"यमुनानदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९४:
सा एका पवित्रा नदी। यमुनानद्याः उगमस्थानम् [[उत्तराखण्डः|उत्तराखण्डराज्यस्य ]] [[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डलस्य]] [[यमुनोत्री]] इत्यत्र उद्भवति । ततः १३७० कि.मी दूरं यावत् प्रवह्य [[उत्तरप्रदेशः|उत्तरप्रदेशस्य]] अलाहाबाद् [[प्रयागः]] इत्यत्र [[गङ्गानदी|गङ्गानद्या]] मिलति । एषा नदी [[उत्तराखण्डः|उत्तराखण्ड]]-[[हरियाणा]]-[[देहली]]-[[उत्तरप्रदेशः|उत्तरप्रदेश]]राज्यानां मार्गेण प्रवहति । [[देहली]] [[मथुरा]] [[आग्रा]] इत्यादिप्रमुखनगराणि अस्याः तीरे सन्ति । यद्यपि एषा गङ्गानद्याः उपनदी इति कथ्यते ,तथापि एतस्याह् अपि अनेकाः उपनद्यः सन्ति । तासु प्रमुखाः [[चम्बल्]], बेत्वा, तोन्स्, केन् च । एतासु तोन्स्नदी दीर्घा अस्ति ।
सा सूर्यपुत्री यमस्य स्वसा च।
[[==प्राचीनः इतिहासः पुराणं च==
[[File:Yamuna, personificazione del fiume sacro yamuna, IX sec.JPG|thumb||300px|right|कूर्मवाहिनी यमुना]]
यमुना कूर्मवाहिनी अस्ति। पूर्वं कदाचित् यमुनानदी घग्गरनद्याः उपनदी आसीत् इति उल्लीखाः प्राप्ताः सन्ति । अग्रे कदाचित् उत्तरभारते जातानां भूस्तराणाम् चलनकारणतः एषा स्वस्य पात्रं परिवर्त्य गङ्गया मिलति । पुराणाम् आधारेण सा [[सूर्यः|सूर्यस्य]] पुत्री [[यमः|यमस्य]] स्वसा च। विवस्वतः(सूर्यस्य) [[सञ्जना|सञ्जनायाः]] च पुत्री । यमुनानद्या निर्मिते कल्किद्वीपे एव [[महाभारतम्|महाभारतस्य]] [[व्यासः|वेदव्यासस्य]] जन्म अभवत् । यमुनानद्याः अञ्जलिमात्रेन जलेन [[सोमयागः]] सम्पन्नः इति कथा श्रूयते । [[मथुरा]]-[[वृन्दावनम्|वृन्दावनयोः]] वहन्ती यमुना [[श्रीकृष्णः|श्रीकृष्णस्य]] लीलानां साक्षीभूता तिष्ठति ।
==विविधानि नामानि==
"https://sa.wikipedia.org/wiki/यमुनानदी" इत्यस्माद् प्रतिप्राप्तम्