"रामनाथपुरमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Samvith2011 इति प्रयोक्त्रा रामनाथपुरम् मण्डलः इत्येतत् रामनाथपुरम् मण्डलम् इत्येतत् प्रति चालि...
No edit summary
पङ्क्तिः १:
रामनाथपुरमण्डलं(तमिऴ्: ராமநாதபுரம்மாவட்டம்आङ्ग्लम्: Ramanathapuram District) भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं रामनाथपुरपत्तनम् ।
तमिळनाडु राज्ये स्तिथं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्ं [[रामनाथपुरम्|रामनाथपुर]] नगरम् । अस्मिन् मण्डले रामेश्वरपुण्यक्षेत्रं विद्यते ।
==भौगोलिकम्==
रामनाथपुरमण्डलस्य विस्तारः ४१२३ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरे शिवगङ्गामण्डलम्, ईशान्ये पुदुक्कोट्टैमण्डलम्, पूर्वस्मिन् पाक् जलसङ्क्रमः (पाक् स्ट्रैट्), आग्नेयदिशि मन्नारसमुद्रकुक्षिः (गल्फ़् आफ़् मन्नार्), पश्चिमे तूत्तुकुडिमण्डलम्, वायव्ये विरुदुनगरमण्डलं च अस्ति । अस्मिन् मण्डले पाम्बन्सेतुः अस्ति । अयं भारतस्य श्रीलङ्कादेशस्य च मध्ये विद्यमानः सेतुसदृशः समुद्रगर्भस्थद्वीपानां शृङ्खलानां च समूहः । अयं सेतुः पाक् जलसङ्क्रमं मन्नारसमुद्रकुक्षिना भेदयति ।
 
==इतिहासः==
प्राक्काले इदं मण्डलं पल्लवानां राज्ये अन्तर्भूतम् आसीत् । १०६३तमे वर्षे राजेन्द्रचोळः एतं प्रदेशं स्वायत्तीकृतवान् । १५२०तमे वर्षे विजयनगरस्य नायकैः अयं प्रदेशः जितः । सेतुपतिवंशस्थाः प्रख्याताः मारवाधिनाथाः सप्तदशशतके अस्य प्रशासनम् अकुर्वन् । अष्टादशशतकस्य आदौ कुटुम्बकलहेन इदं मण्डलं विभक्तम् । तञ्जावूरुराजस्य साहाय्येन कश्चन अधिनाथः सेतुपतिं पराजित्य शिवगङ्गायाः नायकः अभवत् । प्रादेशिकाः पाळैयकाराः अपि स्वतन्त्राः अभवन् । १७३०तमे वर्षे कर्णाटकस्य साहिबः चन्दः रामनाथपुरम् आक्रान्तवान् । १७४१तमे वर्षी मराठाः, १७४४तमे वर्षे निज़ामाः च जितवन्तः । तस्य नवाबस्य प्रशासनेन असन्तुष्टाः प्रादेशिकाः अधिनाथाः नायकेषु अन्तिमं पाण्ड्यमण्डलस्य अधिनायकत्वेन उद्घोष्य नवाबस्य विरुद्धं सङ्घटयितुं प्रयतितवन्तः । तावति कर्णाटकप्रान्तस्य सिंहासनं प्राप्तुं चन्दासाहिबस्य मोहम्मद आलेः च मधे सङ्घर्षः आसीत् । ब्रिटिशाः चन्दासाहिबस्य साह्यं कृतवन्तः, फ़्रेञ्चाः च मोहम्मद आलेः । अनेन कारणेन तस्मिन् समये अस्मिन् प्रदेशे बहवः अन्तःकलहाः जाताः ।
 
१७९५तमे वर्षे ब्रिटिशाः मुत्तुरामलिङ्गसेतुपतिं पराजित्य एनं प्रदेशं स्वीयं कृतवन्तः । १८०१तमे वर्षे मङ्गलेश्वरी नाच्चियारः शिवगङ्गायाः भूमिपतिः कृता । तस्याः राज्ञ्याः निधनानन्तरं मरुदुसहोदरौ ईस्ट् इण्डिया संस्थायै नियतरूपेण आयकरं समर्प्य प्रदेशस्य प्रशासनं स्वीकृतवन्तौ । १८०३तमे वर्षे एतौ सहोदरौ पाञ्चालङ्कुरिचेः कट्टबोम्मस्य साहाय्येन ब्रिटिशानां विरुद्ध्य समरम् आरब्धवन्तः । कर्नलः अग्न्यूः मरुदुसहोदरौ गृहीत्वा मारितवान् । ततः गोरीवल्लभपेरियौदरतेवारं शिवगङ्गायाः भूमिपतित्वेन योजितवान् । १८९२तमे वर्षे भूमिपतिपद्धतिः निरसिता । ततः मण्डलस्य प्रशासनार्थं कश्चन समाहर्ता आयोजितः ।
१९१०तमे वर्षे मधुरैमण्डलस्य तिरुनेल्वेलीमण्डलस्य च भागान् गृहीत्वा रामनाथपुरमण्डलं निर्मितम् । जे एफ़् ब्रयाण्टः अस्य मण्डलस्य प्रथमः समाहर्ता आसीत् । ब्रिटिशानां काले इदं मण्डलं रामनाड् इति ख्यातम् आसीत् । स्वातन्त्र्यप्राप्त्यनन्तरम् अपि इदम् एव नाम अनुवृत्तम् । तत्पश्चात् तमिऴ्नाम अनुसृत्य रामनाथपुरम् इति पुनर्नामकरणम् अभवत् ।
 
