"कन्याराशिः" इत्यस्य संस्करणे भेदः

thumb|right|300px मिथुन द्वादश राशिनां मध्ये एक:। ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[File:Virgo2.jpg|thumb|right|300px]]
मिथुनकन्याराशिः द्वादशद्वादशराशिषु राशिनांअन्यतमः मध्ये एक:। द्वादश राशयः [[मेषः]], [[वृषः]], [[मिथुन]], [[कर्कटः]], [[सिंह]], [[कन्या]], [[तुला]], [[वृश्चिकः]] [[धनुः]] [[मकरः]], [[कुम्भः]] तथा [[मीनः]] सन्ति।
==नामौचित्यम्==
 
एकाकिन्याः कन्यायाः मनसि यानि तुमुलानि भवन्ति तानि सङ्केतयति अयं राशिः । स्वस्य विद्यया, वर्तनेन, वाचा, केनचित् रूपेण सर्वे यथा आत्मानं पश्येयुः तथा भवति कन्याराशिवतां व्यवहारः । एतेषु प्रतिभाः पाण्डित्यञ्च आधिक्येन विद्यते । तेषां सद्विनियोगः यत्र भवेत् तादृशेषु वाणिज्य-प्रचारादिषु विभागेषु एते कार्यरताः भवन्ति ।
{{stub}}
==अधिपतिः==
मिथुन-कन्याराश्योः [[बुधः]] अधिपतिः । बुधः पलायनवादी । ग्रहराज्यव्यवस्थायाः दृष्ट्या अयं वणिक् विद्यते । वणिजाम् अनुपस्थितौ अपेक्षितवस्तूनां सम्पूरणं कष्टकरम् । बुधः नाम पण्डितः इत्यपि अर्थः । कालानुगुणान् निर्णयान् स्वीकुर्वन् कार्याणां सम्पादनसामर्थ्यं बुधेन एव साध्यम् । अन्येषां साहाय्यम् आचरन् स्वस्य लाभस्य सम्पादनं, सर्वेषां सन्तोषणे अत्यन्तं समर्थः नाम बुधः एव । सर्वैः सह समञ्जनं, स्वस्य प्रामुख्यप्रदर्शनञ्च एतेषां विशेषलक्षणम् । मिथुनराशिवतां वस्तुक्रयणे, कन्याराशिवतां वस्तुविक्रयणे विशेषसामर्थ्यं दृश्यते । गुणविषये ग्रहणम् आदरणं च बुधद्वारा एव निश्चीयते । समाजोन्मुखचिन्तनम् एतेषां वैशिष्ट्यम् ।
==राशिभावः==
कन्यायाः '''सहजषष्ठ'''भावः इति निर्दिश्यते । अन्येषां सम्मुखीकरणविधानं, स्पर्धात्मकपरीक्षाः, देहे रोगनिरोधशक्तिः, शत्रुः, रोगः, ऋणविषये जयापजयाः, श्रमशक्तिः, उद्योगः इत्यादयः अंशाः षष्ठभावे अन्तर्भवन्ति । कन्याराशिवत्सु अपि एते अंशाः विशेषतया दृश्यन्ते ।
==स्म्बद्धानि अक्षराणि==
कन्याराशौ उत्तराषाढायाः २,३,४ पादाः, हस्तायाः ४ पादाः, चित्तस्य १,२ पादाः च भवन्ति इत्यतः '''टो, पा, पी, पो, षं, णा, था, पे ... ''' इत्येतानि अक्षराणि कन्यासम्बद्धानि इति वक्तुं शक्यते ।
==जन्मदिनम्==
येषां जन्मदिनम् आगस्ट्-मासस्य २४ दिनाङ्कतः सेप्टेम्बर्-मासस्य २३ दिनाङ्कतः पूर्वं भवति तेषां कन्याराशिः ।
[[category:राशयः]]
"https://sa.wikipedia.org/wiki/कन्याराशिः" इत्यस्माद् प्रतिप्राप्तम्