"पञ्जाबराज्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०:
अस्मिन् नगरप्रदेशे निष्प्रयोकानि वस्तूनि सङ्गृह्य सुन्दरकलाकृतयः उद्याने निर्मिताः । नेकचन्दमहोदयः एतत् विस्मयकारिकार्यं कृतवान् NekChand’s Kingdom (नेकचन्दस्य साम्राज्यम्) इति नाम्ना जपि एतत् उद्यानं पसिद्धम् । [[भारतम्|भारते]] एव न विश्वेऽपि एतादृशोद्यानम् अन्यत्र कुत्रापि नास्ति । भग्नस्थालिकभिः, चीनीमृन्निर्मितभग्नपात्रैः खण्डितनालिकाभिः निर्मितम् । खण्डितकङ्कणैः व्यर्थविद्युत्तन्त्रिभिः च विविधविचित्रशिलाखण्डैः च सुन्दरकलाकृतयः अत्र रचिताः । सः एकाकी एव अद्भुत वाटिकामिमां निर्मितवान् । सा.श.१९५० तमे वर्षे नेकचन्दमहोदयः सामान्यः मार्गकार्यस्य निरीक्षकः आसीत् । अधिकम् अध्ययनमपि न कृतवान् आसीत् । नगरस्य त्याज्यवस्तूनि उपयुज्य किमपि कर्तु शक्यते इति नेकचन्दमहोदयः चिन्तितवान् । अष्टादशवर्षपर्यन्तं कार्यं कृत्वा शिलोद्यानम् (राक्गार्डन्) रचितवान् । सा.श.१९७६ तमे वर्षे एतत् कार्यं सम्पन्नम् । महानगरे त्याज्यानि वस्तूनि बहूनि भवन्ति । एषां बहिः नयनमपि दुःस्साध्यम् । भवननिर्माणभागाः अयसा निर्मितासनानि गृहोपयोगीवस्तूनि शिल्पखण्डाः कूप्यः इत्यादि एकस्योपरि अन्यं योजयित्वा अपूर्व वस्तूनि निर्मितवान् । अतः एतत् उद्यानं विश्वविख्यातम् अस्ति । अत्रोद्याने कृतकपर्वताः गुहाः तदुपरि गृहगोधिकाः इत्यादीनि शताधिकानि दर्शनीयानि चित्राणि वस्तूनि स्थानानि निर्मितानि । अस्य विस्तारः दश हेक्टर् अस्ति । विमानमार्गः - दिल्लीतः विमानसञ्चारस्य सम्पर्कः अस्ति । धूमशकटमार्गः – दिल्लीतः चण्डीगडपर्यन्तं २५४ कि.मी. दीर्घलोहमार्गः अस्ति । भूमार्गः – प्रति अर्धहोरासमये एकं वाहनं [[देहली]]तः प्रस्थास्यति । [[शिम्ला]],[[मनाली]], धर्मशाला इति नगरैरपि वाहनसम्पर्कः अस्ति । वासार्थम् अनेकधर्मशालाः उपाहारवसतिगृहाणि सन्ति ।
==अमृतसरस्य स्वर्णमन्दिरम्==
[[चित्रम्:Hamandir Sahib (Golden Temple).jpg|thumb|'''स्वर्णमन्दिरम्''']]
विश्वप्रसिध्दम् अमृतसरनगरं पञ्जाबराज्यस्य अपूर्वं स्थानमस्ति । एतत् पाकिस्तानदेशस्य सीमासमीपे (२८ कि.मी) अस्ति । [[भारतम्|भारतदेशे]] स्थितेषु श्रेष्ठनगरेषु अमृतसरनगरम् अन्यतमम् । एतन्ननगरं रायदासः इति कश्चित् श्रेष्ठः सा.श.