==जनसंख्या==
२००१वर्षस्य जनगणनानुगुणम् अस्य मण्डलस्य जनसंख्या ११,८७,६०४ आसीत् । अत्र २५.४६% भागः नगरीकृतः । तमिऴ्नाडुराज्ये वेलूरुमण्डलं विहाय अस्मिन् मण्डले इव मुस्लिमजनानां संख्या अत्यधिका । अस्मिन् मण्डले ७२.४१% हिन्दवः, २२.४% मुस्लिमाः, ५.०८% क्रैस्तमतानुयायिनः, ०.११% अन्यधर्मीयाः च सन्ति । २०११ जनगणनानुगुणम् अस्य मण्डलस्य जनसंख्या १,३३७,५६० । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ३६३तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३२० (८३० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं १२.६३% आसीत् । रामनाथपुरे पुं-स्त्री अनुपातः १०००:९७७, साक्षरताप्रमाणं च ८१.४८% अस्ति ।
 
==उपमण्डलानि==
अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति
* कडलाडिः
* कमुतिः
* मुदुकुळत्तूरुः
* परमकुडिः
* रामनाथपुरम्
* रामेश्वरः
* तिरुवादनै
 
==कृषिः==
तमिऴ्नाडुराज्ये मरीचिकायाः उत्पादने रामनाथपुरमण्डलस्य प्रथमं स्थानम् ।
 
==वीक्षणीयस्थलानि==
 
===रामनाथस्वामिदेवालयः===
अयं रामेश्वरद्वीपे विद्यमानः प्रसिद्धः देवालयः । द्वादशज्योतिर्लिङ्गक्षेत्रेषु इदम् अन्यतमम् । २७५ पादल् पेट्र स्थलेषु अपि इदम् अन्यतमम् । अत्रत्यः परमेश्वरस्य देवालयः क्रिस्तीये द्वादशशतके पाण्ड्यराजेन निर्मितः । भारतस्य हिन्दूदेवालयेषु अस्मिन् देवालये एव अतिदीर्घः उपकक्षः अस्ति । अस्मिन् द्वीपे ६४ पवित्रतीर्थानि सन्ति ।
 
===धनुष्कोटिः===
अयं ग्रामः रामेश्वरद्वीपस्य दक्षिणाग्रे तमिऴ्नाडुराज्यस्य पूर्वसमुद्रतीरे अस्ति । अत्र बङ्गालसमुद्रस्य हिन्दूमहासमुद्रस्य च सङ्गमः भवति । श्रीरामः लङ्कां प्रति सेतुनिर्माणस्य स्थलम् अत्रैव स्वस्य धनुषः कोटिना (अग्रभागेन) चिह्नितवान्, अतः अस्य क्षेत्रस्य धनुष्कोटिः इति नाम इति वदन्ति । रामेश्वरं प्रति गमनात् प्राक् अत्र समुद्रसङ्गमे स्नानं कुर्वन्ति भक्ताः ।
 
===एरवाडिः===
अयं कडलाडिउपमण्डले विद्यमानः ग्रामः । अत्र कुतबस् सुल्तान सय्यद् इब्राहिम शहीद बादशाहस्य समाधिः अस्ति । एषः मुहम्मदस्य वंशस्थः क्रिस्तीये द्वादशशतके मदिनायाः राजा आसीत् । सः इस्लामधर्मस्य प्रचारार्थं भारतम् आगतवान् ।
समुद्रजीविसंरक्षणवलयः, मन्नारकुक्षिः – अयं दक्षिण-आग्नेयएषियाखण्डे एव बृहत्तमः समुद्रजीविसंरक्षणवलयः । अत्र ३६०० प्रभेदानां प्राणिनः सस्यानि च अभिज्ञातानि सन्ति ।
 
===पाम्बन् सेतुः===
अयं सेतुः रामेश्वरद्वीपस्य भारतभूभागेन सम्पर्कं कल्पयति । अयं भारतस्य प्रथमः समुद्रसेतुः । अयं प्रायः २.३ किलोमीटर् दीर्घः अस्ति । दैर्घ्ये भारतस्य समुद्रसेतुषु अस्य द्वितीयं स्थानम् । अयं सेतुः १९१४तमे वर्षे निर्मितः ।
 
{{तमिळनाडु मण्डलाः}}
 
"https://sa.wikipedia.org/wiki/रामनाथपुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्