No edit summary
No edit summary
पङ्क्तिः ६६:
 
हिमालयपर्वतश्रेणी जगति एव अत्युन्नता पर्वतश्रेणी । पश्चिमस्य सिन्धुतः पूर्वस्य ब्रह्मपुत्रपर्यन्तं १५०० मैलपर्यन्तं प्रसृतः अस्ति हिमालयः । हिमालयस्य उत्तरभागे “त्रिविष्टप”नामिका (टिबेट्) विशाला प्रस्थभूमिः अस्ति । समुद्रतः १५,००० पादमिते औन्नत्ये अस्ति एषा पीठभूमिः । सर्वदा अपि हिमाच्छादितान् एतान् पर्वतान् “हिमाद्रिः” इति वदन्ति । [[गौरीशङ्करः|गौरीशङ्करः]], [[धवलगिरिः|धवलगिरिः]], [[काञ्चनगङ्गा|काञ्चनगङ्गा]], नङ्गप्रभातः, नन्दादेवी, गोसाईनाथः, फूलचौका, शिवपुरिः, महाभारतः, चन्द्रगिरिः, इन्द्रस्थानं, भिरवन्दिः, कुमारपर्वतः, त्रिशूलः, कैलासः, केदारः, हेमकुण्डम्, अमरनाथः इत्यादीनि असंख्यानि गगनस्पर्शिशिखराणि सन्ति हिमालये । सिन्धुनद्याः पश्चिमे विद्यमानः “हिन्दुकुश”पर्वतः अपि हिमालयस्य एव कश्चन भागः । हिमाद्रेः पूर्वशाखा आग्नेयदिशि विद्यमाने ब्रह्मदेशे (बर्मा) अपि प्रसृता अस्ति ।
 
==हिमालयस्य विभागाः==
 
पूर्व-पश्चिमदिशि वैशाल्यानुगुणं हिमालयः पञ्चधा विभक्तः ।
"https://sa.wikipedia.org/wiki/हिमालयः" इत्यस्माद् प्रतिप्राप्तम्