"द्वैतदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४५:
| तितिक्षा || भयम् || लज्जा || गाम्भीर्यम् || सौन्दर्यम् || औदार्य || स्थैर्यम् || शौर्यम् || सौभाग्यम् || बलम्
|}
 
==कर्म==
अस्मिन् दर्शने त्रीणि कर्माणि भवन्ति। विहित, निषिद्ध, उदासीनेति त्रीणि कर्माणि। विहितकर्म पुनः द्विविधम्, काम्यं तथा अकाम्यमिति। फलापेक्षेण कर्म क्रियते तत् काम्यकर्म इति। देवम् उद्दिष्य कर्म क्रियते तत् अकाम्यकर्म भवति। ब्रह्मादि देवानां सर्वेषां काम्याकाम्यकर्मणि भवतः। जीवेषु निषिद्धकर्म अधिकतया भवति। चलनादीनि उदासीनकर्म इति व्यवहारः।
==सामान्यम्==
सामान्यं द्विविधम्। एकं जातिः अपरम् उपाधिः इति। गोत्वम्, मनुष्यत्वम् इत्याद्याः जातयः भवन्ति। सर्वज्ञत्वम्, वाच्यत्वम्, प्रमेयत्वादिकम् उपाधयः भवन्ति। सामन्यं नित्यमनित्यम् इति द्विधा। जीवत्वादीनि नित्यम् भवति। मनुष्यत्वम्, गोत्वमादीनि अनित्यसामान्याम् भवति।
==विशेषः==
वास्तविकतया भेदः न भवति चेदपि कश्चन पदार्थः भेदं जनयति सैव विशेषः भवति। सकलवस्तुषु व्यापृतं भवति। अतः विशेषाः अनन्ताः भवन्ति। देवः केवलं विज्ञानानन्दमयः भवति। अयं विशेषः नान्यत्र भवितुम् अर्हति। अनेनैव जीवेश्वरयोः भेदः स्पष्टं भवति।
==विशिष्टः==
विशेष्ये वेशेषणस्य सम्भन्धात् यः आकारः उत्पद्यते सैव विशिष्टपदार्थः भवति। विशेष्टः नित्यानित्यभेदेन द्विविधः भवति। सर्वज्ञादिविशिष्टाः ब्रह्मादयः नित्याः भवन्ति। दण्डिमानादयः अनित्याः भवन्ति।
==अंशि==
हस्तपादादिभिः विभक्तेषु समग्रावयवेषु व्याप्तम् विशिष्टपदार्थम् अंशिपदार्थः इति व्यवहारः।
==शक्तिः==
सहजशक्तिः, पदशक्तिः, आधेयशक्तिः, अचिन्त्यशक्तिः इति चतुर्धा विभक्ता अस्ति।
*कार्यमात्रं प्रति अनुकूलास्वाभाविका या शक्तिः सा "सहजा" भवति। सर्वेषु व्यापृतं भवति। पदार्थभेदेन एषा नित्यानित्या इति विभाक्ता अस्ति।
*पदपदार्थयोः विद्यमाना(वाच्य-वाचक) शक्तिः "पदशक्तिः" भवति। पदशक्तिः द्विवधा भवति। मुख्य, परममुख्येति द्विधा। उदहरणार्थं “इन्द्रः” इति पदस्य देवेन्द्रः इति अर्थः मुख्यवृत्या लभ्यते। परमेश्वरः इति अर्थः परमुख्यवृत्या लभ्यते इति। परममुख्यवृत्या पदानि सर्वाणि परमेश्वरमेव बोधयन्ति इति।
*अन्यस्मात् स्थापितां शक्तिम् "आधेयशक्तिः" इति व्यवहारः। विधिवत्तया प्रतिष्ठापितमूर्तौ देवातासानिध्यं यत् भवति सा आधेयशक्तिः इति।
*परमात्मनि अलौकिकां शक्तिम् "अचिन्त्यशक्तिः" इति भावयन्ति। एषा केवलं [[विष्णुः|विष्णौ]] एव भवति।
==सादृश्यम्==
साम्यता यत्र भवति तत्र सादृश्यम् भवति इति व्यवहारः। अयं घटः इति ज्ञानं भवति, कालान्तरे घटान्तरं दृष्ट्वा सादृश्यात् अयं घटः इति ज्ञानमायाति।
==अभावः==
अभावः चतुर्धा विभक्तः अस्ति। प्रागभावः, प्रध्वंसाभावः, अन्योन्याभावः, अत्यन्ताभावश्चेति। "प्रागभावोनाम" घटोत्पत्तेः पूर्वस्थितिः(घटप्रागभावः)। घटस्य नाशानन्तरस्थितिः "प्रध्वंसाभावः"। घटः पटो न इति तु "अन्योन्याभावः" भवति। शशविषाणः "अत्यन्ताभावः" भवति।
"https://sa.wikipedia.org/wiki/द्वैतदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्