"आण्ड्रियेस् वेसेलियस्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
(कालः – ३१. १२. १५१४ तः १५. १०. १५६४)
 
अयम् आण्ड्रियेस् वेसेलियस् (Andreas Vesalius) पाश्चात्यजगतः आधुनिकस्य अङ्गरचनाशास्त्रस्य जनकः । अयं १५१४ वर्षे डिसेम्बर् मासस्य ३१ तमे दिनाङ्के बेल्जियं–देशस्य ब्रसल्स् इति प्रदेशे जन्म प्राप्नोत् । अस्य आण्ड्रियेस् वेसेलियसस्य माता आङ्ग्लप्रदेशीया आसीत्, पिता च जर्मन्प्रदेशीयः । तस्य आण्ड्रियेस् वेसेलियसस्य पिता जर्मन्–चक्रवर्तेः ५ चार्ल्स् इत्यस्य कृते [[औषधम्|औषधानाम्]] आपूर्तिं करोति स्म । अयम् आण्ड्रियेस् वेसेलियस् धनिककुले जातः । अस्य विद्याभ्यासः लूवेन् तथा [[प्यारिस्]] नगरेषु जातः । यद्यपि अयं [[गेलेन्|गेलेनस्य]] पद्धत्या एव अधीतवान् तथापि बहिरङ्गरूपेण गेलेनस्य विरोधम् अकरोत् । स्वयमेव अङ्गच्छेदनं कृत्वा विषयान् ज्ञातुम् इच्छति स्म । तदर्थं योग्यम् अवसरम् [[इटालीइटली]]देशस्य पादुअ–विश्वविद्यालये प्राप्नोत् । तत्र अयम् आण्ड्रियेस् वेसेलियस् अङ्गरचनाविज्ञानस्य प्राध्यापकरूपेण प्राविशत् । अनन्तरं राजवंशस्य वैद्यकीय–सूचनाकाररूपेण नियुक्तः अभवत् । कालान्तरे १५५५ तम् वर्षे चक्रवर्ती यदा पदच्युतः जातः तदा अयम् आण्ड्रियेस् वेसेलियस् [[स्पेन्]]–देशम् अगच्छत् । तत्रापि सः राजवंशस्य वैद्यकीय–सूचनाकाररूपेण एव नियुक्तः ।
 
 
"https://sa.wikipedia.org/wiki/आण्ड्रियेस्_वेसेलियस्" इत्यस्माद् प्रतिप्राप्तम्