"नाट्यशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४:
भारतदेशस्य संस्कृतवाङ्मयस्य च कीर्तिसौधस्य आधारस्तम्भा इव चत्वारः भरतनामानः कीर्तिशेषाः श्रूयन्ते । तेषु प्रथमः दुष्यन्तपुत्रः भरतः । द्वितीयः बाहुबलिसोदरः भरतः । तृतीयः श्रीरामस्य अनुजः भरतः । चतुर्थस्तु [[नाट्यशास्त्रम्]] इत्येत्द्ग्रन्थस्य कर्ता [[भरतमुनिः]] । एवं चतुर्णाम् एतेषां भरतानां जन्मभूमिः, कर्मभूमिः च योऽयं देशः वर्तते [[भारतम्]] इति यथार्थाभिधानम् भजते । तथैव भरतमुनिना प्रणीतं भारतीयं [[नाट्यशास्त्रम्]] भवति । [[नाट्यवेदः]] इति नाट्यशास्त्रस्य पुरातनं नाम बभूव, यथा-
:वेदोपवेदैः संबद्धो नाट्यवेदो महात्मना ।
:एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना ॥ ना.शा.१.१८. ।
भारते प्रागैतिहासिके काले " नाट्यवेदः" द्वादशसहस्रश्लोकात्मकः बृहद्गात्रः प्रसिद्धिं गतः, उपलब्धश्च आसिदिति ज्ञायते । क्रिस्तात् पूर्वस्मिन् सहस्राब्दे भरतमुनिना पुरातननाट्यवेदात् सारमुद्धृत्य षट्सहस्रैः श्लोकैः नाट्यशास्त्रं निबद्धम् । शास्त्रमिदं न केवलं रङ्गकर्मनिर्देशने प्रवृत्तम्, नृत्य-गीत-वाद्य-साहित्यादीनां कलामूलानां सर्वशास्त्राणामपि महोपकारकं वर्तते । सङीतादिशास्त्रग्रन्थाः एतच्छास्त्रम् अनूद्य एव प्रवृत्ताः इति न सन्देहः ।
 
[[वर्गः:परिशीलनीयानि| हिन्दी]]
"https://sa.wikipedia.org/wiki/नाट्यशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्