"नाट्यशास्त्रम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

पङ्क्तिः १३:
:'''तत्र रसानेव तावदादौ अभिव्याख्यास्यामः॥''' इति प्रतिज्ञाप्य,
:'''न हि रसादृते कश्चिदर्थः प्रवर्तते ।''' इति वदन् नाट्येषु रसम् ऋते अर्थ एव नास्तीति निर्वचनं करोति। तदनन्तरम् "रससूत्रम्" एवमभिधत्ते ।
:'''विभावानुभावव्यभिचारिसंयोगात् रसनिष्पत्तिः ।''' इति । एवं रससूत्रनिर्माणानन्तरं शास्त्रकारः '''"को द्ष्टान्तः?"''' इति स्वयमेव पृच्छामुद्घाट्य, अग्रे विवृणोति यथा -
:यथा हि गुडादिभिः द्रव्यैः व्यञ्जनैः औषधिभिश्च षाडवादयो रसाः निर्वर्त्यन्ते, तथा नाना भावोपगता अपि स्थायिनः भावाः रसत्वम् आप्नुवन्ति ।
इति । अस्यायमाशयः, अत्र द्ष्टान्ते विभावादीनां विवेचना प्रसिद्धैः गुडादिभिः निरूप्यते । अत्र गुडादयः षट् रसपदार्थाः विभावः, अनुभावः, सञ्चारिभावश्च इति ज्ञेयम् । जलं स्थायिभाव इति कल्पनीयम् । एवं च स्थायिभावेन विभावादीनां सम्मेलनं रसोत्पत्तिकारणम् । रोसोत्पत्यनन्तरं प्रेक्षकाणां सामाजिकानां आनन्दानुभूतिः, रसास्वादश्च भवति । अतो भारतोऽभिदधाति -
:'''आस्वादयोग्यः पदार्थसंयोग एव रसः''' इति ।
बुभुक्षितः जनः यथा मधुरादिभी रसैः मिश्रम् अन्नम् आस्वाद्य आनन्दम् अनुभवति, तथा सहृदयः नाट्येषु पात्राणाम् (रामादीनाम्) आङ्गिकैः, आहार्यैः, वाग्व्यापारैश्च सुखे दुःखे विस्मयादिषु च तादात्म्येन आनन्दमनुभवति ।
 
==शास्त्राणाम् ’आकरः’==
"https://sa.wikipedia.org/wiki/नाट्यशास्त्रम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्