"यल्लाप्रगड सुब्बरावु" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Yellapragada subbarao.jpg|thumb|right|200px]]
 
(कालः – १२. ०१. १८९५ तः ०९. ०८.१९४८)
 
 
एषः यल्लाप्रगडसुब्बरावः (Yallapragada Subba Rao) बहूनाम् [[औषधम्|औषधानां]] संशोधकः । एषः अतिविरलेषु विज्ञानिषु अन्यतमः अपि । अयं [[भारतम्|भारत]]देशस्य [[आन्ध्रप्रदेशः|आन्ध्रप्रदेश]]राज्यस्य [[भीमवरम्]] इति प्रदेशे कस्मिंश्चित् निर्धनकुटुम्बे १८९५ तमे वर्षे जनवरिमासस्य १२ दिनाङ्के जन्म प्राप्नोत् । किन्तु एषः यल्लाप्रगडसुब्बरावः जीवनस्य बहुभागम् [[अमेरिका]]देशे एव अयापयत् । दौर्भाग्यं नाम यद्यपि सः यल्लाप्रगडसुब्बरावः बहूनाम् औषधानां संशोधनम् अकरोत् तथापि तेषां मूल्यं तस्य जीवितकाले केनापि न ज्ञातम् आसीत् । एषः यल्लाप्रगडसुब्बरावः निर्धने कुटुम्बे जातः इति कारणात् तस्य अध्ययनार्थं व्ययीकर्तुं धनं न आसीत् । तस्मात् कारणात् सः बाल्ये एव विद्यालयं प्रति गमनम् अत्यजत् । सुदूरे विद्यमानां [[वाराणसी|वाराणसीं]] प्रति अगच्छत् च । तत्र देवालयानां पुरतः फलविक्रयणं करोति स्म । तं विषयं ज्ञातवन्तः केचन तस्य सहृदः बान्धवाः तं वाराणसीतः प्रत्यानीय पुनः विद्यालयं प्रेषितवन्तः । तदनन्तरं सः यल्लाप्रगडसुब्बरावः अत्यन्तं परिश्रमेण अध्ययनं कृत्वा वैद्यपदवीं प्राप्नोत् । यदा तस्य द्वौ अपि सहोदरौ “उष्णप्रदेशस्य अतिसाररोगेण” मृतौ तदा एव “मया अग्रे औषधानां संशोधनं करणीयम्” इति मनसि सङ्कल्पम् अकरोत् ।
 
पङ्क्तिः १०:
 
 
अयं यल्लाप्रगडसुब्बरावः अत्यन्तं स्थितप्रज्ञः, तावान् एव विनयी अपि । सः कदापि प्रचारं न इष्टवान् । १९२२ तमे वर्षे एतस्मै यल्लाप्रगडसुब्बरावाय तथा सैरस् फिस्काय च यः “नोबेल्” पुरस्कारः दातव्यः आसीत् सः पुरस्कारः अन्येभ्यः प्रदत्तः । तदर्थं वैज्ञानिकवलये महती अतृप्तिः प्रकटिता । तथापि एषः यल्लाप्रगडसुब्बरावः असमाधानं न प्रकटितवान् । स्वस्य सर्वस्य अपि संशोधनस्य कारणीभूताः मम सहोद्योगिनः इत्येव सर्वदा वदति स्म । एषः यल्लाप्रगडसुब्बरावः अर्जितं सर्वम् अपि धनं जनकल्याणार्थम् एव व्ययीकरोति स्म । जन्मसमये मया किमपि न आनीतम् । गमनसमये अपि किमपि नेतव्यं नास्ति । अतः मया किमपि सङ्ग्रहणीयं नास्ति । प्रतिवर्षम् अपि मम गणनापुस्तके आयः व्ययः च समानः भवेत् । किमपि न शिष्येत इति वदति स्म । सः यल्लाप्रगडसुब्बरावः १९४८ तमे वर्षे आगस्ट्-मासस्य ९दिनाङ्के ५३ तमे वयसि इहलोकम् अत्यजत् ।
 
 
"https://sa.wikipedia.org/wiki/यल्लाप्रगड_सुब्बरावु" इत्यस्माद् प्रतिप्राप्तम्