवः सांसारिकतां प्रति प्रेरयति । इन्द्रियाधीशत्वाज्जीवः इन्द्रियाणां विषयान् भुंक्ते । जीवजगतोर्मध्ये इन्द्रियाणि कारणमात्राणि वर्तन्ते । यानि जगद्रूपिणि कर्मक्षेत्रे जीवं कर्त्तृत्वभोक्तृत्वयोरधिष्ठतारं कुर्वन्ति ।
जडं जगत् प्रकृत्या समुत्पन्नं भवति, अतः प्राकृतमुच्यते । प्राकृते जगति महत आरभ्य महाभूतपर्यन्तं सम्पूर्णा सृष्टिः समाहिताऽस्ति । प्रकृतिसाम्राज्यात् बहिर्भूतम् एकम् अप्राकृतं जगत् अन्यदप्यस्ति । तदस्ति स्वर्लोकः । जगतोऽतिरिक्तं कालोऽपि अचितो जडतत्त्वस्यान्तर्गतं समाहितो वर्तते । कालः अचेतनोऽस्ति, तथापि सम्पूर्णं चित् अचित् स्वसम्पृक्तं कुर्वाणोऽस्ति । जगन्नियामको भूत्वाऽपि काल ईश्वराधीनो विद्यते । स अखण्डो नित्यश्च भवति । कार्यरुपेण यद्यपि तस्य नित्यता न भासते तथापि औपाधिकं तदीयं कार्यत्वं मन्यते ।
निबार्क मते सगुणो ब्रह्मैव ईश्वरोऽभिमतः । सः सकलविद्यादिदोषरहितः अशेषकल्याणगुणानां निधानश्च कथितः ।ज्ञानं शक्तिः बलं ऎश्वर्यंऐश्वर्यं, तेजः वीर्यं सौशील्यं वात्सल्यं कारुण्यं ईश्वरस्य नैष्ठिका गुणाः सन्ति । कल्याण्गुणास्तु अनन्ताः सन्ति, तेषु जगत् मोक्षश्च प्रधानभूतो वर्तेताम् । विश्वस्याधारभूतः परमात्मा सर्वव्यापकः, सर्वनियन्ता, निरतिशयः सूक्ष्मः, महान् चास्ति । सः अनन्तशक्तिसम्पन्नोऽस्ति । सः स्वेच्छया जगत् सृजति । चिदचिदीश्वराणां पारस्परिकं सम्बन्धं स्पष्टीकुर्वाणः प्रो. धर्मेन्द्रनाथः शास्त्री लिखति—
“चिदचिदीश्वरेषु न तु सर्वथा तादात्म्यम् अभेदसम्बन्धो वाऽस्ति । यतो हि तादृशेऽभिमते तस्मिन् गुणस्वभावयोरन्तरं कथं भविष्यति ? एवमेव तेथां सम्बन्धः सर्वथा भेदसम्बन्धोऽपि नैव स्वीकर्त्तुं शक्यते, यतोहि यदि ईश्वरः जीवेभ्यः जडजगतश्च सर्वथा भिन्नोऽभविष्यत् तर्हि अनन्तः सर्वव्यापकश्च कथमभविष्यत् । तस्यां दशायां तु सः ससीमो भविष्यति । भेदस्य तात्पर्यमस्ति जीवजगतोः पृथक् सत्ता तु वर्तते, किन्तु ते उभे एव ईश्वराधीने स्तः । एवञ्चेत् परतन्त्रसत्ताभावोऽस्ति । अभेदस्यार्थोऽस्ति यत् तयोः ईश्वरात् पृथक् स्वतंत्रा सत्ता नास्ति । स्वतंत्रसत्ताभावस्तत्र दृश्यते ।
निम्बार्कमते प्रपत्तिरेव साधनाया मार्गोऽस्ति । यावत् ईश्वरं प्रति जीवस्य प्रपन्नभावो न भवति, तावत् जीवस्य यथार्थतः कल्याणं न सम्भवति । प्रपन्नभावे एव जीवो भगवदनुग्रहस्य भाजनं भवति । अनुग्रहे रागात्मिका भक्तिः उत्पद्यते । रागात्मिकाया भक्तेरुदयं विना भगवत्कृपा न संभवति । रागात्मिका भक्तिरेव प्रेमाभक्तिऽस्ति । भगवत्साक्षात्कार एव तस्याः परिणामो वर्तते । भगवत्साक्शात्कारस्य स्थितौ जीवः ईश्वरभावैः स्वतः व्याप्तो भवति । सर्वेभ्यः दुःखद्वन्द्वेभ्यश्च विमुच्यते । भगवत्तत्वावाप्तिरपि शरीरविच्छेदोपरन्तमेव जायते । एवं निम्बार्कमते विदेहमुक्तिरेव यथार्थमुक्तिरस्ति । जीवन्मुक्तेः परिकल्पना अत्र न विहिता ।
पङ्क्तिः ६६:
