"विशाखदत्तः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४:
संस्कृतमहानाटककारेषु अन्यतमः "विशाखदत्तः" कल्पनालोकम् विहाय वास्तवम् चरित्रम् च्रित्रम् इव व्यलिखत् । अयम् "पाटलिपुत्रे" आसीत् । पाटलिपुत्रम् गङ्गाशोणानद्योः सङ्गमस्य दक्षिणे दिशि अवर्तत । अस्य कुसुमपुरम् इति नामान्तरमपि विद्यते । पूर्वस्मिन् काले यत्र मुद्राराक्षसनाटकस्य कथा प्राचलत्, तत्रैवायं कविः जनिम् अल्भत । अयम् क्रि.श.५ तमशतमाने पूर्वार्धे आसीत् बहवो विमर्शकाः मन्वते । यतः पञ्चमशताब्दस्य उत्तरभागे विद्यमानः "वराहमिहिरः" एनम् अस्तौत् । पाट्लिपुत्रम् अस्य वासस्थानं कार्यस्थानं च अभवत् ।
==नाटकस्य कथा==
क्रिस्तात् पूर्वकाले घटितस्य मगधानां महापतनस्य चन्द्रगुप्तोदयस्य चाणक्यतन्त्राणां कथाविस्तरस्य रूपकम् "मुद्राराक्षसम्" । एशा चाणक्यस्य कथा, चन्द्रगुप्तः अस्य नायकः । विष्णुपुराणेऽपि उक्तं यथा-
:नव चैतान्नन्दान्कौटल्यो ब्राह्मणः समुद्धरिष्यति । कौटल्य एव चन्द्रगुप्तं राज्येऽभिषेक्ष्यति । अतः परं शूद्राः पृथिवीं भोक्ष्यन्ति । इति ।
बृहत्कथायाम् एवमुक्तम् -
:चाणक्यनाम्ना तेनाथ शकटारगृहे रहः ।
:कृत्यां विधाय सप्ताहात् सपुत्रो निहतो नृपः ॥
:योगानन्दे यशःशेषे पूर्वनन्दसुतस्ततः ।
:चन्द्रगुप्तः कृतो राज्ये चाणक्येन महौजसा ॥
 
==औचित्यम्==
"https://sa.wikipedia.org/wiki/विशाखदत्तः" इत्यस्माद् प्रतिप्राप्तम्