"विशाखदत्तः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १२:
:चन्द्रगुप्तः कृतो राज्ये चाणक्येन महौजसा ॥
अस्मिन् नाटके चाणक्यस्य प्रधानं पात्रम् । चणकः चाणक्यस्य जनकः । चाणक्यः साङवेदाध्यायी, ज्योतिश्शास्त्रे नीतिशास्त्रे च पारङ्गतः आसीत् । एतस्य विष्णुगुप्तः, कौटल्यः इति च नामान्तरे आस्ताम् । एषः [[अर्थशास्त्रम्]] इति ग्रन्थम् अलिखत् । अस्य अर्थशास्त्रस्य प्रसारमाध्यमम् इव इदम् नाटकम् भासते ।
पुरा '''पाटलिपुत्रम्''' अथवा '''कुसुमपुरम्''' नाम्नि नगरे चन्द्रवंशीयः "सर्वार्थसिद्धिः" नाम राजा राज्यं शासति स्म । तस्य सुनन्दा नाम्नी पट्टमहिषी, शूद्रकुलसञ्जाता "मुरा" प्रियमहिषी च इति द्वे पत्न्यौ आस्ताम् । कस्यचन मुनेः अनुग्रहेण सुनन्दायां नव पुत्राः, मुरायाम् एकश्च तनयः इति दश पुत्राः आसन्अजायन्त । वृद्धाप्ये राजा राज्ञ्याः ज्येष्ठपुत्रे राज्यं विनिक्षिप्य मुरापुत्रं (मौर्यम्)सेनाधिकारिणम् नियोजमास । कालक्रमेण मौर्यस्य शतम् पुत्राः समभव्न्समभवन् । एतेषु सर्वेभ्यः कनीयानेव [[चन्द्रगुप्तः]] ।
 
==औचित्यम्==
"https://sa.wikipedia.org/wiki/विशाखदत्तः" इत्यस्माद् प्रतिप्राप्तम्