"रामः" इत्यस्य संस्करणे भेदः
Content deleted Content added
पङ्क्तिः १७:
मन्थरायाः दुष्प्रेरणया कैकेयी पुरा दशरथेन दत्तस्य वरस्य दुरुपयोगमकरोत् । श्रीरामस्य वनगमनाय भरतस्य राज्याभिषेकाय च आग्रहं कृतवती । रामः सन्तोषेण वनं गन्तुम् उद्युक्तः । दशरथः तस्य प्रतिरोधमकरोत् । परं श्रीरामः पित्रा दत्तस्य वचनस्य भङगः न स्यादिति हेतोः चतुर्दशवर्षाणां वनवासार्थं वनं गतवान् । सीता लक्ष्मणश्च तम् अनुसृतवन्तौ । जगति एतादृशमुदाहरणं नैव दृश्यते यत् भ्राता भ्रातुः कृते वनं गतः। एषा वार्ता भरतेन गृहं प्रत्यागते सति श्रुता, तदा सः रामं प्रत्यानेतुमुद्यतः बभूव। भरतेन बहू आग्रहः रामाय कृतः, परं वचनपरिपालकः आज्ञाधारकश्च श्रीरामः भरतस्य वचनं न स्वीकरोति। तदा भरतः रामस्य पादुकां गृहीत्वा एव प्रत्यागच्छति। रामः परिवारजनानां प्रत्यागमनकारणात् ततः दूरं गतः।
== सीताहरणम् ==
वनवाससमये शूर्पणखायाः सह अपमानकारणात् रावणेन सीतायाः अपहरणं कृतः। रावणः दैत्यराजः लंकायाः अधिपतिरासीत्। रामायणानुसारं यदा सीता स्वाश्रमे मृगशिशुं पश्यति तदा सा मृगस्योपरि मुग्धा जाता। ,तदा मृगस्य वाणीं श्रुत्वा सीता उद्विग्ना जाता। सः मायावी मृगः रावणस्य मातुलः आसीत्। तेनैव रावणस्य कथनानुसारं मृगरूपं धारितः। सा रामं तमानेतुं कथयति। रामःमृगमानेतुं गच्छति,लक्ष्मणं च सीतारक्षणे नियुज्य गच्छति। सीता लक्ष्मणः च यदा कुटीरे आस्ताम्। तदा मारीचः रामं बहुदूरं नीतवान्। समये प्राप्ते रामेण शरसंधानं कृतम्। मारीचः उच्चैः - हे सीते ! हे लक्ष्मण ! उक्तवान्। तत्छ्रुत्वा सीता चिन्तिता जाता, सा लक्ष्मणं रामस्य रक्षणाय गन्तुं कथयति। लक्ष्मणः सीतां अवबोधयति परं सीता न किंचित् शृणोति। अन्ततः लक्ष्मणः राममानेतुं गच्छति। गमनसमये सः एकां रेखाम् आकारयति,ततः अग्रे आगन्तुं सीतां वारयति। ततः रावणः भिक्षुरूपेण तत्रागत्य
सीतां रेखां लङ्घयितुं कथयति। सा तथैवाचरति। येन रावणः सीतमपहरति।
== विशिष्टाः गुणाः ==
|