"महाशिवरात्रिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३२:
एषा शिवरात्रि: सर्वयज्ञेषु उत्तमोत्तमा । दान-यज्ञ-तप:-तीर्थ-व्रत-कर्मादीनि शिवरात्रिव्रतस्य कोटिषु एकभागोपि न भवन्ति । [[कृष्णजन्माष्टमी|कृष्णाष्टमी]] इव शिवरात्रि: अपि नित्यव्रतमपि काम्यव्रतमपि । माघफाल्गुनयोर्मध्ये चतुर्दश्याम् उपवासं कृत्वा जागरणम् आचरन्ति ये तेभ्य: रुद्र: प्रसन्न: सन् भुक्तिं मुक्तिं च ददाति इति वदति [[गरुडपुराणम्|गरुडपुरणम्]] । शिवस्य शरीरं ज्योतिर्मयम् । [[चन्द्रः|चन्द्र]][[सूर्यः|सूर्या]][[अग्निः|ग्नय]]: एव तस्य त्रीणि [[नेत्रम्|नेत्राणि]] । [[शिरः|शिरसि]] विद्यमान: चन्द्र: मनस:, संयमस्य च प्रतीक: । जटासु विद्यमाना [[गङ्गा]] अमृतत्वसूचिका । [[कण्ठः|कण्ठे]] विद्यमान: [[सर्पः|सर्प:]] जीविनां देवाश्रयस्य प्रतीक: । [[गजः|गज]]चर्म अहङ्कारनिग्रहं, [[व्याघ्रः|व्याघ्राम्बरं]] विषयदमनं च द्योतयत: । विभूति: परिशुद्धतां भालनेत्रं ज्ञानं च प्रतिपादयत: । अस्मिन् माघमासस्य शुक्लपक्षस्य चतुर्दश्यां तिथौ एव शिव: आनन्देन ताण्डवनृत्यम् अकरोत् इति । क्षीरसागरमथनावसरे उद्भूतं [[विषम्|विषं]] पीत्वा नीलकण्ठ: सञ्जात: अस्मिन् एव दिने इति । शिवस्य जन्म अपि एतद्दिने एव अभवत् इति वदन्ति पुराणानि ।
 
 
[[वर्गः:हिन्दु-उत्सवाः]]
 
[[as:শিৱৰাত্ৰি]]
"https://sa.wikipedia.org/wiki/महाशिवरात्रिः" इत्यस्माद् प्रतिप्राप्तम्