"ओणम्" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
No edit summary
[[File:Vamana1.jpg|thumb|right|250px|'''बलिचक्रवर्तेः पातालप्रेषणम्''']]
प्राचीनकाले असुरकुलोत्पन्नः महाबली केरळराज्यं पालयति स्म । सः न्यायपरः प्रजावत्सलः समर्थः च आसीत्। तस्य शासनकाले प्रजाः सुखेन जीवन्ति स्म। सः शौर्येण असदृशः आसीत्। अतः न केवलं भूलोकम् अपि तु स्वर्गादीन्लोकान् अपि पालयति स्म सः। तस्य कीर्तेः विस्तारं देवाः सोढुं न शक्तवन्तः। सर्वे सम्भूय निर्णीतवन्तः यत् 'स्वर्गः स्वयत्तीकृतः यत् तदर्थं महाबली दण्डनीयः' इति। एतदर्थं तर्हि विष्णोः साहाय्यं प्रार्थितम्। विष्णुः अवकाशं प्रतीक्षमाणः आसीत् । कदाचित् महाबली अश्वमेधयागम् आरब्धवान्। तदा विष्णुः वामनवेषं धृत्वा यागमन्डपम् आगतवान्। याचकेन यत् याच्यते तत् दातव्यम् एव इति तु यागनियमः। अतः वामनः यत् याचेत तत् दातुं सिद्धः आसीत् महाबली। वामनः त्रिपादपरिमितां भूमिं याचितवान्। महाबली दानम् अङ्गीकृत्वान्। त्रिपादपरिमितायाः भूमेः दाने आक्षेपार्हः अंशः कोऽपि नासीत्। तथापि गुरुः शुक्राचार्यः आतङ्कयुक्तः जातः। वामनः त्रिविक्रमः जातः। सः एकेन पादेन भूमिम्, अपरेण च स्वर्गलोकं च आक्रान्तवान्। 'मया तृतीयः पादः कुत्र स्थापनीयः?' इति वामनः महाबलिनं पृष्टवान्। वचनपालने बद्धादरः असुरचक्रवर्ती विनयेन शिरः अवनमितवान्। वामनः तृतीयं पादं महाबलिनः शिरसि संस्थाप्य तं पातालं प्रति प्रेषितवान्। वामनस्य अदृश्यतातः पूर्वं महाबली वरं याचितवान्-"वर्षे एकवारम् अहं मम साम्राज्यं द्रष्टुम् इच्छामि" इति। विष्णुः अङ्गीकृतवान्।
[[File:Thiruvathirakkali.jpg|300px|thumb|left|'''ओणमनृत्यम् - तिरुवत्तिकळि''']]
 
[[वर्गः:हिन्दु-उत्सवाः]]
गुमनाम सदस्य
"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/175422" इत्यस्माद् प्रतिप्राप्तम्