"झारखण्डराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७३:
'''झारखण्ड: '''(हिन्दी - झारखण्ड; बेङ्गाली - ঝাড়খন্ড; उर्दु - جھاڑکھنڈ) भारतस्‍य मध्‍यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं २००० तमस्य वर्षस्य नवेम्बर्मासस्य १५ दिनाङ्के उत्कीर्णम् अस्ति । अस्य राज्यस्य उत्तरदिशि बिहारराज्यं, पश्चिमदिशि उत्तरप्रदेशः छत्तिसगढः च, दक्षिणदिशि ओरिस्सराज्यं, पूर्वदिशि पश्चिमवङ्गराज्यं च वर्तते । अस्य राज्यस्य विस्तारः ७९, ७१४ च कि मी मितः । औद्योगिकनगरं [[राञ्ची]] अस्य राजधानी । जम्शेड्पुरम् अस्य राज्यस्य बृहत्तमम् औद्योगिकं नगरम् । अन्यानि प्रमुखानि औद्योगिकनगराणि धन्बाद्, बोकारो, हझारिभाग् च ।
झारखण्डः नाम अरण्यानां प्रदेशः इत्यर्थः ।
२००० तमवर्षस्य नवम्बरमासस्य २५तमदिनाङ्के झार्खण्डराज्यस्य स्थापना अभवत् । अत्र अधिकतया आदिवासिजनाः निवसन्ति । राज्ये पर्वताः प्रपाताः जलपाताः, नद्यः, वनानि च अतीवाकर्षकाणि सन्ति । एतत् राज्यं Pure Pristine , Pictureque इति उक्तवन्तः सन्ति।
बेट्ला, हजारीबाग्, पलामु राष्ट्रियोद्यानानि सन्ति । नेतर् हाट् पर्वतधाम अतीवं सुन्दरं प्रेक्षणीयम् स्थानमस्ति । एतत् स्थानं छोटानागपूरस्य राज्ञी इति निर्दिशन्ति । टोप चाञ्ची , दुमाक् इत्यादीनि अत्रत्यविहारस्थानानि सन्ति ।
==झारखण्डराज्यस्य प्रेक्षणीयस्थानानि==
===[[राञ्ची]]===
[[राञ्ची]] झारखण्डराज्यस्य राजधानी अस्ति । एतत् उन्नते प्रदेशे अस्ति इत्यतः गिरिधाम इव अस्ति । राञ्चीनगरस्य पर्वतस्य अधोभागे विशालं सरोवरम् अस्ति । राञ्चीनगरे जैनमन्दिरं, हुण्ड्रुजलपातः (२३ कि.मी), ट्यागोर् हिल् राञ्चीजलबन्धः इत्यादीनि दर्शनीयानि सन्ति ।
===[[जमशेडपुर]]===
अस्मिन् नगरे (हजारीबागतः ११८ कि.मी) अयसः उद्यमः टाटामहोदयेन स्थापितः अस्ति। एतत् नगरं भारतस्य पिट्सबर्गनाम्ना निर्दिश्यते।
राञ्चीप्रदेशे देवगढ् , रावणेश्वरशिवस्य मन्दिरं, राजरप्पदेवालयः, परासनाथपर्वते विद्यामानाः २४ तीर्थङ्कराणां देवालयाः, वैद्यनाथधाम, बोरामदेवालयः च दर्शनीयाः सन्ति । राञ्चीसमीपे जगन्नाथपुरीनामकं क्षेत्रम् अस्ति । पुरी इव अत्रापि रथयात्रा भवति ।
झारखण्डराज्यं प्रकृतिप्रियाणां साहसिकानां च अतीव प्रियं भवति । अत्र यात्रिकाणां शान्तिः सौन्दर्यम् आनन्दः च अवश्यं लभ्यते इति जनाः वदन्ति । राञ्ची नगरे वसति भोजनादिव्यवस्था कर्तु शक्यते । झारखण्डप्रवासोद्यमनिगमः प्रवासव्यवस्थां करोति ।
====वाहनमार्गः====
राक्साल्, [[पाटना]], [[गया]] इत्यादिनगरेभ्यः वाहनव्यवस्था अस्ति ।
 
 
==इतिहासः==
"https://sa.wikipedia.org/wiki/झारखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्