"भर्तृहरिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
==परिचयः==
'''भर्तृहरिः''' [[संस्कृतम्|संस्कृत ]]भाषायाः परम: विद्वान् कविश्चासीत् । [[अर्वाचीनकोशः|अर्वाचीनकोशे]] एवम् उल्लिखितम् अस्ति - भर्तृहरेः पिता वीरसेनः इति । अयं वीरसेनः कश्चन [[गन्धर्वः]] । तस्य चत्वारः पुत्राः - भर्तृहरिः, [[विक्रमादित्यः]], सुभटवीर्यः, मैनावती च । जम्बूद्वीपस्य अधिपस्य एकमात्रपुत्री सुशीला एव भर्तृहरेः माता । अधिपस्य पुत्रसन्ततिः न आसीत् इत्यतः भर्तृहरेः कृते राज्यम् अयच्छत् । अयम् [[[उज्जयिनी|उज्जयिनीं]] राजधानीं कृत्वा राज्यशासनम् अकरोत् । ततः विक्रमादित्याय राज्यं दत्त्वा सुभटं सेनाधिकारिपदे नियोज्य निर्गतः इति । <br />
केषुचित् मराठिग्रन्थेषु भर्तृहरेः पिता गन्धर्वसेनः । तस्य चतस्रः पत्न्यः । प्रथमः भर्तृहरिः अन्तिमः एव विक्रमादित्यः इति उल्लिखितमस्ति ।
==कालविचारः==
केचन कथयन्ति यत् भर्तृहरिः सप्तमशतमानस्य पूर्वार्धे आसीत् इति । किन्तु क्रि श ६५१ तमे वर्षे दिवङ्गतं वाक्यपदीयकारं भर्तृहरिमेव शतकत्रयकारः भर्तृहरिः इति परिगणयद्भिः एवम् उक्तं स्यात् इति भाति । आचार्य [[दण्डिः]] क्रि श ९ शतमाने आसीत् । अलङ्कारशास्त्रज्ञः [[भामहः]] दण्डेः अपि पूर्वः । भामहात् भर्तृहरिः प्राचीनः यदि स्यात् भामहः स्वस्य अलङ्कारशास्त्रग्रन्थे[[अलङ्कारशास्त्रम्|अलङ्कारशास्त्र]]ग्रन्थे उदाहरणरूपेण वा भर्तृहरेः श्लोकान् अलेखिष्यत् । <br />
विष्णुशर्मकृते[[विष्णुशर्मा|विष्णुशर्म]]कृते [[पञ्चतन्त्रम्|पञ्चतन्त्रे]] भर्तृहरेः श्लोकाः उदाहृताः सन्ति । पर्षियादेशस्य शासकस्य राजा खस्त्रु अनुशरिवान् (क्रि श ५३१-७९) इत्येतस्य अनुज्ञानुगुणं पञ्चतन्त्रग्रन्थः पेह्लविभाषया अनूदिता अस्ति । अतः पञ्चतन्त्रस्य कालः क्रि श ५३१ तः बहु पूर्वमिति भासते । एतैः आधारैः भर्तृहरिः पञ्चमशतमानस्य मध्यभागे उत्तरभागे वा आसीत् इति भासते ।
==शतकत्रयं किम् एतेनैव रचितम् ?==
अनेन कविना [[नीतिशतकम्]], [[श्रृङ्गारशतकम्]], वैराग्यशतकञ्च[[वैराग्यशतकम्]] च इति [[शतकत्रयं]] रचितम् इत्येतस्मिन् विषये विभिन्नाः विविधान् अभिप्रायान् सूचयत्नि । किन्तु अयम् अभिप्रायः आधाररहितः इति भाति । यतः भर्तृहरेः विषये एते उल्लेखाः उपलभ्यन्ते -
:# श्रीमद्भर्तृहरिकृतं नीतिशतकं प्रारभ्यते ।
:# इह खलु राजर्षिप्रवरः भर्तुहरिः........... शतक त्रयात्मकं ग्रन्थं चिकीर्षति ।
"https://sa.wikipedia.org/wiki/भर्तृहरिः" इत्यस्माद् प्रतिप्राप्तम्