"प्रणब मुखर्जि" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३३:
मुखर्जिः ब्रिटिश्भारतस्य वङ्गराज्ये मिरटिप्रदेशे जन्म प्राप्तवान् । तस्य पिता कामद किङ्कर मुखर्जि भारतीयराष्ट्रियकाङ्ग्रेस्पक्षस्य सदस्यः आसीत् । भारतीयस्वातन्त्र्यसङ्ग्रामे गृहीतभागेन तेन दशाधिकवर्षाणि यावत् ब्रिटिशकारागृहे जीवनं यापितम् । प्रणबस्य माता राजलक्ष्मी मुखर्जि । तस्य अग्रजा अन्नपूर्णा मुखर्जि ।
प्रणबः सुरि (बिर्भम्) नगरस्थे सूरिविद्यासागरमहाविद्यालये अध्ययनम् अकरोत् । अयं महाविद्यालयः कल्कत्तविश्वविद्यालयव्याप्तौ विद्यते । सः इतिहासं, राजनैतिकविज्ञानं च अधीत्य कलापदवीं प्राप्तवान् । कलकत्ताविश्वविद्यालयतः न्यायशास्त्रे अपि पदवीं प्राप्तवान् । २०११ तमे वर्षे वोल्वर्हाम्प्टन्-विश्वविद्यालः गौरवडाक्टोरेट्पदविप्रदानपूर्वकं तस्य सम्माननम् अकरोत् । २०१२ तमस्य वर्षस्य मार्चमासे अस्सम्विश्वविद्यालयः गौरव-डिलिट्पदव्या तस्य सम्माननम् अकरोत् ।
 
 
प्रणब्मुखर्जी भारतस्य त्रयोदशम: राष्ट्रपति: अस्ति। स: षष्टिवर्षेभ्य: राजकीयक्षेत्रे कार्यम् कुर्वन् अस्ति। स: अखिलभारतकाङ्रस्पक्षस्य ज्येष्ठतम: नेता अस्ति। भारतसर्वकारस्य बहुषु विभागेशु मन्त्री पदवीम् अलन्कृतवान् अस्ति। अपि च बहुशु अवसरेषु काङ्रस्पक्षस्य समस्यापरिहारक: अस्ति:। १९६९ तमे वर्षे प्रधानमन्त्रि-इन्द्रागान्धि वर्याया: काले प्रणब्मुखर्जी काङ्रस्पक्षस्य प्रतिनिधित्वेन राज्यसभायाः निर्वाचने विजयम् प्राप्तवान्। तदनन्तरकाले मुखर्जी इन्द्रायाः विश्वासयुक्त पात्रेशु अन्यतम: अभवत्। १९७३ तमे वर्षे मन्त्रिसभायाम् मन्त्रीपदवीम् अपि प्राप्तवान्। बहुशु विभागेशु मन्त्रि: अपि भूत्वा प्रथमवारम् निधिमन्त्रित्वेन १९८२-८४ पर्यन्तम् आसीत्। मुखर्जी राज्यसभाया: नेत्रुत्वम् अपि १९८० त: १९८५ पर्यन्तम् वोढवान् आसीत्।
राजीवस्य काले प्राधान्यता न्यूनम् जातम्। इन्द्रायाः मरणानन्तरम् अनुभवहीनस्य राजीवस्य अध: कार्यम् कर्तुम् अनुत्सुख: आसीत् प्रणाभ:। १९८४ तमेषु वर्षेषु कामपि अधिकारयुक्तपदवीमपि न प्राप्तवान्।अत: स: स्वयम् “राष्ट्रीयसमाज्वादि-काङ्ग्रस्” नाम नूतनम् एकम् पक्षम् आरब्धवान् । १९८९ तमे वर्षे पुन: राजीवेन साकम् वार्तालापम् कृत्वा अक्खिलभारत-काङ्ग्रस् पक्षेण सहैव राष्ट्रीयसमाज्वादि कङ्ग्रस् पक्षमपि योजितवान्। यदा पी.