"यूरोपखण्डः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १०:
==सस्यसम्पत्तिः==
पोर्चुगल्, स्पेन्, इटलि, ग्रीस् इत्यादिषु मेडिटरेनियन्प्रदेशेषु नित्यहरिद्वर्णयुक्तवृक्षाः, गुल्मानि च वर्धन्ते । पर्वतीयप्रदेशेषु पैन्, सैप्रेस्, योव्, स्प्रूस् इत्यादयः शङ्ख्वाकारकाः नित्यहरिद्वृक्षाः भवन्ति । रशियादेशस्य दक्षिणभागे उक्रेन्देशस्य आग्नेयभागे च तृणानि वर्धन्ते । ऐस्लेण्ड्, नार्वे, स्वीडन्, रशियादेशस्य उत्तरभागेषु च अल्पजीवीनि लघुसस्यानि वर्धन्ते । अवशिष्टेषु शङ्ख्वाकारकाः मिश्रसूचिपर्णीसस्यानि वर्धन्ते । ५५<sup>०</sup> अक्षांशतः उत्तरभागे वाणिज्याधारितानि अरण्यानि एव अधिकतया विद्यन्ते । मध्ययुरोपप्रदेशेषु अपि एतादृशाः वृक्षाः वर्धन्ते । अत्युत्तरेषु भागेषु लाभदायककर्माणि न दृश्यन्ते । अवशिष्टेषु भागेषु शाद्वलं, मेषमहिषीपालनञ्च अधिकतया दृश्यते । द्राक्षा, भिन्नशर्करा (पालङ्कात् (बीट्रूट्तः) निर्मितम् ?), निम्बूकजातिफलानि, गोधूमः इत्यादीनि अस्मिन् खण्डे अधिकतया वर्धन्ते । जर्मनि, नेदर्लेण्ड्स्, इङ्ग्लेण्ड्देशेषु भूमेः ७०% तः अधिकः भागः कृष्यर्थम् उपयुज्यते । बार्लि, ओट्स्, र्-है, गोधूमः, व्रीहिः, जूर्णः, आलूकम् इत्यादयः फलोदयाः अत्र वर्धन्ते । द्राक्षा, ओलिव्, नारङ्गम्, पीच्, निम्बूकजातिफलानि अत्र वर्धन्ते ।
==पर्वताः नद्यश्च==
==पर्वत-नदी-खनिजाः==
अस्मिन् खण्डे आल्प्स्-पर्वतश्रेण्यः अत्युन्नताः सन्ति । मौण्ट्ब्लाक् अस्य खण्डस्य (४८०७ मीटर्मितम्) अत्युन्नतं शिखरं वर्तते । एताः पर्वतश्रेण्यः इटलि-स्विट्सर्लेण्ड्-अस्ट्रियाप्रदेशेषु व्याप्ताः सन्ति । अस्य पूर्वस्यां दिशि कार्पेथियन्-श्रेण्यः विद्यन्ते । पोलेण्ड्, स्लोवाकिया, रोमेनियाप्रदेशेषु एताः श्रेण्यः प्रसृताः सन्ति । २६५५ मीटर्मितोन्नतयुतं टाट्राशिखरम् अस्यां श्रेण्यां विद्यते । बल्गेरियायां बाल्कन्श्रेणी, ग्रीस्देशे पिण्डस्श्रेणी, क्रोयेशिया-युगोस्लाविययोः डिनारिका-आल्फ्स्, इटलिदेशे अपेनैन्, स्पेन्देशे पिरनीस् इत्यादयः श्रेण्यः अस्मिन् खण्डे वर्तन्ते । कृष्णसमुद्र-क्यास्पियन्समुद्रयोः मध्ये काकेसस्श्रेण्यः विद्यन्ते । नार्वे-स्वीडन्देशयोः दक्षिणभागे स्काण्डिनेवियापर्वताः सन्ति । उत्तरस्यां दिशि ल्याप्लेण्ड् इति कथयन्ति । स्विट्सर्लेण्ड्तः रशियादेशपर्यन्तं उत्तरयुरोपस्य विशालः समतलप्रदेशः वर्तते । अस्य खण्डस्य ईशान्यभागे दक्षिणोत्तरदिशि व्यापृतः उरल्पर्वतः विद्यते । <br />
 
अतिदीर्घा नदी ओल्गा (३६९० कि मी) अत्र वहति । डेन्यूब् (२८२४ मी) डान् नीपर्-नद्यः च अत्रत्याः प्रमुखनद्यः । र्-होनेनदी १३२० किलोमीटर्मितं यावत् प्रवहति । मास्कोनगरस्य उत्तरभागे लडोगा-ओनेगा-नामकौ सरोवरौ विद्येते । फिन्लेण्ड्देशे स्वीड्न्देशस्य दक्षिणभागे च अनेके सरोवराः विद्यन्ते । नेदर्लेण्ड्-जर्मनिदेशयोः उत्तरसमुद्रस्य तीरप्रदेशः उरल्-ओल्गानद्योः मुखजभूप्रदेशश्च समुद्रस्तरस्य अपेक्षया अधः विद्यते ।
==पर्वत-नदी-खनिजाः==
{| class="wikitable"
|-
! खनिजाः !! देशाः
|-
