"संस्काराः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४:
 
==संस्कारभेदः==
गर्भाधानादारभ्यान्त्येष्टिं यावत् त्रयोदशसंस्काराः इति मनुना प्रतिपादितम् । ते च यथा – गर्भाधानम्, पुंसवनम्, सीमन्तोन्नयनम्, जातकर्म, नामकरणम् बहिर्निष्कमणम्, अत्रप्राशनम्, कर्णवेधनम्, चूडाकर्म, उपनयनम् केशान्तः समावर्त्तनम्, विवाहः, अन्त्येष्टिश्चेति । एषु केशान्तसंस्कारं विहायावशिष्टाः द्वादशसंस्काराः स्वीकृताः याज्ञवल्क्येन । तेन समावर्त्तनसंस्कारेण केशान्तसंस्कारस्यान्तर्भावः कृतः । बॊधायनाचार्यैरपि सीमन्तोन्नयनानन्तरं गर्भिण्याः सप्तमे मासि विष्णुबलिः इति कश्चन चतुर्थः संस्कारः कथ्यते । अपि च ब्रह्मचारिणां वॆदाध्ययनानन्तरं विवाहात् पूर्वं हॊतृ, शुक्रियं. उपनिषदं,गॊदानं, सम्मितं चेति पञ्च वॆदव्रतानि संस्कारत्वॆन निर्दिष्टानि वर्तन्ते । कॆशान्तः इति संस्कारस्तु बॊधायनाचार्यैः नॊक्तः । तथा च उपनयनानन्तरं श्रवण्यां पौर्णमास्यां वेदोपाकरणं अथवा वेदारम्भः इति संस्कारॊऽपि विहितः । एवं च षॊडशसंस्कारा भवन्ति
 
==षोडशसंस्काराः==
"https://sa.wikipedia.org/wiki/संस्काराः" इत्यस्माद् प्रतिप्राप्तम्