"सौरव्यूहः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
सौरव्यूहस्य उद्भवः ५०० कोटिवर्षेभ्यः पूर्वं जातः इति विश्वासः आधुनिकानां विज्ञानिनाम् । तस्य कारणीभूता प्रक्रिया या काचित् भ्वतु नाम, सौरव्यूहस्य ग्रहाणां विषये निर्दिष्टा तथा क्रियाबद्धा काचित् व्यवस्था अस्ति ।
:# सौरव्यूहस्य सर्वेऽपि ग्रहाः [[सूर्यः|सूर्यं]] परितः एकस्याम् एव दिशि भ्रमन्ति । तेषां ग्रहाणां भ्रमणपथः अण्डाकारकः । ते च ग्रहाः एकस्मिन् एव समतले (Plane) परिभ्रमन्ति अपि । तेषां ग्रहाणां परितः ये उपग्रहाः परिभ्रमन्ति ते अपि एकस्यां दिशि एव परिभ्रमन्ति ।
:# [[शुक्रः|शुक्रग्रहं]] (Venus) तथा युरेनस्-ग्रहं च विहाय अन्ये सर्वेऽपि ग्रहाः स्व-अक्षं परितः यस्यां दिशि आवर्तनं प्राप्नुवन्ति तस्याम् एव दिशि सूर्यं परितः अपि भ्रमन्ति । उत्तरदिक्तः दक्षिणदिशि यदा पश्यामः तदा ते ग्रहाः अप्रदक्षिणाकारेण (Anti Clockwise) चलन्ति ।
:# प्रतिग्रहं प्रति सूर्यतः विद्यमानं दूरं तस्य ग्रहस्य समीपस्थस्य ग्रहस्य (सूर्यस्य दिशि) अपेक्षया द्विगुणितं भवति ।
:# समग्रस्य सौरव्यूहस्य द्रव्यराशौ ९९.९% भागः यद्यपि सूर्यस्य अस्ति तथापि तस्य कोनीयावेगस्य (Angular momentum) ९०% भागः ग्रहाणाम् अस्ति ।
"https://sa.wikipedia.org/wiki/सौरव्यूहः" इत्यस्माद् प्रतिप्राप्तम्