मम परिचयः सम्पादयतु

मम नाम विघ्नेश्वरभट्टः इति । पितुः नाम दि.महाबलेश्वरभट्टः इति माता दि. गोदावरी इति । मम जन्म दिनाङ्के, ०६-०६-१९५४ तमेऽभवत् । गेराळम् इति मम वासग्रामः । बिसगोड इति ग्रामेऽहम् संस्कृतपाठशालायाम् अध्यापकः अस्मि । संस्कृते पद्यरचनायां मम प्रवृत्तिरस्ति । यथेदं गॆयकुसुमम् :-

गेयवाणी रसवती सम्पादयतु

रसवति! रसनालोले भगवति!
निजहृदि नित्यं नौमि सरस्वति! ।। प॥
शारदॆ ! शरदभ्रसिताङ्गे
नादतरङ्गिणि,पावनगङ्गे! ।
मन्दपवनमृदुकम्पितकेशॆ
वीणावादनभावावेशॆ ! ॥१॥ रसवति॥
गान्धारप्रियमधुरकन्धरे!
मन्दस्मितशोभितशोणाधरे! ।
इन्दीवरदलश्यामलनयने
चारुतया चन्द्रायितवदने ॥२॥ रसवति॥
मुनिजनमानससारसरम्ये!
भारतजननीं भवतीं मन्ये ।
हिमगिरि-कन्याकुमारि! मातः!
भवतीं हित्वा नहि मे त्राता ॥३॥ रसवति॥
रसवति! सहृदयचेतोहारिणि!
कविजनभावोद्यानविहारिणि!।
पदगतिहासे लयविन्यासे
असमानासि च मधुरविलासे ॥४॥ रसवति॥
ज्ञानसमुद्रे! गानसुमुद्रे!
वाङ्मयजननि! धरेव सुभद्रे! ।
वेदहिमालयगिरिजे!ऽनुभजे
भवतीमयि! मयि दयतां मनुजे ॥५॥रस॥फलकम्:श्रेष्ठलेख

काचित् निवेदना सम्पादयतु

आत्मीय महोदय, शारदायाः इमं स्तुतिं पठन्ती तां नमन्ती अत्र उपविष्टा अस्मि अहमत्र । कियत् सुन्दरं लिखति महोदय भवान् !! मम प्रणामाः । अस्य दर्शनेन मम संस्कृतप्रीतिः वर्धमाना अस्ति अस्मिन् क्षणे.... । (पद्यरूपं दातुं किं कर्तव्यमिति दर्शनाय मया लघु परिवर्तनं कृतमस्ति । 'इतिहासः दर्श्यताम्' इत्यत्र गत्वा कृतं परिवर्तनं ज्ञातुं शक्यमिति भवान् जानीयादेव !)

भवान् अत्र नूतनः इति कारणतः इयं निवेदना मया क्रियमाणा अस्ति । इदं पृष्टमस्ति योजकपृष्टम् । अत्र भवान् भवतः परिचयं लेखितुम् अर्हति । अन्ये भवान् कः इति ज्ञातुम् इदं पुटं पश्यन्ति । तदनुगुणम् इदं परिवर्तयितुं भवान् अर्हति । शुभा (चर्चा) ०४:२६, ४ जनुवरि २०१२ (UTC)

धन्यवादाः सम्पादयतु

अयि, भगिनि, धन्यवादाः ।

एतदतिरिच्य मया नैकानि पद्यानि विरचितानि सन्ति । तान्यपि काले प्रकटयिष्यामि । अत्र भवत्या कृतं परिवर्तनं मया अवलॊकितम् । एवं इतरैः कृतं परिवर्तनं द्रष्टुं शक्यत इति मया न ज्ञातमासीत् इतः पूर्वम् । यतः अहं सप्तपञ्चाशद्वर्षीयोऽपि अस्मिन् विषये छात्र एव । युवानोऽपि मत्तो वरिष्ठाः । मया कदाचन सरस्वत्याः सेवार्थं एतादृशानि पद्यानि रचितानि सन्ति । उपरितनं पद्यं मम पाठशालायां प्रार्थनागीतमपि अस्ति । ह्यः मया उट्टङ्किताः सुरक्षिताश्च पाणिनीया शिक्षा ग्रन्थस्य श्लोकाः अद्य नालक्ष्यन्ते कुत्रापि कथम् ? । तत्पृष्ठमुद्घाटयितुं किं करणीयम्? । अहं भवत्यै कष्टं ददामि इति भाति । क्षम्यताम् । भवदीयः बन्धुः ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Vmbgeral&oldid=186982" इत्यस्माद् प्रतिप्राप्तम्