"विरुदुनगरमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) SumanaKoundinya इति प्रयोक्त्रा विरुधनगरमण्डलम् इत्येतत् विरुदुनगरमण्डलम् इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
विरुदुनगरमण्डलं (तमिऴ्:விருதுநகர்மாவட்டம் आङ्ग्लम्: Virudhunagar District) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम्। अस्य केन्द्रस्थानं विरुदुनगरपत्तनम्। एतन्मण्डलं प्राक् कर्मवीरकामराजमण्डलम् इतिज्ञातम् आसीत् । इदं मण्डलं तिरुनेल्वेली - मधुरैमण्डलाभ्यां भागान्स्वीकृत्य निर्मितम्।
 
==भौगोलिकम्==
विरुदुनगरमण्डलस्य विस्तारः३४४५.७३चतुरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरभागे [[शिवगङ्गामण्डलम्|शिवगङ्गामधुरैमण्डलेस्तः]], आग्नेयदिशि [[तिरुनेल्वेलीमण्डलम्]] अस्ति, पश्चिमे [[केरलराज्यम्]], वायव्ये [[तेनीमण्डलम्|तेनीमण्डलं]] च अस्ति।
 
==जनसंख्या==
२०११वर्षस्य जनगणनानुगुणम् अस्य मण्डलस्य जनसंख्या १,९४३,३०९। भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य २४२ तमंस्थानम्। अस्मिन्मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ४५४ (११८०प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेःप्रमाणं १०.९६% आसीत्। विरुदुनगरे पुं-स्त्री अनुपातः १०००:१००९ अस्ति, साक्षरताप्रमाणंच ८०.७५% ।
 
==उपमण्डलानि==
अस्मिन्मण्डले अष्ट उपमण्डलानि सन्ति
:१. अरुप्पुकोट्टै
:२. करियपट्टिः
:३. राजपाळैयम्
:४. सातूरुः
:५. शिवकाशी
:६. श्रीविल्लिपुत्तूरुः
:७. तिरुच्चूलिः
:८. विरुदुनगरम्
 
==कृषिः वाणिज्यं च==
जनसंख्यायाः बहुभागः कृषिकार्ये उद्यमेषु च रताः । विरुदुनगरे तैलोद्यमः कार्पासोद्यमः च अभिवृद्धः अस्ति । विरुदुनगरात् २०किलोमीटर् दूरे विद्यमानं शिवकाशीपत्तनं स्फोटकनिर्माणेन, मुद्रणालयैः च प्रसिद्धम् । अरुप्पुकोट्टै तन्तुवायैः प्रसिद्धम् अस्ति ।
 
==वीक्षणीयस्थलानि==
===श्रीविल्लिपुत्तूरुः===
इदं पत्तनं मधुरैतः ७४ किलोमीटर् दूरे अस्ति । श्रीवैष्णवानां पवित्रेषु १०८ दिव्यदेशेषु इदम् अपि अन्यतमम् । इदं श्रीवैष्णवसम्प्रदायस्य प्रसिद्धसतोः द्वयोः जन्मस्थानम् – पेरियाऴ्वार् तथा आण्डाळ् अत्र जातौ । अस्य पत्तनस्य प्रमुखः देवालयः आण्डाळ् देवालयः । आराध्यदेवः वटपत्रशायी । अस्य देवालयस्य ११-स्तरीयं गोपुरं १९२ पादोन्नतम् अस्ति । तमिऴ्नाडुसर्वकारस्य अधिकृतमुद्रायाम् इदम् एव गोपुरं चिह्नितम् अस्ति ।
 
===शेन्बागतोप्पु चिक्रोडसंरक्षणकेन्द्रम्===
श्रीविल्लिपुत्तूरुतः ८ किलोमीटर् दूरे विद्यमानम् इदम् अरण्यम् । इदं पश्चिमघट्टानां भागः । अत्र ‘ग्रिज़ल्ड् स्क्विरल्’ (Grizzled Squirrel) इत्याख्यस्य चिक्रोडप्रभेदस्य संरक्षणकेन्द्रम् अस्ति ।
"https://sa.wikipedia.org/wiki/विरुदुनगरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्