वी. नरसिम्हराव: प्रधानमन्त्रि: अभवत् तदा मुखर्जे: राजकीयदशाया: पुनरुत्थानम् अभवत्। सः १९९१ तमे वर्षे प्रणबाय भारतस्य योजना मन्डल्याः नेतृत्वम् कल्पितवान्। अनन्तरकालेषु प्रणब: काङ्रस्पक्षस्य प्रधानसदस्यः भूत्वा सोनियागान्धि वर्यायै(राजीवस्य पत्नी) राजकीयप्रवेशस्य कारणकर्तृषु अन्यतम: अपि आसीत् १९९० तमेषु वर्षेषु। काङ्ग्रस्पक्ष: यु.पी.ए सम्योजनेन शासनाधिकारम् २००४ तमे वर्षे प्राप्तवन्त:।तस्मिन्समये प्रणब: य: तावत् पर्यन्तम् सर्वजन नेता नासीत् स: लोकसभा निर्वाचने विजयम् प्राप्तवान्। तदारभ्य २०१२ तमे वर्षे तस्य पदवी त्यागपर्यन्तम् मन्मोहनस्य शासने प्रधानमन्त्रे: अनन्तरम् स्थानम् प्रणबस्य एव आसीत्। स: बह्व्य: पदव्य; वोढवान् अस्ति- रक्षणमन्त्रि: (२००४-०६), बाह्यसम्बन्ध मन्त्रि:(२००६-२००९), निधिमन्त्रि:(२००९-२०१२)। एतत् विहाय लोकसभायाः प्रतिनिधित्वमपि तेन वोढम्। तदनन्तरम् २०१२ तमे वर्षे यु.पी.ए.पक्षत: एव भारतस्य राष्ट्रपतित्वम् प्राप्तुम् आवेदितवान्।मुखर्जी सरलतया एव पी.ए .सङ्मा वर्येणसह राष्ट्रपतिभवन प्राप्ति स्पर्धायाम्७० % मतानि प्राप्य विजयम् प्राप्तवान्।
==औद्योगिकस्थिति:==
मुखर्जी तस्यौद्यगम् कल्कत्ता नगरस्य पत्राचारविभागे(पोस्टल् ऽ टेलिग्राफ़् ) उप-गणक प्रधिनिधि(डेपुटीअकोन्टन्ट् जेनेरल्) कार्यालये उच्च-विभाग-कार्यदर्शी(अप्पेर् डीविशन् क्लेर्क्) रूपेण आरब्धवान्। १९६३ तमे वर्षे विद्यानगर महविद्यालये राजकीयवैज्ञानम् अध्यापयितुम् आरब्धवान्। अपि च सः “ देशट् दक्”(मातृभूमेः आह्वानम्”) इत्यस्याम् पत्रिकायाम् पत्रिकाकारः अपि आसीत् राजकीयक्षेत्रे प्रवेशात् पूर्वम्।
==लेखा:==
मुखर्जी बहूनाम् पुस्तकानाम् अपि लेखक: अस्ति। Midterm poll ,Beyond survivel, Emerging dimensions of Indian economy, Off the track, Saga of struggle and sacrifice challenge before the nation इत्यादीनि तेन लिखितानि पुस्तकानि।
==राजकीयक्ष्त्रे कार्यम्==
