"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १२:
उत्तराखण्डः अतीवप्रकृतिरमणीयः प्रदेशः अस्ति। प्रायः राज्यस्य उत्तरभागस्य प्रदेशः [[हिमालयः|हिमालयस्य]] अङ्गप्रदेशः अस्ति। अस्मिन् भागे उन्नतशिखराणि, हिमनद्यश्च विलसन्ति। [[हिमालयः|हिमालयस्य]] सानुप्रदेशः पूर्वम् आकुलारण्यप्रदेशः आसीत् इति। अरण्यविभागस्य यत्नेन अरण्यस्य वृद्धिः जायमाना अस्ति। [[हिमालयः|हिमालयस्य]] परिसरे विविधवन्यजन्तवः आश्रिताः। वन्यजन्तुषु [[व्याघ्रः|व्याघ्राः]], [[चित्रकः|चित्रकाः]], [[हिमचित्रकः|हिमचित्रकाः]] इत्यादयः अत्र आश्रिताः। अमूल्यानि ’सस्यानि’ तथा ’वनस्पतयश्च’ विलसन्त्यत्र। [[भारतम्|भारतीय]]पवित्रतमौ महानद्यौ [[गङ्गा]] [[यमुना]]च उत्तराखण्डस्य [[हिमालयः|हिमपर्वतमूले]] उद्भूते। [[हिमालयः|हिमालयपर्वतश्रेणेः]] दक्षिणे भागे उत्तराखण्डः अस्ति। उन्नतप्रदेशाः हिमेण तथा शिलया च आवृताः सन्ति। ’तेराय्’ तथा गङ्गातीरविस्तृतप्रदेशेषु ’सवान्ना’ शाद्वलः अस्ति। [[नैनिताल्]] जनपदस्य रामनगरे “[[जिम् कार्बेट् राष्ट्रियोद्यानम्]]” अस्ति। चमोलीजनपदे [[पुष्पकन्दरः|पुष्पकन्दरराष्ट्रियोद्यानम्]] [[नन्दादेवी-उद्यानम्|नन्दादेवीराष्ट्रियोद्यानञ्च]] स्तः। [[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डले]] “गोविन्दपशुराष्ट्रियोद्यानम्” “गङ्गोत्रीराष्ट्रियोद्यानञ्च” स्तः। [[हरिद्वारमण्डलम्|हरिद्वारमण्डले]] “राजाजि राष्ट्रियोद्यानम्” अस्ति।
==प्रवासोद्यमविभागः==
उत्तराखण्डस्य धनादायस्य प्रमुखविभागः प्रवासोद्यमविभागः भवति। सर्वदा अत्र तीर्थयात्रिकाः, पर्वतारोहिसाधकाः, पर्यटकाश्च भवन्ति। [[नैनिताल्]], [[मस्सूरि]मस्सूरी], [[अल्मोरा]] तथा [[राणिखेत्]] इत्यादीनि गिरिधामानि प्रसिद्धानिचप्रसिद्धानि भवन्ति।सन्ति। हेमकुण्डस्य "श्वेतपुष्पकन्दरः" तथा [[नन्दादेवी-उद्यानम्|नन्दादेवी राष्ट्रियोद्यानञ्च]] स्तः। विश्वपरम्परास्थानेषु [[नन्दादेवी-उद्यानम्|नन्दादेवी राष्ट्रियोद्यानमपि]] एकम्। अधिकान्अन्यतमम्। पर्यटकान्अधिकानां आकर्षितंपर्यटकानाम् स्थानम्आकर्षणस्थानम् इदम्।एतत्
 
==धार्मिकक्षेत्राणि==
हैन्दवानां पवित्रतम पुण्यक्षेत्रेषु कानिचन क्षेत्राणि उत्तराखण्डराज्ये राराजन्ते। तानि [[गङ्गोत्री]], [[यमुनोत्री]], [[केदारेश्वरः|केदारनाथः]], [[बदरीनाथः]](चार् धाम्) इति सुप्रसिद्धानि पवित्रतमक्षेत्राणिच भवन्ति। तथैव [[हरिद्वारम्]], [[हृषीकेशः|हृषीकेशौ]] पवित्रक्षेत्रे भवतः। सिक् धर्मस्य “हेमकुण्ड साहेब्” पुण्यं स्थानं भवति। [[टिबेट्]] [[बौद्धधर्म:|बौद्धधर्मस्य]] बुद्धस्थूपसहितं मिण्ड्रोलिङ्ग पवित्रं स्थानम् अत्रैव अस्ति।
"https://sa.wikipedia.org/wiki/उत्तराखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्