"जे बि एस् हाल्डेन्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding zh:约翰·伯顿·桑德森·霍尔丹
No edit summary
पङ्क्तिः १:
[[चित्रम्:J. B. S. Haldane.jpg|thumb|right|200px]]
 
(कालः ०५. ११. १८९२ तः ०१. १२. १९६४)
 
 
एषः जे. बि. एस्. हाल्डेन् (J. B. S. Haldane) अत्यन्तं प्रतिभावान् जीवविज्ञानी । अयं न केवलं जीवविज्ञानी अपि तु अन्येषु बहुषु क्षेत्रेषु प्रतिभावान् आसीत् । [[गणितम्|गणीतं]], [[भौतविज्ञानम्|भौतविज्ञानं]], [[वैद्यविज्ञानम्|वैद्यविज्ञानं]], [[तत्त्वज्ञानम्|तत्त्वज्ञानं]], विज्ञानसाहित्यम् इत्यादिषु बहुषु क्षेत्रेषु सः जे. बि. एस्. हाल्डेन् कार्यं कृतवान् आसीत् । सः जे. बि. एस्. हाल्डेन् १८९२ तमे वर्षे नवेम्बर्-मासस्य ५ दिनाङ्के [[इङ्ग्लेण्ड्]]-देशस्य आक्स्फर्ड्-शैरि इति प्रदेशे जन्म प्राप्नोत् । ईटन् तथा आक्स्फर्ड् मध्ये अध्ययनम् अकरोत् । अस्य जे. बि. एस्. हाल्डेनस्य [[पिता]] जान् स्काट् हाल्डेन् अपि प्रख्यातः शरीरविज्ञानी आसीत् । एषः जे. बि. एस्. हाल्डेन् केम्ब्रिड्ज्, [[क्यालिफोर्निया]], [[लण्डन्]] विश्वविद्यालयेषु अध्ययनं समाप्य किञ्चित् कालं यावत् कम्युनिष्टसिद्धान्तस्य अनुयायी आसीत् । अनन्तरं १९५७ तमे वर्षे [[ब्रिटन्]]-देशस्य नियमानां विरोधं कुर्वन् प्रतिभटनम् अपि अकरोत् । ततः तं देशं परित्यज्य [[भरतम्|भारतं]] गत्वा तत्रत्यं पौरत्वं प्राप्नोत् । अनन्तरं भारतदेशस्य [[ओड़िशा|ओडिशा]]राज्यस्य [[भुवनेश्वरम्|भुवनेश्वरे]] आनुवंशिकविज्ञानस्य तथा बयोमेट्रि-विभागस्य प्रयोगशालायाः प्रमुखरूपेण कार्यम् अकरोत् ।
 
"https://sa.wikipedia.org/wiki/जे_बि_एस्_हाल्डेन्" इत्यस्माद् प्रतिप्राप्तम्