१५७७ तमे वर्षे निर्मितवान् । नैकेवैदेशिकाक्रमणशीलाः आक्रान्ताः । तथापि पुनर्निर्मितमस्ति । इदानी अपूर्व सौन्दर्ययुक्त सरोवरमध्ये स्थित सिख् जनाना पवित्र यात्रा स्थल च अस्ति । नगरस्य प्राचीनभागे एतत् मन्दिरमस्ति । सर्वत्र अमृतशिलायाः पादचारणमार्गः निर्मितः अस्ति । हिन्दूजनानामपि ६८ क्षेत्र समानमिति प्रसिध्दिः अस्ति । देवालयस्य बहिर्भागे स्वर्ण लोहपत्रैः आवृतमस्ति । एतदर्थ ४००० किलोमितस्वर्णम् उपयुक्तमस्ति । एतत् कार्यं रणजित् सिहः इति कश्चित् भक्ताग्रेसरः कारितवान् । सूर्यकिरणैः अतीव प्रकाशमानं मन्दिरं मनोहरम् अस्ति । अस्य प्रतिबिम्बं परितः विद्यमाने सरसः जले स्पष्टं दृश्यते । देवालयस्य अन्तः [[सिखमतम्|सिख्खमतस्य]] पवित्रग्रन्थस्य गुरुग्रन्थसाहेत् पुस्तकस्याराधनं भवति । एषः ग्रन्थः सिख्खगुरुनानकस्य उपदेशयुक्तः अस्ति । सर्वधर्मीयाः अपि अत्र आगत्य गौरव प्रदास्यन्ति । अस्य पुस्तकस्य उत्सवेषु वैभवेन यात्रा भविष्यति । अत्र देवालयसमीपे सुन्दरोद्यानं रामगुरियास्तम्भाः वस्तुसङ्ग्रहालयः इत्यादीनि दर्शनीयानि स्थानानि सन्ति । यात्रिकाः एतत् [[सिख्खमतम्|सिख्खमतस्य]] वैभवम् अमृतसरनगरस्य महोन्नतं स्थानम् इति वदन्ति । अत्र अमृतसरनगरे अन्यत् स्वर्णमन्दिरं दुर्गीयानमन्दिरम् इति अस्ति । [[सिख्खमतम्|सिख्खमतीयानां]] स्वर्णमन्दिरमिव एतदपि सरोवरे अस्ति । यात्रिकाः अत्रापि सगौरवम् आगच्छन्ति । एतत् सा.श.१६ शतके निर्मितम् इति विश्वासः। अमृतसरनगरे लक्ष्मीनारायणमन्दिरं बाबातलगोपुरं, रायबागृद्योनं , रण्जित्सिंहराजगृहं, गोविन्दगहदुर्गः इत्यादयः सन्ति । अयं दुर्गः रणजितसिंह महोदयेन क्रि.श.१८०५ -१८०९ तमे वर्षेषु निर्मितः । विमानमार्गः – अत्र आगन्तुं [[देहली]]तः अमृतसर श्रीनगर मार्गे विमानसौकर्यम् अस्ति । धूमशकटमार्ग –[[देहली]]तः अमृतसरनगरपर्यन्तं ४४७ कि.मी. दूरस्य मर्गे धूमशकटयानस्य सम्पर्कः अस्ति । अमृतसरनगस्य सम्पर्कः येदानी लाहोरतः अपि अस्ति । भूमार्गः चण्डीगडः, लाहोरः लुधियाना, [[देहली]] इत्यादिभिः नगरैः वाहनसम्पर्कः अस्ति एव । वासार्थ स्वर्णमन्दिरस्य वसतिगृहेषु निश्शुल्कव्यवस्था अस्ति । अनेकानि उपाहारवसतिगृहाणि अमृतसरनगरे सन्ति । तरन्तराना पवित्रसरोवरः (२३ कि.मी), डेरबाबानानक् स्थल ३२ कि.मी) दूरे च सन्ति ।
 
==जलियन् वालाबाग् हत्याकाण्डस्थानम्==
[[चित्रम्:Martyrs well at Jallianwala Bagh.jpg|thumb]]
"https://sa.wikipedia.org/wiki/पञ्जाबराज्यम्" इत्यस्माद् प्रतिप्राप्तम्