"पाणिनिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १०:
:येन धौता गिरः पुंसाम् विमलैः शब्दवारिभिः ।
:तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥
'''पाणिनिः''' संस्कृतस्य महावैयाकरणः । यतः तद्नन्तरीयाःतदनन्तरीयाः ये ये वैय्याकरणाः अभवन् ते सर्वेऽपि व्याकरणशास्त्रस्य नाना प्रक्रियायाः निरूपणार्थं पाणिनेः अष्टाध्याय्याः विविधाः व्याख्याः निरचिन्वन् ।
 
==जन्म,कालः, नामानि च==
पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शलातुरग्रामे अभवत् । अतः तस्य 'शलातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्तानदॆशॆ स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । अतः एव सः दाक्षीपुत्रः इत्यपि कथ्यते । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम 'पाणिनिः' अभवत् । अयं कृशाश्वपुत्रस्य देवलनाम्नः पौत्र इति John Garratt महाशयस्य Classical Dictionary of India पुस्तके उल्लिखितमस्ति । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'तक्षशिला'विद्यापीठे शिक्षां प्राप्तवान् ।
"https://sa.wikipedia.org/wiki/पाणिनिः" इत्यस्माद् प्रतिप्राप्तम्