मध्वाचार्येण उपासनापि द्विविधा प्रतिपादिता-(१) सततशास्त्राभ्यासरुपा (२) ध्यानरुपा च । उपासनायोगः अधिकारिभेदात् स्वीकृतः अस्ति । भगवदविषयिणि अखण्डस्मृतिरेव ध्यानमस्ति । साधनायाः क्रमे सर्वप्रथमम् अपरोक्षज्ञानेन परमा भक्तिर्जायते, पत्पश्चात् परमानुग्रहो भवति, तदनन्तरं मोक्षस्य लाभः संभवति । मोक्षोऽपि चतुर्धा मतः –(१) कर्मक्षयरुपः (२) उत्क्रान्तिरुपः (३) अविरादिमार्गरुपः (४) भोगरुपः । एत एव क्रमशः सालोक्यं, सामीप्यं सारुप्यं, सायुज्यं उच्यन्ते ।
शुद्धाद्वैतः-शुद्धाद्वैतस्य प्रवर्तक आचार्यो वल्लभाचार्य आसीत् । वल्लभाचार्यस्य मतेन ब्रह्म मायया निर्लिप्तमस्ति, अतएव च पूर्णतया विशुद्धं वर्तते । मायायाः सम्बन्धात् रहितं ब्रह्मैव एकमात्रम् अद्वैततत्त्वम् अस्ति । शुद्धे अद्वैतरुपे च ब्रह्मणः परिकल्पनया वल्लभाचार्यस्येदं मतं शुद्धाद्वैतम् इत्युच्यते । शुद्धाद्वैतमते जीवो जडश्च ब्रह्मणः भिन्नौ न स्तः, अतः उभयोः ब्रह्मरुपता सिद्ध्यति । जडजीवयोः ब्रह्मणा सह ऎक्यभावंऐक्यभावं स्वतः सारुप्यम् अस्ति, अतः तयोरैक्यमिदं शुद्धम् अद्वैतरुपमस्ति । तत्र मायायाः सम्पर्को न स्यात् । यतोहि मायायाः किमपि अस्तित्वं न भवति । ब्रह्मणो महिम्नैव यथा समानधर्मणां सत्ता पदार्थेषु दृष्टिभूता भवति, तथैव विरुद्धधर्माणां सत्ताऽपि प्रति भासते । संसारस्य सर्वेषु पदार्थेषु प्राणिषु च दृश्यमाणे साधर्म्यवैधर्म्ये ब्रह्मणो लीलायाः विकासस्य परिणाममात्रे स्तः ।
वल्लभमते ब्रह्मणः कोटित्रयं विनिर्दिष्टम्-
(१) अधिदैविकं –परं ब्रह्म
पङ्क्तिः ८३:
वल्लभाचार्यस्य पुष्टिमार्गे भक्तिद्विधा स्वीकृता-
#मर्यादाः भक्तिः
#पुष्टिभक्तिश्च
 
भगवच्चरणारविन्दयोर्भक्तिः मर्यादा भक्तिरस्ति किन्तु भगवन्मुखारविन्दस्य भक्तिः पुष्टिभक्तिः कथिता । मर्यादाभक्तौ फलाकांक्षा निगूढा भवति, किन्तु पुष्टिभक्तौ फलाकांक्षाया लेशोऽपि न भवति । मर्यादाभक्त्या सायुज्यं प्राप्यते, किन्तु पुष्टिभक्त्या ब्रह्मणोभेदताया याथार्थ्येन बोधो भवति । इदमेव पुष्टिमार्गस्य मूलभूतं रहस्यं भवति । भगवदनुग्रहस्य परिणामस्वरुपं स्व स्वरुपापत्तेः प्राप्तिरपि वल्लभमते मुक्तिरेवोद्दिष्टा ।
पङ्क्तिः ८९:
[[वर्गः:वेदान्तः]]
[[वर्गः:उत्तरमीमांसादर्शनम्]]
 
[[en:Vedanta]]
[[bg:Веданта]]
[[cs:Védánta]]
[[de:Vedanta]]
[[esen:Vedanta]]
[[eo:Vedanto]]
[[enes:Vedanta]]
[[fi:Vedanta]]
[[fr:Védanta]]
[[kohe:베단타 학파ודאנטה]]
[[hi:वेदान्त दर्शन]]
[[id:Wedanta]]
[[is:Vedanta]]
[[it:Vedānta]]
[[ja:ヴェーダーンタ学派]]
[[he:ודאנטה]]
[[kn:ವೇದಾಂತ]]
[[ko:베단타 학파]]
[[lt:Vedanta]]
[[ml:വേദാന്തം]]
[[nl:Vedanta]]
[[ja:ヴェーダーンタ学派]]
[[no:Vedanta]]
[[pl:Wedanta]]
Line ११२ ⟶ ११४:
[[ru:Веданта]]
[[sr:Веданта]]
[[fi:Vedanta]]
[[sv:Vedanta]]
[[ta:வேதாந்தம்]]
"https://sa.wikipedia.org/wiki/वेदान्तः" इत्यस्माद् प्रतिप्राप्तम्