मुखर्जी अखिलभारतकाङ्ग्रस्पक्षस्य राजकीये १९६९ तमे वर्षे प्रवेशितवान्। सः मिट्नपूर् नगरे कृष्णमेनोन् नाम एकस्य प्रमुखस्यकृते निर्वाचनसमये प्रचारम् सम्यक् तया निर्वहणम् कृतवान्। तत्र विजयम् अपि प्राप्तवान्।तस्मिन् समये भारतस्य प्रधानमन्त्रित्वेन,काङ्ग्रस्पक्षस्य नेतृत्वेनापि श्रीमति इन्द्रा गान्धि: आसीत्। सा प्रणबस्य चातुर्यम् अवगत्य तम् काङ्ग्रस्पक्षे योजितवती। इन्द्रा राज्यसभायाम् (उच्च सभा) काङ्ग्रस्पक्षत: एकम् स्थानम् १९६९ तमे वर्षे जूलै मासे प्रणबाय दत्तवती। अनन्तरकालेशु मुखर्जी १९७५,१९८१,१९९३,१९९९ वर्षेषु निर्वचनेषु विजयम् प्राप्तवान्।
प्रणब: १९७८ तमे वर्षे जनुवरि मासे काङ्ग्रस्कार्यकर्तृगणस्य सदस्य: अभवत्। समान वर्षे एव काङ्ग्रस्पक्षस्य मध्यराज्यसभा गणस्यापि सदस्य: अपि अभवत्। मुखर्जी अ.भा.काङ्ग्रस्पक्षस्य ,अ.भा. काङ्ग्रस् मण्डल्या: कोशाधिकारि अपि आसीत् १९७८ तमे वर्षे।
मुखर्जी अ.भ.काङ्ग्रस् मण्डल्या: प्रतिनिधिसभायाः देशीय निर्वाचन कार्यकर्तृगणस्य सदस्य: आसीत् १९८४,१९९१,१९९६,अपि च १९९८ तमेषु वर्षेषु । १९९९ त: २०१२ पर्यन्तम् काङ्ग्रस्पक्षस्य मध्यनिर्वाचनमण्डल्या: सम्योजकरूपेणापि नियुक्त: आसीत्। स: काङ्ग्रस्पक्षस्य मध्यनिर्वाचनमण्डल्या: सदस्यः अभवत् दिसम्बर् १२,२००१ दिनाङ्के।
सोनियागान्धि वर्यायायः राजकीयक्षेत्रप्रवेशानन्तरम् बहुषु कठिनावसरेषु सहायम् कृतवान्। यथा तस्या: श्वशुरो: कृते मार्गदर्शनम् कृतवान् तथैव एतस्यैअपि कृतवान्। यदा प्रधानमन्त्रि मन्मोहन्सिम्हस्य हृदये शस्त्रक्रिया अभवत् तदा प्रमुख पात्रताम् स्वीकृत्य पूर्व-लोकसभा निर्वाचने कार्यम् कृतवान् २००८-०९ तमे वर्षे। प्रणब: २०११ तमे वर्षे तस्य वर्षस्य श्रेष्ठः निर्वाहक: इति पुरस्कारम् अपि प्राप्तवान्। प्रधानमन्त्रि मन्मोहन्सिम्ह: तस्य कार्य विषये बहु श्लाघितवान् अस्ति।
==उत्कोचस्वीकरणारोपणम्==
जूलै मासे २५ दिनाङ्के यदा मुखर्जी राष्ट्रपति पदवी स्वीकरणार्थम् सत्यप्रतिज्ञाम् कुर्वन्नासीत् तदा अन्नाहसारे गणस्य सदस्या: तस्योपरि उत्कोचविषयक प्रमाणानि सन्ति इति तम् वयम् प्रकाशयामः इत्यपि घोषितवन्त:। अस्माकम् भारतदेशे उत्कोचस्वीकरणारोपयुक्त प्रधानमन्त्रि: पूर्वमेवास्ति। अधुना राश्ट्रपति: अपि। किन्तू हसारे गणस्य सदस्या: अर्विन्द् केज्रिवाल् वर्य: इतोपि प्रमाणानि न प्रकाशितवान्।
 
==सर्वकारकार्यालया:==
==रक्षणमन्त्रि:==
