No edit summary
No edit summary
पङ्क्तिः १:
==तस्मै पाणिनये नमः==
[[पाणिनीयाशिक्षा]] ग्रन्थे त्रयः श्लोकाः पाणिनये नमस्कारपराः द्श्यन्ते । पाणिनिः वैय्याकरणानाम् प्रातः स्मरणीयः मुनिः । नकेवलम् वैय्याकरणानाम् अपि तु निखिलसंस्कृतविपश्चिताम् एष प्रातर्नमस्यः इत्यत्र न काऽपि संशीतिः । यतः तस्मात् पूर्वतनानां ऐन्द्र,चान्द्र,आपिशलादीनां व्याकरणशास्त्राणि स्वयमधीत्य तानि असमग्राणि च परिभाव्य ’नवं, समग्रं, विश्वज्नीनं च व्याकरणम्’ चिकीर्षुः वाचामधीशम् परमेश्वरम् तपसा आराधयामास । पाणिनेः तपसा सन्तुष्टः परशिवः ताण्ड्वं नाट्यम् अकरोत्, नृत्तान्ते चतुर्दशवारम् ढक्काम् अवादयत्, तद् ढक्कायाः शब्दान् पाणिनिः अशृणोत् । ते शब्दा एव [[माहेश्वरसूत्राणि]] इति श्रूयते । तदनन्तरम् पाणिनिः [[अष्टाध्यायी]]ति व्याकरणशास्त्रस्य मूलाधारं सूत्रग्रन्थं व्यरचयत् ।
[[पाणिनीयशिक्षा]] ग्रन्थे त्रयः श्लोकाः पाणिनये नमस्कारपराः द्श्यन्ते ।
:शङ्करः शाङ्करीं प्रादात् दाक्षीपुत्राय धीमते ।
:वाङ्मयेभ्यः समाहृत्य दॆवीं वाचमिति स्थितिः ॥
पङ्क्तिः ७:
:येन धौता गिरः पुंसाम् विमलैः शब्दवारिभिः ।
:तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥
'''पाणिनिः''' संस्कृतस्य महावैयाकरणः । यतः तद्नन्तरीयाः ये ये वैय्याकरणाः अभवन् ते सर्वेऽपि व्याकरणशास्त्रस्य नाना प्रक्रियायाः निरूपणार्थं पाणिनेः अष्टाध्याय्याः विविधाः व्याख्याः निरचिन्वन् ।
'''पाणिनिः''' संस्कृतस्य महान् वैयाकरणः ।
==जन्म,कालः, नामानि==
पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शलातुरग्रामे अभवत् । अतः तस्य 'शलातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्तानदॆशॆ स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । अतः एव सः दाक्षीपुत्रः इत्यपि कथ्यते । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम 'पाणिनिः' अभवत् । अयं कृशाश्वपुत्रस्य देवलनाम्नः पौत्र इति John Garratt महाशयस्य Classical Dictionary of India पुस्तके उल्लिखितमस्ति । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'तक्षशिला'विद्यापीठे शिक्षां प्राप्तवान् ।
 
"https://sa.wikipedia.org/wiki/पाणिनिः" इत्यस्माद् प्रतिप्राप्तम्