"कैकेयी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Kaikeyi vilap.jpg|thumb|'''कैकेयीप्रलापः दशरथस्य सान्त्वनम्''']]कैकेयी केकयदेशस्य [[अश्वपतिः|अश्वपतिमहाराजस्य]] पुत्री। [[दशरथः|दशरथस्य]] प्रिया पत्नी आसीत् । कौसल्यायाः पुत्रे रामे अत्यन्तं प्रीतिमती एषा दास्याः [[मन्थरायाः|मन्थरायाः]] दुर्बोधनेन रामस्य वनवासे कारणीभूता अभवत् । पूर्वं तया दशरथद्वारा वरद्वययं प्राप्तम् आसीत्। सा कथा एवम् अस्ति ।
तिमिध्वजः नामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् । देवताः पराजिताः अभवन् । तदा ते दशरथस्य साहाय्यं याचितवन्तः । दशरथः कैकेय्या सह देवलोकं गतवान् । तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् । तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् । जागरित: दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् । आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत् ।
==[[रामायनम्|रामायणे]] कैकेय्याः पात्रम्==
कैकेयी रामायणकथायां बहु मुख्यपात्रं वहति | तस्याः इच्छानुसारेण एव [[रामः|रामस्य]] वनाभिगमनम् भवति।
केकयराजस्य पुत्री कैकेयी [[दशरथः|दशरथमहाराजस्य]] तृतीया तथा बहुप्रियतमा पत्नी । सा वीरनारी आसीत् ।
एकदा [[इन्द्रः|इन्द्रस्य]] साहायार्थं [[दशरथः]] शम्बरेन सह युद्धं करोति । तत्सन्दर्भे यदा [[दशरथः]] बहु विचलितः भवति तदा तस्य सारथिरूपेण उपस्थिता कैकेयी अधीरा न भवति। वीरनारी कैकेयी दशरथं युद्धभूमितः दूरं नीत्वा तस्य शुश्रूषां करोति । तदनन्तरं प्रतिफलरूपेण दशरथमहाराजः ’भवत्या अपेक्षितं ददामि’ इति उक्तवान् भवति । तदा कैकेयी ’सूक्तसमये वदामि’ इति उक्तवती भवति। तस्य प्रयोजनं सा रामस्य यौवराज्याभिषेकसन्दर्भे करोति । ’रामं वनं प्रेषयतु’ इति दशरथम् उक्त्वा रामस्य दण्डकाराण्यवासं कारयति।
कैकेयी दुष्टा स्त्रीः न । सा अपि रामं बहु प्रीणयति स्म । परन्तु यदा रामस्य यौवराज्याभिषेकः आयोजितः भवति तदा [[मन्थरा]] नामिकया सेविकया उत्तेजिता भूत्वा तथा व्यवहरति। स्वत्रस्य अधिकारः भवतु इति लोभेन तथा राजभवने [[कौसल्या|कौसल्यायाः]] अपेक्षया ज्येष्ठस्थानं प्राप्तं भवतु इति उद्देशेन ’स्वपुत्रस्य [[भरतः|भरतस्य]] यौवराज्याभिषेकं तथा रामस्य वनाभिगमनं च अपेक्षते। दशरथः वचनबद्धः सन् तस्याः अनुरोधम् अङ्गीकृत्य वनं गन्तुं रामम् आदिशति । पितृवाक्यपरिपालनार्थं रामः वनं गच्छति। तदनन्तरं कैकय्याः ज्ञानोदयः भवति । यतः भरतः तस्याः स्वार्थकार्येण क्रुद्धः दुःखितः च भवति। अनन्तरं सा स्वदोषम् अङ्गीकरोति पश्चात्तापम् अनुभवति च। किन्त् तावति काले हानिः जाता आसीत् ।
रामः वनं गतः आसीत् , दशरथः अपि पुत्रशोकेन मृतः आसीत्।
 
 
 
Line ६ ⟶ १४:
 
[[वर्गः:रामायणस्य पात्राणि]]
[[id:Kekayi]]
[[jv:Kekayi]]
[[ml:കൈകേയി]]
[[mr:कैकेयी]]
[[ja:カイケーイー]]
[[pt:Kaikeyi]]
[[ru:Кайкейи]]
[[ta:கைகேயி]]
[[th:ไกยเกษี]]
[[en: Kaikeyi]]
"https://sa.wikipedia.org/wiki/कैकेयी" इत्यस्माद् प्रतिप्राप्तम्