२००४तमे वर्षे यदा शासनाधिकारम् प्राप्तवन्त: सोनियागान्धि तम् रक्षणमन्त्रित्वेन नियुक्तवती। तस्याम् पदव्याम् २००६ पर्यन्तम् आसीत्। तस्मिन् काले अमेरिकदेशीनसह सहकारित्वेन कार्यम् कृतवान्।प्रणबः २००५ तमे वर्षे जून् मासे भारत-अमेरिकयो: दश वर्षात्मक सम्रक्षण विशयक पत्रे हस्ताङ्गनम् कृतवान्।
वैदेशिकमन्त्रि:-
वदेशिकमन्त्रित्वेन अमेरिकजनाधिपति ज्योर्जे.व्.बुश् महोदयेन साकम् वार्तालापम् कृतवान् अस्ति।
==बाह्यसम्बन्ध मन्त्रि:==
मुखर्जी भारतस्य बाह्यमन्त्रित्वेन १९९५ तमे वर्षे नियुक्त:। १९९६ वर्ष पर्यन्तम् तस्याम् पदव्याम् आसीत्।स:२००६ तमे वर्षे पुनरपि ताम् पदवीम् प्राप्तवान्।तस्मिन् काले अमेरिक-भारत सिविल् न्यूक्लियर् अग्रिमेन्ट् हस्ताङ्गनाय तेन बहु कार्यम् कृतम्।मुखर्जी तदर्थम् अमेरिक सर्वकारेण सह ,अणु वितरणगणेण सह(न्युउक्लियर् सप्लैयर्स् ग्रूप्) सह कार्यम् कृतवान्।२००८ तमे वर्षे मुम्बै आक्रमणानन्तरम् मुखर्जी पकिस्थान् विरुद्ध मनोभावम् लोकदेशेषु आनेतुम् तस्मिन् विषये प्रचारम् कुर्वन्नस्ति। सः तदनन्तरम् भारतस्य निधिमन्त्रि पदवी स्वीकरार्तम् एताम् पदवीम् परित्यक्तवान्।
==निधिमन्त्रि:==
प्रणब् मुखर्जी इन्द्रागान्धिवर्यायाः काले प्रथमवारम् वारम् १९८२ तमे वर्षे आसीत्।सः १९८२-८३ तमे वर्षे प्रथम आय-व्यय-गणना पत्रम् समर्पितवान्।तेन पत्रेण भारतस्य निधि वर्धनमपि अभवत्।ततः मुखर्जी सर्वेषाम् विशेषश्रद्धाम् प्राप्तवान्।मुखर्जी १९८२ तमे वर्षे “ रिसर्व् बेङ्क् आफ़् इन्डिया” सम्स्थाया: अध्यक्ष रूपेण मन्मोहन् सिम्हम् नियुक्तवान्। मुखर्जी अम्बानि-वडिया विषये दोषारोपम् प्राप्तवान्।
१९८४ तमे वर्षे राजीव्गान्धिवर्येण निधिमन्त्रि पदवी त: निस्कासितः। राजीवः भारतस्य शासनम् कर्तुम् स्वेच्छानुसारम् गणम् निर्मातुम् इष्टवान्। मुखर्जी तस्य वर्षस्य श्रेष्ठ निधिमन्त्रित्वेन यूरोमणि पत्रिकया उद्घोषितः चेदपि राजीवः तम् निष्कासितवान्।
मुखर्जी नरसिम्हराव् वर्यस्य काले पुनरपि निधिमन्त्रि: अभवत्।सः नरसिम्हराव् वर्य: तम् पुनः भारतस्य योजनामडल्याः उपाध्यक्ष रूपेण नियुक्तवान्। तत् महत्वपूर्णम् प्रधानमन्त्रेः अनन्तर स्थानमेव। तस्मिन्नेवकाले (१९९१-१९९६) मन्मोहन्सिम्ह: अपि निधिमन्त्रिः आसीत्। तेन “ लैसन्स् राज् पद्धतिम्” समापयितुम् भारतस्य अर्थक्षेत्रम् पुनरुद्धर्तुम् पुनर्निर्माण कार्याणि बहूनि कृतानि।
