"लक्ष्मीबाई" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८०:
गीतैः, उत्सवैः, मनोरञ्जककार्यक्रमैः सैन्ये असन्तृप्तिः इतोऽपि ज्वालनीया इति महिलाः अपि कटिबद्धा:। या काऽपि प्रगतिः भवतु सा वार्ता राज्ञीं प्राप्नोति स्म ।
फेब्रवरीमासे पूर्णिमाया: अनन्तरम् एकस्मिन् दिने तात्यातोपे राज्ञ्या मेलितुमागतवान् । सः स्वेन सह एकं पत्रम् आनीतवान् । तस्मिन् पत्रे " इतोऽपि विलम्बः नोचित:। हृदये गाहितानि शूलानि इतोऽपि कियत्कालं सहामहे । उत्तिष्ठन्तु न्याय्यं प्राप्तुं आत्मसमर्पणाय सिध्दा: भवन्तु । केचन दुष्टाः पालकाः एतं देशं दास्यतागर्ते क्षिप्तवन्तः सन्ति । तान् बहिष्कुर्वन्तु । देशं स्वतन्त्रं कुर्वन्तु । स्वीयाधिकारान् रक्षन्तु " इत्यासीत् ।
समयः इदानीं नानुकूलःनानु कूलः इति राज्ञ्याः अभिप्रायः आसीत् । किन्तु तात्या तु 'सेनायाम् असन्तृप्तिः तीव्रस्तरे अस्ति, आयुधानि, विस्फोटनसामग्री च सिध्दा अस्ति, धनसम्पादनञ्च आसाध्यं न भवति'इति तां विश्वासितवान् ।
मेमासस्य एकत्रिंशत् दिनाङ्के रविवासरे देशे सर्वत्र प्रजाभिः एककाले क्रान्तिः करणीया इति निश्चितम्।
कमलं विद्यादेव्याः सरस्वत्याः, धनदेव्याः लक्ष्म्याः च प्रतीकम् । तदेव कमलं एतस्याः क्रान्ते: चिह्नम् अभवत् । किन्तु बारकपुरे निश्चितदिनात् पूर्वमेव क्रान्तिः आरब्धा। मेमासस्य दशमदिनाङ्के मीरठनगरे क्रान्त्याः ज्वालाः विजृम्भिताः। मीरठ तथा देहली एवं नगरद्वये सैनिकाः एकत्रिता:। देहलीसिंहासनं स्वायत्तीकृतवन्तः । बहदुरशाहं भारतदेशचक्रवर्तिनं घोषितवन्तः।
पङ्क्तिः १४३:
"क्रान्तिकारिणां सर्वेषां मध्ये अत्यन्तं साहसवती, सर्वेभ्यः अत्युत्तमा सेनानेत्री च राज्ञी लक्ष्मीबायी" इति ।
[[चित्रम्:Rani Lakshmibai.jpg|thumb|जॉन स्टोन ऍण्ड हॉटमैन इति केनचित् ८५०तमे वर्षे स्वीकृतं झान्सीलक्ष्म्याः मूलभावचित्रम्]]
 
==बाह्यसम्पर्कतन्तुः==
*[http://www.copsey-family.org/~allenc/lakshmibai/timeline.html Timeline from the birth of Lakshmibai until her death]; Allen Copsey
*[http://www.copsey-family.org/~allenc/lakshmibai/index.html Lakshmibai, Rani of Jhansi]; Allen Copsey
*[http://www.copsey-family.org/~allenc/lakshmibai/lang.html John Lang's account of his meeting with the Rani]; uploaded by Allen Copsey
*[http://www.1857mutiny.com/Analysis/jhansi-run/ Day-by-day account of Jhansi's role during the First Indian Rebellion]
 
{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}
"https://sa.wikipedia.org/wiki/लक्ष्मीबाई" इत्यस्माद् प्रतिप्राप्तम्