"तमिळनाडुराज्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १६:
पल्लवानाम् अभ्युदयः चतुर्थशतकात् अष्टमशतकपर्यन्तम् महेन्द्रवर्मणः , तस्य पुत्रस्य मामल्लनरसिंहवर्मणः , तस्य पुत्रस्य बोधिधर्मस्य च काले द्रष्टुं शक्नुमः । [[पल्लवा:]] दक्षिणभारते काञ्चीपुरनगरं राजधानीं कृत्वा विस्तृतप्रदेशस्य शासनं कृतवन्तः । पल्लवानां कालः द्रविडभवननिर्माणकलायाः श्रेष्ठः कालः आसीत् । चेन्नैनगरस्थ [[महाबलिपुरम्|महाबलिपुरे]] नरसिंहवर्मणा निर्मितं मन्दिरम् अस्ति । तत् युनेस्को स्थलम् (युनेस्को वर्ल्ड् हेरिटेज् सैट्) अस्ति ।
दशमशतके चोळैः पल्लवाः पराजिता: । त्रयोदशशतके पाण्ड्याः चोळान् जितवन्तः । पाण्ड्यानां राजधानी आसीत् [[मधुरै]] । तत् दक्षिणभारते समुद्रतटात् दूरे आसीत् । तथापि तेषां वाणिज्यसम्पर्क: विशालः आसीत् । तेषां वाणिज्यसम्पर्क: समुद्रतटस्थ साम्राजा श्रीविजयेन सह , रोमसाम्राज्येन सह च आसीत् । त्रयोदशशतके मार्कोपोलेन उल्लिखितं यत् पाण्ड्याः बहु धनिका: आसन् , पाण्ड्यसाम्राज्यं महत् धनिकसाम्राज्यम् आसीत् इति । मधुरै नगरस्थं मीनाक्षीमन्दिरं , तिरुनेल्वेलीनगरस्थं नेल्लैयप्पर् मन्दिरं च पाण्ड्यानां भवननिर्माणकलाया: उदाहरणम् । पाण्ड्यानां वाणिज्यसाहित्यक्षेत्रयोः नैपुण्यम् आसीत् । ते मौक्तिकस्य वाणिज्यं भारत- श्रीलङ्घयोः मध्ये उपस्थापितवन्तः। तानि मौक्तिकानि श्रेष्ठानि सुप्रसिद्धानि च आसन् तस्मिन् काले ।
==[[चोळवंशः|चोळसाम्राज्यम् ]]==
नवमशतकानन्तरं द्वितीयः चोळः आसीत् चक्रवर्तिः आदित्यः । अस्य पुत्रः परान्तकचोळः । परान्तकचोळ: [[आन्ध्रप्रदेशः|आन्ध्रप्रदेशस्य]] कांश्चन भागान् , [[कर्णाटकम्|कर्णाटकस्य]] भागान् च जित्वा स्वसाम्राज्यस्य विस्तारं कृतवान् आसीत् । राजराजचोळस्य , राजेन्द्र्चोळस्य च काले चोळवंशीया: दक्षिण-एशियायाम् उल्लेखार्हां शक्तिं प्राप्तवन्त: । चोळचक्रवर्ति: अतिदूरस्थबङ्गालपर्यन्तं स्वसाम्राज्यस्य विस्तारं कृतवन्तः आसन् । ३,६००,०००वर्गकिलोमीटर् परिमितस्थलानि तस्याधीने आसन् । [[राजराजचोळः]] दक्षिणभारतद्वीपगर्भं ,श्रीलङ्कां च जितवान् । ततोऽपि अधिकः प्रदेशः राजेन्द्रचोळस्यवशे आसीत् । [[बर्मा]](अधुना मियान्मर्) तः [[वियट्नाम्|वियट्नां]] ,दक्षिणपूर्व-एशियायाम् [[अण्डमान् निकोबार् द्वीपाः]] , [[लक्षद्वीप:]] , [[सुमात्रा]],माल्या,पेगु द्वीपा: च तस्याधीने आसन् । स: बङ्गागालदेशस्य महाराजस्य महिपालस्य पराजयम् कारितवान् । तस्य स्मारकरूपेण”गङ्गैकोन्डचोळपुरम्”नामस्मारकरूपेण [[[गङ्गैकोण्डचोळपुरम्]] नाम नूतनां राजधानीं सृष्टवान् । तस्याः समीपे मेलकडम्बूर् इत्यस्मिन् प्रदेशे मन्दिरमपि निर्मितवान् । तदेव अधुना " कर्कोविल् " इत्युच्यते । चोळानाम् मन्दिरनिर्माणकलायाः समुदाहरणम् अस्ति तञ्जावूर् [[बृहदीश्वरमन्दिरम्]] । तत् युनेस्को संरक्षितस्थलेषु अन्यतमम् । एतस्य