२००९ तमे वर्षे मुखर्जी पुनः भारतस्य निधिमन्त्रित्वेन नियुक्तः। सः २००९,२०१०,२०११ वर्षेषु भारतस्यवार्षिक आय-व्यय-पत्रम् समर्पितवान्। मुखर्जी बहुविध आयशुल्कम् योजितवान्।
मुखर्जी “ जवहर्लाल्नेह्रुदेशीय पुनरुद्धारक सम्स्था “ सदृश सामाजिक सम्स्तेभ्यः अपि आय-व्यय पत्रे निधिम् विभजितवान्। तस्य पत्रेषु सः जनानाम् आरोग्यस्य ,शिक्षणस्य प्राधान्यम् दत्तवान् । २०१० तमे वर्षे “ एसियायाम् श्रेष्ठ: निधिमन्त्रि: “ इति एमेर्जिङ् मार्केट् सम्स्था मुखर्जीम् पुरस्कृतवती।
==राष्ट्रपतिपदवी==
प्रणब्मुखर्जी यु.पि.ए.सर्वकारस्य पक्षतः बह्वीनाम् समस्यानाम् मध्ये जून् १५ ,२०१२ दिनाङ्के आवेदितवान्। निर्वाचनम् जूलै १९,२०१२ दिनङ्के इति निश्चितम् आसीत्। निर्वाचनस्य फलम् तु जूलै २२,२०१२ दिनाङ्के प्रकशितम् भवति इत्यासीत्। ८१ जना: आवेदनम् कृतवन्त: । निर्वाचनमन्डली पि.ए.सङ्माम् , मुखर्जीम् विहाय अन्यान् सर्वान् निष्कासितवती। मुखर्जी जून् २८ ,२०१२ दिनाङ्के तस्य निधिमन्त्रि पदवीम् परित्यक्तवान्।
राष्ट्रपति निर्वाचने ७,१३,७६३ मतानि प्राप्तवान्। तस्य विरुद्धपक्षस्य पि.ए.सङ्मा तु ३,१५,९८७ मतानि एव प्राप्तवान्। निर्वाचने विजयप्राप्त्यनन्तरम् औपचारिकतया यदा तस्य विजयः उस्द्घोषित: तदा स: तस्य वासस्थानस्य पुरत: सः भाषणम् कृतवान् यथा-
ये ममकृते प्रतीक्षमाणाः सन्ति तेभ्य: मम सन्तोषम् प्रकटयामि। एतावता ७ लक्षम् मतानि प्राप्तानि सन्ति । इतोपि एकप्रान्तस्य फलम् ज्ञातव्यम् अस्ति। माम् एतस्यै भारतस्य उन्नतपदव्यै ये चितवन्त: तेभ्य: मम हृदयपूर्ण धन्यवादा: । अहम् एतस्य देशस्य जनेभ्यः अधिकम् प्राप्तवान्। एतस्य देशस्य सम्रक्षणार्थम् ,जनानाम् विश्वासता प्राप्त्य़र्थम् कार्यम् करोमि इति।
मुखर्जी जूलै २५,२०१२ दिनाङ्के भारतस्य प्रधान न्यादीशेन पदवीप्रमाणम् प्राप्तवान्।सः एव भारतस्य प्रथम बेङ्गालि राष्ट्रपतित्वम् प्राप्त: अस्ति। सत्यप्रमाणस्वीकारननतरम् “ आतङ्गवात: एव चतुर्थम् लोकयुद्धम् अस्ति इति तस्य भाषणे घोषितवान् अस्ति।
 
 
 
[[वर्गः:भारतस्य राष्ट्रपतिः]]
"https://sa.wikipedia.org/wiki/प्रणब_मुखर्जि" इत्यस्माद् प्रतिप्राप्तम्