"बृहदीश्वरदेवालयः" इत्यस्य संस्करणे भेदः

thumb|200px|left|बृहदीश्वरदेवालयः तञ्जावूरु... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १:
[[Image:Brihadeeswara.jpg|thumb|200px|left|बृहदीश्वरदेवालयः]]
तञ्जावूरुपत्तने विद्यमानः परमेश्वरस्य अयं देवालयः चोळराजेन प्रथमराजराजेन निर्मितः । अयं देवालयः चोळानां शिल्पकलाशैल्याः अत्युत्तमम् उदाहरणम् । युनेस्कोद्वारा अयं देवालयः विश्वपरम्परास्मारकत्वेन अभिज्ञातः । अस्य देवालयस्य गोपुरं ६४.८ मीटर् उन्नतम् अस्ति । गर्भगृहे ४ मीटर् उन्नतं महालिङ्गम् अस्ति । ५.९४ मीटर् दीर्घा नन्दिनः एकशिलामूर्तिः अपि अत्र विराजते । इयं मूर्तिः भारतस्य बृहत्तमेषु नन्दिविग्रहेषु द्वितीया । देवालयस्य अन्तर्भित्तिषु चोळकालस्य चित्राणि चित्रितानि सन्ति ।
 
[[वर्गः:भारतस्य प्रेक्षणीयस्थानानि]]
"https://sa.wikipedia.org/wiki/बृहदीश्वरदेवालयः" इत्यस्माद् प्रतिप्राप्तम्