| खनिजाङ्गारम् || जर्मनी, बेल्जियम्, रशिया, पोलेण्ड्, फ्रान्स्, युनैटेड् किङ्ग्डम्
|-
| अयः || स्वीडन्, जर्मनी, स्पेन्, बेल्जियम्, रशिया, फ्रान्स्, युनैटेड् किङ्ग्डम्
|-
| मेङ्गनीस्-खनिजः || बोस्निया, रशिया, इटलि, स्पेन्, रोमेनिया
|-
| ताम्रम् || स्वीडन्, जर्मनी, स्पेन्, रशिया
|-
| इन्धनतैलम् || रोमेनिया, रशिया, स्पेन्, षेट्लेण्ड्द्वीपः
|-
| स्वर्णम् || रशियादेशस्य उरल्पर्वताः, हङ्गेरि, रोमेनिया, झेक्-गणराज्यं, स्लोवाकिया
|}
==पाणिपक्षिणः==
शैलशशः, कीटाहारी दीर्घदेही, जलशुनकः, चिक्रोडः, जतुका,कण्टकवराहः, कपीशवर्णीयः भल्लूकः, वृकः, हिमभल्लूकः, अरण्यमार्जालः, नकुलसदृशः प्राणी (मार्टेन्), रक्तहरिणः, अरण्यवृषभः, अरण्यमेषः, ग्लटान्, ब्याजर्, आटर्, लिङ्क्स्, वाल्रस्, सील्, रेण्डियर् इत्यादयः प्राणिनः अत्र दृश्यन्ते । बलाकः, बकपक्षी, जलकुक्कुरः दक्षिणभागेषु बकपक्षी, कदम्बः, हंसः, मलार्ड्, टेल्पक्षिणः, गृध्रः, गरुडः, पेट्रिज्, फिजण्ट्, प्लोवर्, स्याण्ड् पैपर्, कोकिलः, उलूकः, समुद्रपक्षी, रात्रिपक्षी, टिट्पक्षी इत्यादयः पक्षिणः अत्र विद्यन्ते ।
==उद्यमः==
१८५७ तमे वर्षे जातात् औद्यमिकक्रान्तेः कारणतः अस्मिन् खण्डे धूमशकटम्, यन्त्रोपकरणानि, वयनोद्यमश्च विशेषप्रगतिं प्राप्तवन्तः । मूलवस्तूनां सिद्धवस्तूनाञ्च विनिमयकारणतः गच्छता कालेन अस्मिन् खण्डे उद्यमकौशलं श्रेष्ठस्तरम् अवाप्नोत् । अद्यत्वे अपि अयं खण्डः उद्यमे अग्रेसरः अस्ति । मेषपालनं (चर्म, मांसम्), पशुपालनम् (क्षीर-मांसोत्पादनम्), वराहपालनम् (मांसम्), गोपालनम् इत्यादयः अद्यत्वे अपि प्रमुखः उद्योगः अत्र । रोमेनिया, उक्रेन्, रशियादेशस्य सेम्, पीटर्स्बर्ग्, मेञ्चेस्टर्, एडिन्बर्ग्, स्टाक्-होम्, कोपन्-हेगन्, लण्डन्, ब्रुसेल्स्, स्लाच्टेरेन्, डब्लिन्, प्यारिस्, बार्सेलोनाप्रदेशः (स्पेन्), बुकारेस्ट्, बेल्ग्रेड्, मिलान् (इटली), प्राग्, ह्याम्बर्ग्, वार्सा, कियेव्, रोम् इत्यादयः अत्रत्यानि औद्यमिककेन्द्राणि सन्ति । उत्तरसमुद्रस्य बहुत्र बुकारेस्ट् (रोमेनिया)प्रदेशे इन्धनतैलस्य अनिलानां च महतः प्रमाणस्य उत्पादनघटकाः सन्ति । क्यास्पियन्समुद्रस्य पश्चिमदिशि विशालम् इन्धनतैलोत्पादनकेन्द्रम् अस्ति । खनिजाङ्गारस्य खन्युद्यमः पोलेण्ड्, झेक्गणराज्यम्, जर्मनि, फ्रान्स्, इङ्ग्लेण्ड्, स्पेन्देशेषु च सन्ति । लिघैट्खनिजः जर्मनि, पोलेण्ड्, स्पेन्, टर्कि, ग्रीस्देशेषु उत्पाद्यन्ते । कार्-यानानि यन्त्रोपकरणानि च जर्मनि, इङ्ग्लेण्ड्देशे उत्पाद्यते । दारुखण्डाः कागदनिर्माणाय आवश्यकानि पल्प् इत्येतानि नार्वे, स्वीडन्, फिन्लेण्ड्देशेषु महता प्रमाणेन उत्पद्यन्ते । इङ्ग्लेण्ड्-फ्रान्स्देशेषु अयसः वस्तूनि, वस्त्राणि च उत्पाद्यन्ते । फ्रान्स्देशे द्राक्षा-उद्याननिर्वहणम्, सुरानिर्माणञ्च भवति । इतः तस्य निर्यातः अपि प्रचलति । स्पेन्देशे गन्धद्रव्याणि, फलानि, ओलिव्-तैलोत्पादनञ्च भवति ।
 
 
[[वर्गः:युरोपखण्डः]]
"https://sa.wikipedia.org/wiki/यूरोपखण्डः" इत्यस्माद् प्रतिप्राप्तम्