"पुणे" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding lv:Pune
No edit summary
पङ्क्तिः १:
'''पुणे''' [[भारत]]देशस्य महाराष्ट्रराज्ये किञ्चन बृहत् नगरम् अस्ति । पुणे नगरस्य पुरातनं नाम पुण्यपत्तनम् इति अस्ति।
पुणे (पुणे) (०२०)
{{stub}}
पुण्यपट्टनम् इति प्रसिद्धं [[पुणे]]नगरं [[शिवाजी]]महाराजस्य पितामहाय पारितोषिकरुपेणागतम् आसीत् । क्रिस्ताब्दे १५९९ तमे वर्षे एव एतस्य महत्वपूर्णं स्थानम् आसीत् । क्रिस्ताब्दे १७५० तः १८१७ पर्यन्त पेश्वेराजाना राजधानी अप्यासीत् । [[शिवाजी]] [[शिवनेरी]] ग्रामे जन्मलब्धवान् किन्तु [[पुणे]]नगरे एव विद्याभ्यासं कृतवान् । [[शिवाजी]]महाराजस्य प्रशासनप्रदेशः पुणेनगरसमीपे एव आसीत् ।
[[मुळा]][[मुठा]] नद्योः तीरे स्थितं पुणेनगरं [[नानाफड्णवीस]]महोदयस्य प्रशासनकाले भव्यम् उत्तमं सौलभ्ययुक्तं च अभवत् । जनाः जबतक नाना, तबतक पुणे” इति वदन्ति स्म । [[शनिवारवाडा]] एव पेश्वेराजानां राजधानीकेन्द्रम् आसीत् ।
पुणेनगरं बहुजनयुक्तं महाराष्ट्रराज्यस्य जनानां संस्कृतिदर्शकं च अस्ति । वातावरणम् अतीव सुन्दरम् आह्लादकरं चास्ति । पुणे नगरे स्थितः [[डेक्कन् महाविद्यालयः]] अतीव प्रसिद्धः प्राचीनसंस्कृतिप्रतिबिम्बकश्चास्ति । [[गणेशखिण्डी]] स्थले [[पुणेविश्वविद्यालयः]] अस्ति । [[शनिवारवाडा]] मध्ये एम्प्रेस् वाटिकानां भव्यता दर्शनीया अस्ति ।
[[आगाखान् प्यालेस्]] खडकीविभागेऽस्ति । [[महात्मा गान्धिः]] अत्रैव कारावासे स्थापितः आसीत् । यरवडासमीपे स्थितम् इदं भवनम् इदानीं [[महात्मा गान्धिः|महात्मा गान्धि]][[कस्तूरबा गान्धिः|कस्तूरबा गान्ध्योः]] स्मारकमस्ति ।
[[राजा केळकर म्यूसियम्]] (वस्तुसङ्ग्रहालयः) अतीव प्रसिद्धः प्राचीनजनानां कलाप्रज्ञां स्मारयति । श्री दिनकरकेळकरमहोदयस्य स्वकीयः वस्तुसङ्ग्रहालयः एषः। अयं दर्शनीयः सुव्यवस्थितः च अस्ति । अत्र सङ्गीतवाद्यानि पूजासामग्रयः जीवनोपयोगिवस्तूनि, क्रीडनकानि, तैलदीपाः, तालाः, पूगकर्तर्यः, सूक्ष्मचित्राणि च सन्ति ।
पुणेनगरे दक्षिणभागे पार्वतीपरमेश्वरदेवालयः अस्ति । एम्प्रेस् उद्यानवने मृगालयः गणेशदेवालयः पञ्चाळेश्वर देवालयाः दर्शनीयाः सन्ति । समीपे शिवाजीप्रतिमा अस्ति ।
पुणेतः नैत्रत्ये २५ कि.मी. दूरे [[सिंहगडदुर्गम्]] अस्ति । सागरतीरतः १२७० मीटर् उन्नतप्रदेशे स्थिते दुर्गे [[तानजी]]महोदयस्य (शिवाजीसेनापतेः) स्मारकम् अस्ति । पुणेनगरे एव श्री[[गोपालकृष्णगोखले]] श्री[[बालगङ्गाधरतिलकः]] इत्यादयः प्रसिध्दाः । श्रीतिलकमहोदयः गणेशोत्सवस्य सार्वजनिकरीत्या आचरणं प्रचलने आनीय राष्ट्रभक्तिं जागरितवान् । सिंहगडे स्थित्वा संशोधनं कृत्वा ( (Arctic home of Indo-Aryans पुस्तके ) आर्याणां मूलस्थानम् [[आर्क्टिक् प्रदेशः]] आसीदिति समर्थितवान् अस्ति ।
==वाहनमार्गः==
[[मुम्बयी]]तः १९२ कि.मी
==धूमशकटमार्गः==
[[मुम्बयी]]तः डेक्कनक्वीन् सिंहगड, प्रगति-एक्स्प्रेस् इत्यादीनि धूमशकटानि सन्ति । [[महाराष्ट्रम्|महाराष्ट्रराज्ये]] पुणे द्वितीयं महानगरम् अस्ति ।
 
 
[[वर्गः:नगराणि|पुणे]]
"https://sa.wikipedia.org/wiki/पुणे" इत्यस्माद् प्रतिप्राप्तम्