"एलिफेण्टागुहाः" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः ३२:
| url = http://whc.unesco.org/en/list/244
}}
'''एलिफेण्टागुहाः''' [[भारतम्|भारतस्य]] [[मुम्बयी]]नगरस्य समीपे एलिफेण्टा इति द्वीपे अस्ति । अस्य द्वीपस्य प्राचीनं नाम मराठीभाषया घारापुरि इति । पोर्चुगीस् जनाः एलिफेण्टा इति परिवर्तितवन्तः । क्रि.श. १९८७तमे वर्षे युनेस्कोसङ्घटनेन एतत् स्थानं विश्वपरम्पारास्थानम् इति उद्घुष्टम् । एलिफेण्टागुहासु विद्यमानाः शिलामूर्तीः पोर्चुगीस् जनाः विकारितवन्तः । ते क्रि.श. १७तमे शतके पोर्चुगीस् जनाः
एलिफेण्टागुहाः [[मुम्बयी]]सागर तीरे स्थितात् अपोलोनौकानिस्थानतः ११ कि.मी दूरे द्वीपे सन्ति । अत्र दर्शनीयाः गुहादेवालयाः मुम्बयीनगरमागतानां प्रमुखाकर्षणकेन्द्राणि सन्ति । प्रायशः अष्टचतुरस्रकिलोमीटर् विस्तारे प्रदेशे आरम्भे १३ पादमितदीर्घं शिलानिर्मितं गजं दृष्ट्वा पाश्चात्याः एतं द्वीपम् एलिफेण्टा इति उक्तवन्तः ।
एलिफेण्टागुहाः प्रायशः क्रिस्ताब्दस्य तृतीयशतकतः एकादशशतकपर्यन्तं राजमहाराजाना विहारस्थानम् आसीत् । सुन्दरवनैः पर्वतशिखरैः पूर्णं सुन्दरं स्थलमासीत् । घटपुरी इति अस्य नाम आसीत् । पोर्तुगीस् देशीयाः एतत् स्थानं एलिफेण्टा इति उक्तवन्तः।
|