"वाचस्पतिमिश्रः" इत्यस्य संस्करणे भेदः

सर्वतन्त्रस्वतन्त्रधिषणोऽयम् उद्द्योतकारा... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०९:५७, ५ एप्रिल् २०१२ इत्यस्य संस्करणं

सर्वतन्त्रस्वतन्त्रधिषणोऽयम् उद्द्योतकाराद् अधस्तनः उदयनाद् ऊर्ध्वतनः । यस्माद्वाचस्पतिना उद्योतकरकृतस्य न्यायभाष्यवार्तिकेस्योपरि न्यायवार्तिकतात्पर्यमकारि, उदयनेन तु तदुपरि न्यायवार्तिकतात्पर्यपरिशुध्दिरकारीति । विद्यावस्पतिना वाचस्पतिना खप्रणीतग्रन्था ब्रह्मसूत्रशारीरकभाष्यस्य भामत्यन्ते निर्दिष्टाः –

यत्र्यायकणिकातत्त्वसमीक्षातत्त्वबिन्दुभिः ।
यन्न्यायसांख्ययोगानां वेदान्तानां निबन्धनैः ॥
समचैषं महत्पुण्यं तफलं पुष्कलं मया ।
समर्पितमथैतेन प्रीयतां परमेश्वरः ॥

खण्डनोध्दारकृद् वाचस्पतिमिश्रस्त्वस्माद्बिन्नो नवीनश्च । खण्डनोध्दारः श्री हर्षप्रणीतं खण्डनखण्डखाद्यं लक्ष्मीकृत्य कृतो वाचस्पतिना । श्रीहर्षस्तूदयनादधस्तनः । यस्माद् उदयनाचार्यकृतस्य न्यायकुसुमाञ्जलेः –

शङ्का चेदनुमास्त्येव न चेच्छङ्का ततस्तराम् ।
व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥

इति कारिकैव श्रीहर्षेण खण्डनखाद्ये –

तस्मादस्माभिरप्यस्मिन्नर्थे न खलु दुष्पठा ।
त्वद्गाथैवान्यथाकारमक्षराणि कियन्त्यपि ॥
व्याघातो यदि शङकास्ति न चेच्छङ्का ततस्तराम् ।
व्याघातावधिराशङ्का तर्कः शङ्कावधिः कुतः ॥

इत्येवं कटाक्षिता । सोऽयं तत्त्वचिन्तामणिकाराद् गङ्गेशरादप्यधस्तनो यस्मात्खण्डनखण्डखाद्ये –

धीधना बाधनायास्यास्तदा प्रज्ञां प्रयच्छथ ।
क्षेप्तुं चिन्तामणिं पाणिलब्धमब्धौ यदीच्छथ ॥’

इति पठ्यते । सोऽयं श्रीहर्षः खण्डनखाद्ये नैषधीयचरिते चात्मानं कान्यकुब्जेश्वरसभायामार्णयत् । तदा कालकलनया महोदयापरनाम्नः कान्यकुब्जनगरस्य कान्यकुब्जदेशस्य वा विद्वद्विहंगमाबासकल्पषादपायितेष्वधिपतिषु महाराजो बिजयचन्द्रस्तत्सूनुर्जयचन्द्रो वा संभवति । यस्मात्त्समयस्तदीयदानपत्रात् पश्चविंशत्यधिकद्वादशशतसंवत्सरः १२२५ (इण्डियन् आण्टिक्वेरी १५-७८८)। नैषधीयचरितस्य पश्चमसर्गान्ते कीर्तिता विजयप्रशस्तिः कदाचित्कान्यकुब्जेश्वारस्य विजयचन्द्रस्यैव भवेत् । श्रीहर्षस्य पिता हीरः (हीरा) माता मामह्लदेवी (मामला) देशो जातिश्छ कान्यकुब्जेः (कतबजिया ) । एतद्वंश्याः कतिपयेऽधुना वङ्गेषु निवसन्तः स्वस्यामिजनं कान्यकुब्जं, खपूर्वपुरुषं श्रीहर्ष च कथयन्तीति सुप्रसिध्दम् ॥

"https://sa.wikipedia.org/w/index.php?title=वाचस्पतिमिश्रः&oldid=188680" इत्यस्माद् प्रतिप्राप्तम्