गोपुरस्य छाया भूमौ न पतति । गोपुरस्य शिखरे विद्यमाना शिला अपि अखण्डा अस्ति । [[तिरुवण्णामलै]] नगरस्थम् अण्णामलैयार् मन्दिरं , चिदम्बरं नगरस्थं नटराजमन्दिरं च चोळनिर्मितेषु मन्दिरेषु सुप्रसिद्धे । राजराजचोळस्य, राजेन्द्रचोळस्य च कालः तमिळ्नाडुराज्यस्य सुवर्णकालः आसीत् । तयोः काले चोळसाम्राज्यं दक्षिणभारते शक्तियुक्तम् आसीत् । चोळानां क्षयकाल: १२३० तः १२८० पर्यन्तम् आसीत् । तदनन्तरं पुन: पाण्ड्यानाम् अभ्युदय: अभवत् मारवर्मा सुन्दरपाण्ड्यकाले, तस्यानुजः जातवर्मा पाण्ड्यकाले च । किन्तु तदा पाण्ड्यानां शासनम् अल्पकालं यावत् एव आसीत् । तदनन्तरम् १३१६ तमे वर्षे अल्लाविद्दीन् खिल्जेः सेना तस्य सेनधिपतेः मालिक् काफरस्य नेतृत्वे आक्रान्तवन्तः । मुसल्मान् जनानां शासनम् अपि अल्पकालिकम् एव आसीत्
 
चोळानाम् मन्दिरनिर्माणकलायाः समुदाहरणम् अस्ति तञ्जावूर् “बृहदीश्वर मन्दिरम्” । तत् युनेस्को संरक्षितस्थलेषु अन्यतमम् । एतस्य गोपुरस्य छाया भूमौ न पतति । गोपुरस्य शिखरे विद्यमाना शिला अपि अखण्डा अस्ति । [[तिरुवण्णामलै]] नगरस्थम् अण्णामलैयार् मन्दिरं , चिदम्बरं नगरस्थं नटराजमन्दिरं च चोळनिर्मितेषु मन्दिरेषु सुप्रसिद्धे ।
राजराजचोळस्य, राजेन्द्रचोळस्य च कालः तमिळ्नाडुराज्यस्य सुवर्णकालः आसीत् । तयोः काले चोळसाम्राज्यं दक्षिणभारते शक्तियुक्तम् आसीत् । चोळानां क्षयकाल: १२३० तः १२८० पर्यन्तम् आसीत् । तदनन्तरं पुन: पाण्ड्यानाम् अभ्युदय: अभवत् मारवर्मा सुन्दरपाण्ड्यकाले, तस्यानुजः जातवर्मा पाण्ड्यकाले च । किन्तु तदा पाण्ड्यानां शासनम् अल्पकालं यावत् एव आसीत् । तदनन्तरम् १३१६ तमे वर्षे अल्लाविद्दीन् खिल्जेः सेना तस्य सेनधिपतेः मालिक् काफरस्य नेतृत्वे आक्रान्तवन्तः । मुसल्मान् जनानां शासनम् अपि अल्पकालिकम् एव आसीत् ।
==विजयनगरीयाणाम्,नायकानां च कालः(१३३६-१६४६)==
यवनानाम् आक्रमणेन हिन्दुविजयनगरसाम्राज्यस्य संवर्धने निरोधः जात: । तस्मात् समग्रतमिळ्प्रदेशस्य ह्रासकालः आसीत् । १३७० तमवर्षतः यदा [[ताळीकोटे]]युद्धे पराजयः अभवत् तावत् पर्यन्तं तन्नाम १५६५ तमवर्षपर्यन्तं प्रायः शतकद्वयं यावत् नष्टदिशि एव आसीत् । युद्धे पराजयानन्तरं बहूनां राज्ञां नियन्त्रणं विजयनगरीयाणां हस्तात् गतम् । मधुरै नायकाः , तञ्जावूरनायकाः च विजयनगरसाम्राज्यस्य सम्पर्कं निवारितवन्तः । तदनन्तरम् तौ द्वौ अपि आत्मानं स्वतन्त्रौ इति उद्घोषितवन्तौ । नायकाः पूर्वम् विजयनगरीयैः एव निर्वहणार्थं विभिन्नप्रदेशेषु नियुक्ताः आसन् । परन्तु विजयनगरीयाणां पराजयकाले ते स्वातन्त्र्यम् उद्घुष्टवन्तः । तमिळ्नाडुराज्ये १७ शतके मधुरैनायकाः ,तञ्जावूरुनायकाः च प्रधानाः आसन् । ते मधुरैमीनाक्षीमन्दिरसदृशपौराणिकमन्दिराणां पुनर्निर्माणं कृतवन्तः ।
"https://sa.wikipedia.org/wiki/तमिळनाडुराज्यम्" इत्यस्माद् प्रतिप्राप्तम्